धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 170

  1. दुर्यॊधन उवाच किमर्थं भरतश्रेष्ठ न हन्यास तवं शिखण्डिनम उद्यतेषुम अथॊ दृष्ट्वा समरेष्व आततायिनम ॥ 1 ॥

  2. पूर्वम उक्त्वा महाबाहॊ पाण्डवान सह सॊमकैः वधिष्यामीति गाङ्गेय तन मे बरूहि पितामह ॥ 2 ॥

  3. भीष्म उवाच शृणु दुर्यॊधन कथां सहैभिर वसुधाधिपैः यदर्थं युधि संप्रेक्ष्य नाहं हन्यां शिखण्डिनम ॥ 3 ॥

  4. महाराजॊ मम पिता शंतनुर भरतर्षभः दिष्टान्तं पराप धर्मात्मा समये पुरुषर्षभ ॥ 4 ॥

  5. ततॊ ऽहं भरतश्रेष्ठ परतिज्ञां परिपालयन चित्राङ्गदं भरातरं वै महाराज्ये ऽभयषेचयम ॥ 5 ॥

  6. तस्मिंश च निधनं पराप्ते सत्यवत्या मते सथितः विचित्रवीर्यं राजानम अभ्यषिञ्चं यथाविधि ॥ 6 ॥

  7. मयाभिषिक्तॊ राजेन्द्र यवीयान अपि धर्मतः विचित्रवीर्यॊ धर्मात्मा माम एव समुदैक्षत ॥ 7 ॥

  8. तस्य दारक्रियां तात चिकीर्षुर अहम अप्य उत अनुरूपाद इव कुलाद इति चिन्त्य मनॊ दधे ॥ 8 ॥

  9. तथाश्रौषं महाबाहॊ तिस्रः कन्याः सवयंवरे रूपेणाप्रतिमाः सर्वाः काशिराजसुतास तदा अम्बा चैवाम्बिका चैव तथैवाम्बालिकापरा ॥ 9 ॥

  10. राजानश च समाहूताः पृथिव्यां भरतर्षभ अम्बा जयेष्ठाभवत तासाम अम्बिका तव अथ मध्यमा अम्बालिका च राजेन्द्र राजकन्या यवीयसी ॥ 10 ॥

  11. सॊ ऽहम एकरथेनैव गतः काशिपतेः पुरीम अपश्यं ता महाबाहॊ तिस्रः कन्याः सवलंकृताः राज्ञश चैव समावृत्तान पार्थिवान पृथिवीपते ॥ 11 ॥

  12. ततॊ ऽहं तान नृपान सर्वान आहूय समरे सथितान रथम आरॊपयां चक्रे कन्यास ता भरतर्षभ ॥ 12 ॥

  13. वीर्यशुल्काश च ता जञात्वा समारॊप्य रथं तदा अवॊचं पार्थिवान सर्वान अहं तत्र समागतान भीष्मः शांतनवः कन्या हरतीति पुनः पुनः ॥ 13 ॥

  14. ते यतध्वं परं शक्त्या सर्वे मॊक्षाय पार्थिवाः परसह्य हि नयाम्य एष मिषतां वॊ नराधिपाः ॥ 14 ॥

  15. ततस ते पृथिवीपालाः समुत्पेतुर उदायुधाः यॊगॊ यॊग इति करुद्धाः सारथींश चाप्य अचॊदयन ॥ 15 ॥

  16. ते रथैर मेघसंकाशैर गजैश च गजयॊधिनः पृष्ठ्यैश चाश्वैर महीपालाः समुत्पेतुर उदायुधाः ॥ 16 ॥

  17. ततस ते मां महीपालाः सर्व एव विशां पते रथव्रातेन महता सर्वतः पर्यवारयन ॥ 17 ॥

  18. तान अहं शरवर्षेण महता परत्यवारयम सर्वान नृपांश चाप्य अजयं देवराड इव दानवान ॥ 18 ॥

  19. तेषाम आतपतां चित्रान धवजान हेमपरिष्कृतान एकैकेन हि बाणेन भूमौ पातितवान अहम ॥ 19 ॥

  20. हयांश चैषां गजांश चैव सारथींश चाप्य अहं रणे अपातयं शरैर दीप्तैः परहसन पुरुषर्षभ ॥ 20 ॥

  21. ते निवृत्ताश च भग्नाश च दृष्ट्वा तल लाघवं मम अथाहं हास्तिनपुरम आयां जित्वा महीक्षितः ॥ 21 ॥

  22. अतॊ ऽहं ताश च कन्या वै भरातुर अर्थाय भारत तच च कर्म महाबाहॊ सत्यवत्यै नयवेदयम ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 171

Previous: अध्याय 169