[स] उलूकस्य वचः शरुत्वा कुन्तीपुत्रॊ युधिष्ठिरः सेनां निर्यापयाम आस धृष्टद्युम्नपुरॊगमाम ॥ 1 ॥
पदातिनीं नागवतीं रथिनीम अश्ववृन्दिनीम चतुर्विध बलां भीमाम अकम्प्यां पृथिवीम इव ॥ 2 ॥
भीमसेनादिभिर गुप्तां सार्जुनैश च महारथैः धृष्टद्युम्न वशां दुर्गां सागरस्तिमितॊपमाम ॥ 3 ॥
तस्यास तव अग्रे महेष्वासः पाञ्चाल्यॊ युद्धदुर्मदः दरॊण परेप्सुर अनीकानि धृष्टद्युम्नः परकर्षति ॥ 4 ॥
यथाबलं यथॊत्साहं रथिनः समुपादिशत अर्जुनं सूतपुत्राय भीमं दुर्यॊधनाय च ॥ 5 ॥
अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे सैन्धवाय च वार्ष्णेयं युयुधानम उपादिशत ॥ 6 ॥
शिखण्डिनं च भीष्माय परमुखे समकल्पयत सहदेवं शकुनये चेकितानं शलाय च ॥ 7 ॥
धृष्टकेतुं च शल्याय गौतमायॊत्तमौजसम दरौपदेयांश च पञ्चभ्यस तरिगर्तेभ्यः समादिशत ॥ 8 ॥
वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम समर्थं तं हि मेने वै पार्थाद अभ्यधिकं रणे ॥ 9 ॥
एवं विभज्य यॊधांस तान पृथक च सह चैव ह जवाला वर्णॊ महेष्वासॊ दरॊणम अंशम अकल्पयत ॥ 10 ॥
धृष्टद्युम्नॊ महेष्वासः सेनापतिपतिस ततः विधिवद वयूढ्य मेधावी युद्धाय धृतमानसः ॥ 11 ॥
यथादिष्टान्य अनीकानि पाण्डवानाम अयॊजयत जयाय पाण्डुपुत्राणां यत्तस तस्थौ रणाजिरे ॥ 12 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 161
Reach this point to mark the section finished.
Continue to अध्याय 162