धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 171

  1. भीष्म उवाच ततॊ ऽहं भरतश्रेष्ठ मातरं वीरमातरम अभिगम्यॊपसंगृह्य दाशेयीम इदम अब्रुवम ॥ 1 ॥

  2. इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान विचित्रवीर्यस्य कृते वीर्यशुल्का उपार्जिताः ॥ 2 ॥

  3. ततॊ मूर्धन्य उपाघ्राय पर्यश्रुनयना नृप आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं तवया ॥ 3 ॥

  4. सत्यवत्यास तव अनुमते विवाहे समुपस्थिते उवाच वाक्यं सव्रीडा जयेष्ठा काशिपतेः सुता ॥ 4 ॥

  5. भीष्म तवम असि धर्मज्ञः सर्वशास्त्रविशारदः शरुत्वा च धर्म्यं वचनं मह्यं कर्तुम इहार्हसि ॥ 5 ॥

  6. मया शाल्वपतिः पूर्वं मनसाभिवृतॊ वरः तेन चास्मि वृता पूर्वं रहस्य अविदिते पितुः ॥ 6 ॥

  7. कथं माम अन्यकामां तवं राजञ शास्त्रम अधीत्य वै वासयेथा गृहे भीष्म कौरवः सन विशेषतः ॥ 7 ॥

  8. एतद बुद्ध्या विनिश्चित्य मनसा भरतर्षभ यत कषमं ते महाबाहॊ तद इहारब्धुम अर्हसि ॥ 8 ॥

  9. स मां परतीक्षते वयक्तं शाल्वराजॊ विशां पते कृपां कुरु महाबाहॊ मयि धर्मभृतां वर तवं हि सत्यव्रतॊ वीर पृथिव्याम इति नः शरुतम ॥ 9 ॥

Reach this point to mark the section finished.

Continue to अध्याय 172

Previous: अध्याय 170