[भीस्म] समुद्यतॊ ऽयं भारॊ मे सुमहान सागरॊपमः धार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः ॥ 1 ॥
तस्मिन्न अभ्यागते काले परतप्ते लॊमहर्षणे मिथॊ भेदॊ न मे कार्यस तेन जीवसि सूतज ॥ 2 ॥
न हय अहं नाद्य विक्रम्य सथविरॊ ऽपि शिशॊस तव युद्धश्रद्धां रणे छिन्द्यां जीवितस्य च सूतज ॥ 3 ॥
जामदग्न्येन रामेण महास्त्राणि परमुञ्चता न मे वयथाभवत का चित तवं तु मे किं करिष्यसि ॥ 4 ॥
कामं नैतत परशंसन्ति सन्तॊ ऽऽतमबलसंस्तवम वक्ष्यामि तु तवां संतप्तॊ निहीन कुलपांसन ॥ 5 ॥
समेतं पार्थिवं कषत्रं काशिराज्ञः सवयंवरे निर्जित्यैक रथेनैव यत कन्यास तरसा हृताः ॥ 6 ॥
ईदृशानां सहस्राणि विशिष्टानाम अथॊ पुनः मयैकेन निरस्तानि ससैन्यानि रणाजिरे ॥ 7 ॥
तवां पराप्य वैरपुरुषं कुरूणाम अनयॊ महान उपस्थितॊ विनाशाय यतस्व पुरुषॊ भव ॥ 8 ॥
युध्यस्व पार्थं समरे येन विस्पर्धसे सह दरक्ष्यामि तवां विनिर्मुक्तम अस्माद युद्धात सुदुर्मते ॥ 9 ॥
तम उवाच ततॊ राजा धार्तराष्ट्रॊ महामनाः माम अवेक्षस्व गाङ्गेय कार्यं हि महद उद्यतम ॥ 10 ॥
चिन्त्यताम इदम एवाग्रे मम निःश्रेयसं परम उभाव अपि भवन्तौ मे महत कर्म करिष्यतः ॥ 11 ॥
भूयश च शरॊतुम इच्छामि परेषां रथसत्तमान ये चैवातिरथास तत्र तथैव रथयूथपाः ॥ 12 ॥
बलाबलम अमित्राणां शरॊतुम इच्छामि कौरव परभातायां रजन्यां वै इदं युद्धं भविष्यति ॥ 13 ॥
एते रथास ते संख्यातास तथैवातिरथा नृप य चाप्य अर्धरथा राजन पाण्डवानाम अतः शृणु ॥ 14 ॥
यदि कौतूहलं ते ऽदय पाण्डवानां बले नृप रथसंख्यां महाबाहॊ सहैभिर वसुधाधिपैः ॥ 15 ॥
सवयं राजा रथॊदारः पाण्डवः कुन्तिनन्दनः अग्निवत समरे तात चरिष्यति न संशयः ॥ 16 ॥
भीमसेनस तु राजेन्द्र रथॊ ऽषट गुणसंमितः नागायुत बलॊ मानी तेजसा न स मानुषः ॥ 17 ॥
माद्रीपुत्रौ तु रथिनौ दवाव एव पुरुषर्षभौ अश्विनाव इव रूपेण तेजसा च समन्वितौ ॥ 18 ॥
एते चमूमुखगताः समरन्तः कलेशम आत्मनः रुद्रवत परचरिष्यन्ति तत्र मे नास्ति संशयः ॥ 19 ॥
सर्व एव महात्मानः शालस्कन्धा इवॊद्गताः परादेशेनाधिकाः पुम्भिर अन्यैस ते च परमाणतः ॥ 20 ॥
सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः चरितब्रह्म चर्याश च सर्वे चातितपस्विनः ॥ 21 ॥
हरीमन्तः पुरुषव्याघ्रा वयाघ्रा इव बलॊत्कटाः जवे परहारे संमर्दे सर्व एवातिमानुषाः सर्वे जितमहीपाला दिग जये भरतर्षभ ॥ 22 ॥
न चैषां पुरुषाः के चिद आयुधानि गदाः शरान विषहन्ति सदा कर्तुम अधिज्यान्य अपि कौरव उद्यन्तुं वा गदां गुर्वीं शरान वापि परकर्षितुम ॥ 23 ॥
जवे लक्ष्यस्य हरणे भॊज्ये पांसुविकर्षणे बलैर अपि भवन्तस तैः सर्व एव विशेषिताः ॥ 24 ॥
ते ते सैन्यं समासाद्य वयाघ्रा इव बलॊत्कटाः विध्वंसयिष्यन्ति रणे मा सम तैः सह संगमः ॥ 25 ॥
एकैकशस ते संग्रामे हन्युः सर्वान महीक्षितः परत्यक्षं तव राजेन्द्र राजसूये यथाभवत ॥ 26 ॥
दरौपद्याश च परिक्लेशं दयूते च परुषा गिरः ते संस्मरन्तः संग्रामे विचरिष्यन्ति कालवत ॥ 27 ॥
लॊहिताक्षॊ गुडा केशॊ नारायण सहायवान उभयॊः सेनयॊर वीर रथॊ नास्तीह तादृशः ॥ 28 ॥
न हि देवेषु वा पूर्वं दानवेषूरगेषु वा राक्षसेष्व अथ यक्षेषु नरेषु कुत एव तु ॥ 29 ॥
भूतॊ ऽथ व भविष्यॊ वा रथः कश चिन मया शरुतः समायुक्तॊ महाराज यथा पार्थस्य धीमतः ॥ 30 ॥
वासुदेवश च संयन्ता यॊधा चैव धनंजयः गाण्डीवं च धनुर दिव्यं ते चाश्वा वातरंहसः ॥ 31 ॥
अभेद्यं कवचं दिव्यम अक्षय्यौ च महेषुधी अस्त्रग्रामश च माहेन्द्रॊ रौद्रः कौबेर एव च ॥ 32 ॥
याम्यश च वारुणश चैव गदाश चॊग्रप्रदर्शनाः वज्रादीनि च मुख्यानि नानाप्रहरणानि वै ॥ 33 ॥
दानवानां सहस्राणि हिरण्यपुरवासिनाम हतान्य एकरथेनाजौ कस तस्य सदृशॊ रथः ॥ 34 ॥
एष हन्याद धि संरम्भी बलवान सत्यविक्रमः तव सेनां महाबाहुः सवां चैव परिपालयन ॥ 35 ॥
अहं चैनं पत्युदियामाचार्यॊ वा धनंजयम न तृतीयॊ ऽसति राजेन्द्र सेनयॊर उभयॊर अपि य एनं शरवर्षाणि वर्षन्तम उदियाद रथी ॥ 36 ॥
जीमूत इव घर्मान्ते महावातसमीरितः समायुक्तस तु कौन्तेयॊ वासुदेवसहायवान तरुणश च कृती चैव जीर्णाव आवाम उभाव अपि ॥ 37 ॥
एतच छरुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा काञ्चनाङ्गदिनः पीना भुजाश चन्दनरूषिताः ॥ 38 ॥
मनॊभिः सह सावेगैः संस्मृत्य च पुरातनम सामर्थ्यं पाण्डवेयानां यथा परत्यक्षदर्शनात ॥ 39 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 166
Reach this point to mark the section finished.
Continue to अध्याय 167