धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 168

  1. [भीस्म] पाञ्चालराजस्य सुतॊ राजन परपुरंजयः शिखण्डी रथमुख्यॊ मे मतः पार्थस्य भारत ॥ 1 ॥

  2. एष यॊत्स्यति संग्रामे नाशयन पूर्वसंस्थितिम परं यशॊ विप्रथयंस तव सेनासु भारत ॥ 2 ॥

  3. एतस्य बहुलाः सेनाः पाञ्चालाश च परभद्रकाः तेनासौ रथवंशेन महत कर्म करिष्यति ॥ 3 ॥

  4. धृष्टद्युम्नश च सेनानीः सर्वसेनासु भारत मतॊ मे ऽतिरथॊ राजन दरॊणशिष्यॊ महारथः ॥ 4 ॥

  5. एष यॊत्स्यति संग्रामे सूदयन वै परान रणे भगवान इव संक्रुद्धः पिनाकी युगसंक्षये ॥ 5 ॥

  6. एतस्य तद्रथानीकं कथयन्ति रणप्रियाः बहुत्वात सागरप्रख्यं देवानाम इव संयुगे ॥ 6 ॥

  7. कषत्रधर्मा तु राजेन्द्र मतॊ मे ऽरधरथॊ नृप धृष्टद्युम्नस्य तनयॊ बाल्यान नातिकृत शरमः ॥ 7 ॥

  8. शिशुपाल सुतॊ वीरश चेदिराजॊ महारथः धृष्टकेतुर महेष्वासः संबन्धी पाण्डवस्य ह ॥ 8 ॥

  9. एष चेदिपतिः शूरः सह पुत्रेण भारत महारथेनासुकरं महत कर्म करिष्यति ॥ 9 ॥

  10. कषत्रधर्मरतॊ मह्यं मतः परपुरंजयः कषत्रदेवस तु राजेन्द्र पाण्डवेषु रथॊत्तमः जयन्तश चामितौजाश च सत्यजिच च महारथः ॥ 10 ॥

  11. महारथा महात्मानः सर्वे पाञ्चाल सत्तमाः यॊत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः ॥ 11 ॥

  12. अजॊ भॊजश च विक्रान्तौ पाण्डवेषु महारथौ पाण्डवानां सहायार्थे परं शक्थ्या यतिष्यतः शीघ्रास्त्रौ चित्रयॊद्धारौ कृतिनौ दृढविक्रमौ ॥ 12 ॥

  13. केकयाः पञ्च राजेन्द्र भरातरॊ युद्धदुर्मदाः सर्व एते रथॊदाराः सर्वे लॊहितक धवजाः ॥ 13 ॥

  14. काशिकः सुकुमारश च नीलॊ यश चापरॊ नृपः सूर्यदत्तश च शङ्खश च मदिराश्वश च नामतः ॥ 14 ॥

  15. सर्व एते रथॊदाराः सर्वे चाहवलक्षणाः सर्वास्त्रविदुषः सर्वे महात्मानॊ मता मम ॥ 15 ॥

  16. वार्धक्षेमिर महाराज रथॊ मम महान मतः चित्रायुधश च नृपतिर मतॊ मे रथसत्तमः स हि संग्रामशॊभी च भक्तश चापि किरीटिनः ॥ 16 ॥

  17. चेकितानः सत्यधृतिः पाण्डवानां महारथौ दवाव इमौ पुरुषव्याघौ रथॊदारौ मतौ मम ॥ 17 ॥

  18. वयाघ्रदत्तश च राजेन्द्र चन्द्र सेनश च भारत मतौ मम रथॊदारौ पाण्डवानां न संशयः ॥ 18 ॥

  19. सेना बिन्दुश च राजेन्द्र करॊधहन्ता च नामतः यः समॊ वासुदेवेन भीमसेनेन चाभिभूः स यॊत्स्यतीह विक्रम्य समरे तव सैनिकैः ॥ 19 ॥

  20. मां दरॊणं च कृपं चैव यथा संमन्यते भवान तथा स समरश्लाघी मन्तव्यॊ रथसत्तमः ॥ 20 ॥

  21. काश्यः परमशीघ्रास्त्रः शलाघनीयॊ रथॊत्तमः रथ एकगुणॊ मह्यं मतः परपुरंजयः ॥ 21 ॥

  22. अयं च युधि विक्रान्तॊ मन्तव्यॊ ऽषट गुणॊ रथः सत्यजित समरश्लाघी दरुपदस्यात्मजॊ युवा ॥ 22 ॥

  23. गतः सॊ ऽतिरथत्वं हि धृष्टद्युम्नेन संमितः पाण्डवानां यशः कामः परं कर्म करिष्यति ॥ 23 ॥

  24. अनुरक्तश च शूरश च रथॊ ऽयम अपरॊ महान पाण्ड्य राजॊ महावीर्यः पाण्डवानां धुरंधरः ॥ 24 ॥

  25. दृढधन्वा महेष्वासः पाण्डवानां रथॊत्तमः शरेणिमान कौरवश्रेष्ठ वसु दानश च पार्थिवः उभाव एताव अतिरथौ मतौ मम परंतप ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 169

Previous: अध्याय 167