[भीस्म] दरौपदेया महाराज सर्वे पञ्च महारथाः वैराटिर उत्तरश चैव रथॊ मम महान मतः ॥ 1 ॥
अभिमन्युर महाराज रथयूथप यूथपः समः पार्थेन समरे वासुदेवेन वा भवेत ॥ 2 ॥
लघ्व अस्त्रश चित्रयॊधी च मनस्वी दृढविक्रमः संस्मरन वै परिक्लेशं सवपितुर विक्रमिष्यति ॥ 3 ॥
सात्यकिर माधवः शूरॊ रथयूथप यूथपः एष वृष्णिप्रवीराणाम अमर्षी जितसाध्वसः ॥ 4 ॥
उत्तमौजास तथा राजन रथॊ मम महान मतः युधामन्युश च विक्रान्तॊ रथॊदारॊ नरर्षभः ॥ 5 ॥
एतेषां बहुसाहस्रा रथा नागा हयास तथा यॊत्स्यन्ते ते तनुं तयक्त्वा कुन्तीपुत्र परियेप्सया ॥ 6 ॥
पाण्डवैः सह राजेन्द्र तव सेनासु भारत अग्निमारुतवद राजन्न आह्वयन्तः परस्परम ॥ 7 ॥
अजेयौ समरे वृद्धौ विराटद्रुपदाव उभौ महारथौ महावीर्यौ मतौ मे पुरुषर्षभौ ॥ 8 ॥
वयॊवृद्धाव अपि तु तौ कषत्रधर्मपरायणौ यतिष्येते परं शक्त्या सथितौ वीर गते पथि ॥ 9 ॥
संबन्धकेन राजेन्द्र तौ तु वीर्यबलान्वयात आर्य वृत्तौ महेष्वासौ सनेहपाशसिताव उभौ ॥ 10 ॥
कारणं पराप्य तु नराः सर्व एव महाभुजाः शूरा वा कातरा वापि भवन्ति नरपुंगव ॥ 11 ॥
एकायनगताव एतौ पार्थेन दृढभक्तिकौ तयक्त्वा पराणान परं शक्त्या घटितारौ नराधिप ॥ 12 ॥
पृथग अक्षौहिणीभ्यां ताव उभौ संयति दारुणौ संबन्धिभावं रक्षन्तौ महत कर्म करिष्यतः ॥ 13 ॥
लॊकवीरौ महेष्वासौ तयक्तात्मानौ च भारत परत्ययम्परिरक्षन्तौ महत कर्म करिष्यतः ॥ 14 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 167
Reach this point to mark the section finished.
Continue to अध्याय 168