धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 162

  1. [धृ] परतिज्ञाते फल्गुनेन वधे भीष्मस्य संजय किम अकुर्वन्त मे मन्दाः पुत्रा दुर्यॊधनादयः ॥ 1 ॥

  2. हतम एव हि पश्यामि गाङ्गेयं पितरं रणे वासुदेवसहायेन पार्थेन दृढधन्वना ॥ 2 ॥

  3. स चापरिमित परज्ञस तच छरुत्वा पार्थ भाषितम किम उक्तवान महेष्वासॊ भीष्मः परहरतां वरः ॥ 3 ॥

  4. सेनापत्यं च संप्राप्य कौरवाणां धुरंधरः किम अचेष्टत गाङ्गेयॊ महाबुद्धिपराक्रमः ॥ 4 ॥

  5. ततस तत संजयस तस्मै सर्वम एव नयवेदयत यथॊक्तं कुरुवृद्धेन भीष्मेणामित तेजसा ॥ 5 ॥

  6. सेनापत्यम अनुप्राप्य भीष्मः शांतनवॊ नृप दुर्यॊधनम उवाचेदं वचनं हर्षयन्न इव ॥ 6 ॥

  7. नमस्कृत्वा कुमाराय सेनान्ये शक्तिपाणये अहं सेनापतिस ते ऽदय भविष्यामि न संशयः ॥ 7 ॥

  8. सेना कर्मण्य अभिज्ञॊ ऽसमि वयूहेषु विविधेषु च कर्म कारयितुं चैव भृतान अप्य अभृतांस तथा ॥ 8 ॥

  9. यात्रा यानेषु युद्धेषु लब्धप्रशमनेषु च भृशं वेद महाराज यथा वेद बृहस्पतिः ॥ 9 ॥

  10. वयूहान अपि महारम्भान दैवगान्धर्व मानुषान तैर अहं मॊहयिष्यामि पाण्डवान वयेतु ते जवरः ॥ 10 ॥

  11. सॊ ऽहं यॊत्स्यामि तत्त्वेन पालयंस तव वाहिनीम यथावच छास्त्रतॊ राजन वयेतु ते मानसॊ जवरः ॥ 11 ॥

  12. न विद्यते मे गाङ्गेय भयं देवासुरेष्व अपि समस्तेषु महाबाहॊ सत्यम एतद बरवीमि ते ॥ 12 ॥

  13. किं पुनस तवयि दुर्धर्षे सेनापत्ये वयवस्थिते दरॊणे च पुरुषव्याघ्रे सथिते युद्धाभिनन्दिनि ॥ 13 ॥

  14. भवद्ब्यां पुरुषाग्र्याभ्यां सथिताभ्यां विजयॊ मम न दुर्लभं कुरुश्रेष्ठ देवराज्यम अपि धरुवम ॥ 14 ॥

  15. रथसंख्यां तु कार्त्स्न्येन परेषाम आत्मनस तथा तथैवातिरथानां च वेत्तुम इच्छामि कौरव ॥ 15 ॥

  16. पितामहॊ हि कुशलः परेषाम आत्मनस तथा शरॊतुम इच्छाम्य अहं सर्वैः सहैभिर वसुधाधिपैः ॥ 16 ॥

  17. गान्धारे शृणु राजेन्द्र रथसंख्यां सवके बले ये रथाः पृथिवीपाल तथैवातिरथाश च ये ॥ 17 ॥

  18. बहूनीह सहस्राणि परयुतान्य अर्बुदानि च रथानां तव सेनायां यथामुख्यं तु मे शृणु ॥ 18 ॥

  19. भवान अग्रे रथॊदारः सह सर्वैः सहॊदरैः दुःशासनप्रभृतिभिर भरातृभिः शतसंमितैः ॥ 19 ॥

  20. सर्वे कृतप्रहरणाश छेद्य भेद्य विशारदाः रथॊपस्थे गजस्कन्धे गदायुद्धे ऽसि चर्मणि ॥ 20 ॥

  21. संयन्तारः परहर्तारः कृतास्त्रा भारसाधनाः इष्वस्त्रे दरॊणशिष्याश च कृपस्य च शरद्वतः ॥ 21 ॥

  22. एते हनिष्यन्ति रणे पाञ्चालान युद्धदुर्मदान कृतकिल्बिषाः पाण्डवेयैर धार्तराष्ट्रा मनस्विनः ॥ 22 ॥

  23. ततॊ ऽहं भरतश्रेष्ठ सर्वसेनापतिस तव शत्रून विध्वंसयिष्यामि कदर्थी कृत्यपाण्डवान न तव आत्मनॊ गुणान वक्तुम अर्हामि विदितॊ ऽसमि ते ॥ 23 ॥

  24. कृतवर्मा तव अतिरथॊ भॊजः परहरतां वरः अर्थसिद्धिं तव रणे करिष्यति न संशयः ॥ 24 ॥

  25. अस्त्रविद्भिर अनाधृष्यॊ दूरपाती दृढायुधः हनिष्यति रुपूंस तुभ्यं महेन्द्रॊ दानवान इव ॥ 25 ॥

  26. मद्रराजॊ महेष्वासः शल्यॊ मे ऽतिरथॊ मतः सपर्धते वासुदेवेन यॊ वै नित्यं रणे रणे ॥ 26 ॥

  27. भागिनेयान निजांस तयक्त्वा शल्यस ते रथसत्तमः एष यॊत्स्यति संग्रामे कृष्णं चक्रगदाधरम ॥ 27 ॥

  28. सागरॊर्मि समैर वेगैः पलावयन्न इव शात्रवान भूरिश्रवाः कृतास्त्रश च तव चापि हितः सुहृत ॥ 28 ॥

  29. सौमदत्तिर महेष्वासॊ रथयूथप यूथपः बलक्षयम अमित्राणां सुमहान्तं करिष्यति ॥ 29 ॥

  30. सिन्धुराजॊ महाराज मतॊ मे दविगुणॊ रथः यॊत्स्यते समरे राजन विक्रान्तॊ रथसत्तमः ॥ 30 ॥

  31. दरौपदी हरणे पूर्वं परिक्लिष्टः स पाण्डवैः संस्मरंस तं परिक्लेशं यॊत्स्यते परवीहरा ॥ 31 ॥

  32. एतेन हि तदा राजंस तप आस्थाय दारुणम सुदुर्लभॊ वरॊ लब्धः पाण्डवान यॊद्धुम आहवे ॥ 32 ॥

  33. स एष रथशार्दूलस तद वैरं संस्मरन रणे यॊत्स्यते पाण्डवां सतात पराणांस तयक्त्वा सुदुस्त्यजान ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 163

Previous: अध्याय 161