धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 164

  1. [भीस्म] शकुनिर मातुलस ते ऽसौ रथ एकॊ नराधिप परसज्य पाण्डवैर वैरं यॊत्स्यते नात्र संशयः ॥ 1 ॥

  2. एतस्य सैन्या दुर्धर्षाः समरे ऽपरतियायिनः विकृतायुध भूयिष्ठा वायुवेगसमा जवे ॥ 2 ॥

  3. दरॊणपुत्रॊ महेष्वासः सर्वेषाम अति धन्विनाम समरे चित्रयॊधी च दृढास्त्रश च महारथः ॥ 3 ॥

  4. एतस्य हि महाराज यथा गाण्डीवधन्वनः शरासनाद विनिर्मुक्ताः संसक्ता यान्ति सायकाः ॥ 4 ॥

  5. नैष शक्यॊ मया वीरः संख्यातुं रथसत्तमः निर्दहेद अपि लॊकांस तरीन इच्छन्न एष महायशाः ॥ 5 ॥

  6. करॊधस तेजश च तपसा संभृतॊ ऽऽशरमवासिना दरॊणेनानुगृहीतश च दिव्यैर अस्त्रैर उदारधीः ॥ 6 ॥

  7. दॊषस तव अस्य महान एकॊ येनैष भरतर्षभ न मे रथॊ नातिरथॊ मतः पार्थिव सत्तम ॥ 7 ॥

  8. जीवितं परियम अत्यर्थम आयुष कामः सदा दविजः न हय अस्य सदृशः कश चिद उभयॊः सेनयॊर अपि ॥ 8 ॥

  9. हन्याद एकरथेनैव देवानाम अपि वाहिनीम वपुष्मांस तलघॊषेण सफॊटयेद अपि पर्वतान ॥ 9 ॥

  10. असंख्येयगुणॊ वीरः परहर्ता दारुणद्युतिः दण्डपाणिर इवासह्यः कालवत परचरिष्यति ॥ 10 ॥

  11. युगान्ताग्निसमः करॊधे सिंहग्रीवॊ महामतिः एष भारत युद्धस्य पृष्ठं संशमयिष्यति ॥ 11 ॥

  12. पिता तव अस्य महातेजा वृद्धॊ ऽपि युवभिर वरः रणे कर्म महत कर्ता तत्र मे नास्ति संशयः ॥ 12 ॥

  13. अस्त्रवेगानिलॊद्धूतः सेना कष्णेन्धनॊत्थितः पाण्डुपुत्रस्य सैन्यानि परधक्ष्यति जये धृतः ॥ 13 ॥

  14. रथयूथप यूथानां यूथपः स नरर्षभः भारद्वाजात्मजः कर्ता कर्म तीव्रं हिताय वः ॥ 14 ॥

  15. सर्वमूर्धाभिषिक्तानाम आचार्यः सथविरॊ गुरुः गच्छेद अन्तं सृञ्जयानां परियस तव अस्य धनंजयः ॥ 15 ॥

  16. नैष जातु महेष्वासः पार्थम अक्लिष्टकारिणम हन्याद आचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम ॥ 16 ॥

  17. शलाघत्य एष सदा वीरः पार्थस्य गुणविस्तरैः पुत्राद अभ्यधिकं चैव भारद्वाजॊ ऽनुपश्यति ॥ 17 ॥

  18. हन्याद एकरथेनैव देवगन्धर्वदानवान एकीभूतान अपि रणे दिव्यैर अस्त्रैः परतापवान ॥ 18 ॥

  19. पौरवॊ राजशार्दूलस तव राजन महारथः मतॊ मम रथॊ वीर परवीर रथारुजः ॥ 19 ॥

  20. सवेन सैन्येन सहितः परतपञ शत्रुवाहिनीम परधक्ष्यति सपाञ्चालान कक्षं कृष्ण गतिर यथा ॥ 20 ॥

  21. सत्यव्रतॊ रथवरॊ राजपुत्रॊ महारथः तव राजन रिपुबले कालवत परचरिष्यति ॥ 21 ॥

  22. एतस्य यॊधा राजेन्द्र विचित्रकवचायुधाः विचरिष्यन्ति संग्रामे निघ्नन्तः शात्रवांस तव ॥ 22 ॥

  23. वृषसेनॊ रथाग्र्यस ते कर्ण पुत्रॊ महारथः परधक्ष्यति रिपूणां ते बलानि बलिनां वरः ॥ 23 ॥

  24. जलसंधॊ महातेजा राजन रथवरस तव तयक्ष्यते समरे पराणान मागधः परवीरहा ॥ 24 ॥

  25. एष यॊत्स्यति संग्रामे गजस्कन्धविशारदः रथेन वा महाबाहुः कषपयञ शत्रुवाहिनीम ॥ 25 ॥

  26. रथ एष महाराज मतॊ मम नरर्षभः तवदर्थे तयक्ष्यति पराणान सह सैन्यॊ महारणे ॥ 26 ॥

  27. एष विक्रान्तयॊधी च चित्रयॊधी च संगरे वीतभीश चापि ते राजञ शात्रवैः सह यॊत्स्यते ॥ 27 ॥

  28. बाह्लीकॊ ऽतिरथश चैव समरे चानिवर्तिता मम राजन मतॊ युद्धे शूरॊ वैवस्वतॊपमः ॥ 28 ॥

  29. न हय एष समरं पराप्य निवर्तेत कथं चन यथा सततगॊ राजन नाभिहत्य परान रणे ॥ 29 ॥

  30. सेनापतिर महाराज सत्यवांस ते महारथः रणेष्व अद्भुतकर्मा च रथः पररथारुजः ॥ 30 ॥

  31. एतस्य समरं दृष्ट्वा न वयथास्ति कथं चन उत्स्मयन्न अभ्युपैत्य एष परान रथपथे सथितान ॥ 31 ॥

  32. एष चारिषु विक्रान्तः कर्म सत्पुरुषॊचितम कर्ता विमर्दे सुमहत तवदर्थे पुरुषॊत्तमः ॥ 32 ॥

  33. अलायुधॊ राक्षसेन्द्रः करूरकर्मा महाबलः हनिष्यति परान राजन पूर्ववैरम अनुस्मरन ॥ 33 ॥

  34. एष राक्षससैन्यानां सर्वेषां रथसत्तमः मायावी दृढवैरश च समरे विचरिष्यति ॥ 34 ॥

  35. पराग्ज्यॊतिषाधिपॊ वीरॊ भगदत्तः परतापवान गजाङ्कुश धरश्रेष्ठॊ रथे चैव विशारदः ॥ 35 ॥

  36. एतेन युद्धम अभवत पुरा गाण्डीवधन्वनः दिवसान सुबहून राजन्न उभयॊर जय गृद्धिनॊः ॥ 36 ॥

  37. ततः सखायं गान्धारे मानयन पाकशासनम अकरॊत संविदं तेन पाण्डवेन महात्मना ॥ 37 ॥

  38. एष यॊत्स्यति संग्रामे गजस्कन्धविशारदः ऐरावत गतॊ राजा देवानाम इव वासवः ॥ 38 ॥

Reach this point to mark the section finished.

Continue to अध्याय 165

Previous: अध्याय 163