धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 165

  1. [भीस्म] अचलॊ वृषकश चैव भरातरौ सहिताव उभौ रथौ तव दुराधर्षौ शत्रून विध्वंसयिष्यतः ॥ 1 ॥

  2. बलवन्तौ नरव्याघ्रौ दृढक्रॊधौ परहारिणौ गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ ॥ 2 ॥

  3. सखा ते दयितॊ नित्यं य एष रणकर्कशः परॊत्साहयति राजंस तवां विग्रहे पाण्डवैः सह ॥ 3 ॥

  4. परुषः कत्थनॊ नीचः कर्णॊ वैकर्तनस तव मन्त्री नेता च बन्धुश च मानी चात्यन्तम उच्छ्रितः ॥ 4 ॥

  5. एष नैव रथः पूर्णॊ नाप्य एवातिरथॊ नृप वियुक्तः कवचेनैष सहजेन विचेतनः कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं धृणी ॥ 5 ॥

  6. अभिशापाच च रामस्य बराह्मणस्य च भाषणात करणानां वियॊगाच च तेन मे ऽरधरथॊ मतः नैष फल्गुनम आसाद्य पुनर जीवन विमॊक्ष्यते ॥ 6 ॥

  7. [स] ततॊ ऽबरवीन महाबाहुर दरॊणः शस्त्रभृतां वरः एवम एतद यथात्थ तवं न मिथ्यास्तीति किं चन ॥ 7 ॥

  8. रणे रणे ऽतिमानी च विमुखश चैव दृश्यते घृणी कर्णः परमादी च तेन मे ऽरधरथॊ मतः ॥ 8 ॥

  9. एतच छरुत्वा तु राधेयः करॊधाद उत्फुल्ललॊचनः उवाच भीष्मं राजेन्द्र तुदन वाग्भिः परतॊदवत ॥ 9 ॥

  10. पितामह यथेष्टं मां वाक्शरैर उपकृन्तसि अनागसं सदा दवेषाद एवम एव पदे पदे मर्षयामि च तत सर्वं दुर्यॊधनकृतेन वै ॥ 10 ॥

  11. तवं तु मां मन्यसे ऽशक्तं यथा पापुरुषं तथा भवान अर्धरथॊ मह्यं मतॊ नास्त्य अत्र संशयः ॥ 11 ॥

  12. सर्वस्य जगतश चैव गाङ्गेय न मृषा वदे कुरूणाम अहितॊ नित्यं न च राजावबुध्यते ॥ 12 ॥

  13. कॊ हि नाम समानेषु राजसूदात्त कर्मसु तेजॊवधम इमं कुर्याद विभेदयिषुर आहवे यथा तवं गुणनिर्देशाद अपराधं चिकीर्षसि ॥ 13 ॥

  14. न हायनैर न पलितैर न वित्तैर न च बन्धुभिः महारथत्वं संख्यातुं शक्यं कषत्रस्य कौरव ॥ 14 ॥

  15. बलज्येष्ठं समृतं कषत्रं मन्त्रज्येष्ठा दविजातयः धनज्येष्ठाः समृता वैश्याः शूद्रास तु वयसाधिकाः ॥ 15 ॥

  16. यथेच्छकं सवयं गराहाद रथान अतिरथांस तथा कामद्वेषसमायुक्तॊ मॊहात परकुरुते भवान ॥ 16 ॥

  17. दुर्यॊधन महाबाहॊ साधु सम्यग अवेक्ष्यताम तयज्यतां दुष्टभावॊ ऽयं भीष्मः किल्बिषकृत तव ॥ 17 ॥

  18. भिन्ना हि सेना नृपते दुःसंधेया भवत्य उत मैलापि पुरुषव्याघ्र किम उ नाना समुत्थिता ॥ 18 ॥

  19. एषां दवैधं समुत्पन्नं यॊधानां युधि भारत तेजॊवधॊ नः करियते परत्यक्षेण विशेषतः ॥ 19 ॥

  20. रथानां कव च विज्ञानं कव च भीष्मॊ ऽलपचेतनः अहम आवारयिष्यामि पाण्डवानाम अनीकिनीम ॥ 20 ॥

  21. आसाद्य माम अमॊघेषुं गमिष्यन्ति दिशॊ दश पाण्डवाः सह पञ्चालाः शार्दूलं वृषभा इव ॥ 21 ॥

  22. कव च युद्धविमर्दॊ वा मन्त्राः सुव्याहृतानि वा कव च भीष्मॊ गतवया मन्दात्मा कालमॊहितः ॥ 22 ॥

  23. सपर्धते हि सदा नित्यं सर्वेण जगता सह न चान्यं पुरुषं कं चिन मन्यते मॊघदर्शनः ॥ 23 ॥

  24. शरॊतव्यं खलु वृद्धानाम इति शास्त्रनिदर्शनम न तव एवाप्य अतिवृद्धानां पुनर बाला हि ते मताः ॥ 24 ॥

  25. अहम एकॊ हनिष्यामि पाण्डवान नात्र संशयः सुयुद्धे राजशार्दूल यशॊ भीष्मं गमिष्यति ॥ 25 ॥

  26. कृतः सेनापतिस तव एष तवया भीष्मॊ नराधिप सेनापतिं गुणॊ गन्ता न तु यॊधान कथं चन ॥ 26 ॥

  27. नाहं जीवति गाङ्गेये यॊत्स्ये राजन कथं चन हते तु भीष्मे यॊधास्मि सर्वैर एव महारथैः ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 166

Previous: अध्याय 164