धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 169

  1. [भीस्म] रॊचमानॊ महाराज पाण्डवानां महारथः यॊत्स्यते ऽमरवत संख्ये परसैन्येषु भारत ॥ 1 ॥

  2. पुरुजित कुन्तिभॊजश च महेष्वासॊ महाबलः मातुलॊ भीमसेनस्य स च मे ऽतिरथॊ मतः ॥ 2 ॥

  3. एष वीरॊ महेष्वासः कृती च निपुणश च ह चित्रयॊधी च शक्तश च मतॊ मे रथपुंगवः ॥ 3 ॥

  4. स यॊत्स्यति हि विक्रम्य मघवान इव दानवैः यॊधाश चास्य परिख्याताः सर्वे युद्धविशारदाः ॥ 4 ॥

  5. भागिनेय कृते वीरः स करिष्यति संगरे सुमहत कर्म पाण्डूनां सथितः परियहिते नृपः ॥ 5 ॥

  6. भैमसेनिर महाराज हैडिम्बॊ राक्षसेश्वरः मतॊ मे बहु मायावी रथयूथप यूथपः ॥ 6 ॥

  7. यॊत्स्यते समरे तात मायाभिः समरप्रियः ये चास्य राक्षसाः शूराः सचिवा वशवर्तिनः ॥ 7 ॥

  8. एते चान्ये च बहवॊ नानाजनपदेश्वराः समेताः पाण्डवस्यार्थे वासुदेव पुरॊगमाः ॥ 8 ॥

  9. एते पराधान्यतॊ राजन पाण्डवस्य महात्मनः रथाश चातिरथाश चैव ये चाप्य अर्धरथा मताः ॥ 9 ॥

  10. नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना ॥ 10 ॥

  11. तैर अहं समरे वीर तवाम आयद्भिर जयैषिभिः यॊत्स्यामि जयम आकाङ्क्षन्न अथ वा निधनं रणे ॥ 11 ॥

  12. पार्थं च वासुदेवं च चक्रगाण्डीवधारिणौ संध्यागताव इवार्केन्दू समेष्ये पुरुषॊत्तमौ ॥ 12 ॥

  13. ये चैव ते रथॊदाराः पाण्डुपुत्रस्य सैनिकाः सह सैन्यान अहं तांश च परतीयां रणमूर्धनि ॥ 13 ॥

  14. एते रथाश चातिरथाश च तुभ्यं; यथा परधानं नृप कीर्तिता मया तथा राजन्न अर्धरथाश च के चित; तथैव तेषाम अपि कौरवेन्द्र ॥ 14 ॥

  15. अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः सर्वान आवारयिष्यामि यावद दरक्ष्यामि भारत ॥ 15 ॥

  16. पाञ्चाल्यं तु महाबाहॊ नाहं हन्यां शिखण्डिनम उद्यतेषुम अभिप्रेक्ष्य परतियुध्यन्तम आहवे ॥ 16 ॥

  17. लॊकस तद वेद यद अहं पितुः परियचिकीर्षया पराप्तं राज्यं परित्यज्य बरह्मचर्ये धृतव्रतः ॥ 17 ॥

  18. चित्राङ्गदं कौरवाणाम अहं राज्ये ऽभयषेचयम विचित्रवीर्यं च शिशुं यौवराज्ये ऽभयषेचयम ॥ 18 ॥

  19. देवव्रतत्वं विख्याप्य पृथिव्यां सर्वराजसु नैव हन्यां सत्रियं जातु न सत्रीपूर्वं कथं चन ॥ 19 ॥

  20. स हि सत्रीपूर्वकॊ राजञ शिखण्डी यदि ते शरुतः कन्या भूत्वा पुमाञ जातॊ न यॊत्स्ये तेन भारत ॥ 20 ॥

  21. सर्वांस तव अन्यान हनिष्यामि पार्थिवान भरतर्षभ यान समेष्यामि समरे न तु कुन्तीसुतान नृप ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 170

Previous: अध्याय 168