[बृ] तवम अग्ने सर्वदेवानां मुखं तवम असि हव्यवाट तवम अन्तः सर्वभूतानां गूढश चरसि साक्षिवत ॥ 1 ॥
तवाम आहुर एकं कवयस तवाम आहुस तरिविधं पुनः तवया तयक्तं जगच चेदं सद्यॊ नश्येद धुताशन ॥ 2 ॥
कृत्वा तुभ्यं नमॊ विप्राः सवकर्म विजितां गतिम गच्छन्ति सह पत्नीभिः सुतैर अपि च शाश्वतीम ॥ 3 ॥
तवम एवाग्ने हव्यवाहस तवम एव परमं हविः यजन्ति सत्रैस तवाम एव यज्ञैश च परमाध्वरे ॥ 4 ॥
सृष्ट्वा लॊकांस तरीन इमान हव्यवाह; पराप्ते काले पचसि पुनः समिद्धः सर्वस्यास्य भुवनस्य परसूतिस; तवम एवाग्रे भवसि पुनः परतिष्ठा ॥ 5 ॥
तवाम अग्ने जलदान आहुर विद्युतश च तवम एव हि दहन्ति सर्वभूतानि तवत्तॊ निष्क्रम्य हायनाः ॥ 6 ॥
तवय्य आपॊ निहिताः सर्वास तवयि सर्वम इदं जगत न ते ऽसत्व अविदितं किं चित तरिषु लॊकेषु पावक ॥ 7 ॥
सवयॊनिं भजते सर्वॊ विशस्वापॊ ऽविशङ्कितः अहं तवां वर्धयिष्यामि बराह्मैर मन्त्रैः सनातनैः ॥ 8 ॥
एवं सतुतॊ हव्यवाहॊ भगवान कविर उत्तमः बृहस्पतिम अथॊवाच परीतिमान वाक्यम उत्तमम दर्शयिष्यामि ते शक्रं सत्यम एतद बरवीमि ते ॥ 9 ॥
परविश्यापस ततॊ वह्निः स समुद्राः स पल्वलाः आजगाम सरस तच च गूढॊ यत्र शतक्रतुः ॥ 10 ॥
अथ तत्रापि पद्मानि विचिन्वन भरतर्षभ अन्वपश्यत स देवेन्द्रं विसमध्यगतं सथितम ॥ 11 ॥
आगत्य च ततस तूर्णं तम आचष्ट बृहस्पतेः अणु मात्रेण वपुषा पद्मतन्त्व आश्रितं परभुम ॥ 12 ॥
गत्वा देवर्षिगन्धर्वैः सहितॊ ऽथ बृहस्पतिः पुराणैः कर्मभिर देवं तुष्टाव बलसूदनम ॥ 13 ॥
महासुरॊ हतः शक्र नमुचिर दारुणस तवया शम्बरश च बलश चैव तथॊभौ घॊरविक्रमौ ॥ 14 ॥
शतक्रतॊ विवर्धस्व सर्वाञ शत्रून निषूदय उत्तिष्ठ वज्रिन संपश्य देवर्षींश च समागतान ॥ 15 ॥
महेन्द्र दानवान हत्वा लॊकास तरातास तवया विभॊ अपां फेनं समासाद्य विष्णुतेजॊपबृंहितम तवया वृत्रॊ हतः पूर्वं देवराजजगत्पते ॥ 16 ॥
तवं सर्वभूतेषु वरेण्य ईड्यस; तवया समं विद्यते नेह भूतम तवया धार्यन्ते सर्वभूतानि शक्र; तवं देवानां महिमानं चकर्थ ॥ 17 ॥
पाहि देवान स लॊकांश च महेन्द्र बलम आप्नुहि एवं संस्तूयमानश च सॊ ऽवर्धत शनैः शनैः ॥ 18 ॥
सवं चैव वपुर आस्थाय बभूव सबलान्वितः अब्रवीच च गुरुं देवॊ बृहस्पतिम उपस्थितम ॥ 19 ॥
किं कार्यम अवशिष्टं वॊ हतस तवाष्ट्रॊ महासुरः वृत्रश च सुमहाकायॊ गरस्तुं लॊकान इयेष यः ॥ 20 ॥
मानुषॊ नहुषॊ राजा देवर्षिगणतेजसा देवराज्यम अनुप्राप्तः सर्वान नॊ बाधते भृशम ॥ 21 ॥
कथं नु नहुषॊ राज्यं देवानां पराप दुर्लभम तपसा केन वा युक्तः किं वीर्यॊ वा बृहस्पते ॥ 22 ॥
देवा भीताः शक्रम अकामयन्त; तवया तयक्तं महद ऐन्द्रं पदं तत तदा देवाः पितरॊ ऽथर्षयश च; गन्धर्वसंघाश च समेत्य सर्वे ॥ 23 ॥
गत्वाब्रुवन नहुषं शक्र तत्र; तवं नॊ राजा भव भुवनस्य गॊप्ता तान अब्रवीन नहुषॊ नास्मि शक्र; आप्यायध्वं तपसा तेजसा च ॥ 24 ॥
एवम उक्तैर वर्धितश चापि देवै; राजाभवन नहुषॊ घॊरवीर्यः तरैलॊक्ये च पराप्य राज्यं तपस्विनः; कृत्वा वाहान याति लॊकान दुरात्मा ॥ 25 ॥
तेजॊ हरं दृष्टिविषं सुघॊरं; मा तवं पश्येर नहुषं वै कदा चित देवाश च सर्वे नहुषं भयार्ता; न पश्यन्तॊ गूढरूपाश चरन्ति ॥ 26 ॥
एवं वदत्य अङ्गिरसां वरिष्ठे; बृहस्पतौ लॊकपालः कुबेरः वैवस्वतश चैव यमः पुराणॊ; देवश च सॊमॊ वरुणश चाजगाम ॥ 27 ॥
ते वै समागम्य महेन्द्रम ऊचुर; दिष्ट्या तवाष्ट्रॊ निहतश चैव वृत्रः दिष्ट्या च तवां कुशलिनम अक्षतं च; पश्यामॊ वै निहतारिं च शक्र ॥ 28 ॥
स तान यथावत परतिभाष्य शक्रः; संचॊदयन नहुषस्यान्तरेण राजा देवानां नहुषॊ घॊररूपस; तत्र साह्यं दीयतां मे भवद्भिः ॥ 29 ॥
ते चाब्रुवन नहुषॊ घॊररूपॊ; दृष्टी विषस तस्य बिभीम देव तवं चेद राजन नहुषं पराजयेस; तद वै वयं भागम अर्हाम शक्र ॥ 30 ॥
इन्द्रॊ ऽबरवीद भवतु भवान अपां पतिर; यमः कुबेरश च महाभिषेकम संप्राप्नुवन्त्व अद्य सहैव तेन; रिपुं जयामॊ नहुषं घॊरदृष्टिम ॥ 31 ॥
ततः शक्रं जवलनॊ ऽपय आह भागं; परयच्छ मह्यं तव साह्यं करिष्ये तम आह शक्रॊ भविताग्ने तवापि; ऐन्द्राग्नॊ वै भाग एकॊ महाक्रतौ ॥ 32 ॥
एवं संचिन्त्य भगवान महेन्द्रः पाकशासनः कुबेरं सर्वयक्षाणां धनानां च परभुं तथा ॥ 33 ॥
वैवस्वतं पितॄणां च वरुणं चाप्य अपां तथा आधिपत्यं ददौ शक्रः सत्कृत्य वरदस तदा ॥ 34 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 16
Reach this point to mark the section finished.
Continue to अध्याय 17