[भीस्म] सुदक्षिणस तु काम्बॊजॊ रथ एकगुणॊ मतः तवार्थ सिद्धिम आकाङ्क्षन यॊत्स्यते समरे परैः ॥ 1 ॥
एतस्य रथसिंहस्य तवार्थे राजसत्तम पराक्रमं यथेन्द्रस्य दरक्ष्यन्ति कुरवॊ युधि ॥ 2 ॥
एतस्य रथवंशॊ हि तिग्मवेगप्रहारिणाम काम्बॊजानां महाराज शलभानाम इवायतिः ॥ 3 ॥
नीलॊ माहिष्मती वासी नीलवर्म धरस तव रथवंशेन शत्रूणां कदनं वै करिष्यति ॥ 4 ॥
कृतवैरः पुरा चैव सहदेवेन पार्थिवः यॊत्स्यते सततं राजंस तवार्थे कुरुसत्तम ॥ 5 ॥
विन्दानुविन्दाव आवन्त्यौ समेतौ रथसत्तमौ कृतिनौ समरे तात दृढवीर्यपराक्रमौ ॥ 6 ॥
एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं परधक्ष्यतः गदा परासासिनाराचैस तॊमरैश च भुजच्युतैः ॥ 7 ॥
युद्धाभिकामौ समरे करीडन्ताव इव यूथपौ यूथमध्ये महाराज विचरन्तौ कृतान्तवत ॥ 8 ॥
तरिगर्ता भरातरः पञ्च रथॊदारा मता मम कृतवैराश च पार्थेन विराटनगरे तदा ॥ 9 ॥
मकरा इव राजेन्द्र समुद्धत तरङ्गिणीम गङ्गां विक्षॊभयिष्यन्ति पार्थानां युधि वाहिनीम ॥ 10 ॥
ते रथाः पञ्च राजेन्द्र येषां सत्यरथॊ मुखम एते यॊत्स्यन्ति समरे संस्मरन्तः पुरा कृतम ॥ 11 ॥
वयलीकं पाण्डवेयेन भीमसेनानुजेन ह दिशॊ विजयता राजञ शवेतवाहेन भारत ॥ 12 ॥
ते हनिष्यन्ति पार्थानां समासद्य महारथान वरान वरान महेष्वासान कषत्रियाणां धुरंधराः ॥ 13 ॥
लक्ष्मणस तव पुत्रस तु तथा दुःशासनस्य च उभौ तौ पुरुषव्याघ्रौ संग्रामेष्व अनिवर्तिनौ ॥ 14 ॥
तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ युद्धानां च विशेषज्ञौ परणेतारौ च सर्वशः ॥ 15 ॥
रथौ तौ रथशार्दूल मतौ मे रथसत्तमौ कषत्रधर्मरतौ वीरौ महत कर्म करिष्यतः ॥ 16 ॥
दण्डधारॊ महाराज रथ एकॊ नरर्षभः यॊत्स्यते समरं पराप्य सवेन सैन्येन पालितः ॥ 17 ॥
बृहद्बलस तथा राजा कौसल्यॊ रथसत्तमः रथॊ मम मतस तात दृढवेगपराक्रमः ॥ 18 ॥
एष यॊत्स्यति संग्रामे सवां चमूं संप्रहर्षयन उग्रायुधॊ महेष्वासॊ धार्तराष्ट्र हिते रतः ॥ 19 ॥
कृपः शारद्वतॊ राजन रथयूथप यूथपः परियान पराणान परित्यज्य परधक्ष्यति रिपूंस तव ॥ 20 ॥
गौतमस्य महर्षेर य आचार्यस्य शरद्वतः कार्तिकेय इवाजेयः शरस्तम्बात सुतॊ ऽभवत ॥ 21 ॥
एष सेनां बहुविधां विविधायुधकार्मुकाम अग्निवत समरे तात चरिष्यति विमर्दयन ॥ 22 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 163
Reach this point to mark the section finished.
Continue to अध्याय 164