[स] दुर्यॊधनस्य तद वाक्यं निशम्य भरतर्षभः नेत्राभ्याम अतिताम्राभ्यां कैतव्यं समुदैक्षत ॥ 1 ॥
स केशवम अभिप्रेक्ष्य गुडाकेशॊ महायशाः अभ्यभाषत कैतव्यं परगृह्य विपुलं भुजम ॥ 2 ॥
सववीर्यं यः समाश्रित्य समाह्वयति वै परान अभीतः पूरयञ शक्तिं स वै पुरुष उच्यते ॥ 3 ॥
परवीर्यं समाश्रित्य यः समाह्वयते परान कषत्रबन्धुर अशक्तत्वाल लॊके स पुरुषाधमः ॥ 4 ॥
स तवं परेषां वीर्येण मन्यसे वीर्यम आत्मनः सवयं कापुरुषॊ मूढः परांश चक्षेप्तुम इच्छसि ॥ 5 ॥
यस तवं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम मरणाय महाबुद्धिं दीक्षयित्वा विकत्थसे ॥ 6 ॥
भावस ते विदितॊ ऽसमाभिर दुर्बुद्धे कुलपांसन न हनिष्यन्ति गङ्गेयं पाण्डवाघृणयेति च ॥ 7 ॥
यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे हन्तास्मि परथमं भीष्मं मिषतां सर्वधन्विनाम ॥ 8 ॥
कैतव्य गत्वा भरतान समेत्य; सुयॊधनं धार्तराष्ट्रं बरवीहि तथेत्य आह अर्जुनः सव्यसाची; निशा वयपाये भविता विमर्दः ॥ 9 ॥
यद वॊ ऽबरवीद वाक्यम अदीनसत्त्वॊ; मध्ये कुरूणां हर्षयन सत्यसंधः अहं हन्ता पाण्डवानाम अनीकं; शाल्वेयकांश चेति ममैष भारः ॥ 10 ॥
हन्याम अहं दरॊणम ऋते हि लॊकं; न ते भयं विद्यते पाण्डवेभ्यः ततॊ हि ते लब्धतमं च राज्यं; कषयं गताः पाण्डवाश चेति भावः ॥ 11 ॥
स दर्पपूर्णॊ न समीक्षसे तवम; अनर्थम आत्मन्य अपि वर्तमानम तस्माद अहं ते परथमं समूहे; हन्ता समक्षं कुरुवृद्धम एव ॥ 12 ॥
सूर्यॊदये युक्तसेनः पतीक्ष्य; धवजी रथी रक्ष च सत्यसंधम अहं हि वः पश्यतां दवीपम एनं; रथाद भीष्मं पातयितास्मि बाणैः ॥ 13 ॥
शवॊभूते कत्थना वाक्यं विज्ञास्यति सुयॊधनः अर्दितं शरजालेन मया दृष्ट्वा पितामहम ॥ 14 ॥
यद उक्तश च सभामध्ये पुरुषॊ हरस्वदर्शनः करुद्धेन भीमसेनेन भराता दुःशासनस तव ॥ 15 ॥
अधर्मज्ञॊ नित्यवैरी पापबुद्धिर नृशंसकृत सत्यां परतिज्ञां नचिराद रक्ष्यसे तां सुयॊधन ॥ 16 ॥
अभिमानस्य दर्पस्य करॊधपारुष्ययॊस तथा नैष्ठुर्यस्यावलेपस्य आत्मसंभावनस्य च ॥ 17 ॥
नृशंसतायास तैक्ष्ण्यस्य धर्मविद्वेषणस्य च अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च ॥ 18 ॥
दर्शनस्य च वक्रस्य कृत्स्नस्यापनयस्य च दरक्ष्यसि तवं फलं तीव्रम अचिरेण सुयॊधन ॥ 19 ॥
वासुदेव दवितीये हि मयि करुद्धे नराधिप आशा ते जीविते मूढ राज्ये वा केन हेतुना ॥ 20 ॥
शान्ते भीष्मे तथा दरॊणे सूतपुत्रे च पातिते निराशॊ जीविते राज्ये पुत्रेषु च भविष्यसि ॥ 21 ॥
भरातॄणां निधनं दृष्ट्वा पुत्राणां च सुयॊधन भीमसेनेन निहतॊ दुष्कृतानि समरिष्यसि ॥ 22 ॥
न दवितीयां परतिज्ञां हि परतिज्ञास्यति केशवः सत्यं बरवीम्य अहं हय एतत सर्वं सत्यं भविष्यति ॥ 23 ॥
इत्य उक्तः कैतवॊ राजंस तद वाक्यम उपधार्य च अनुज्ञातॊ निववृते पुनर एव यथागतम ॥ 24 ॥
उपावृत्य तु पाण्डुभ्यः कैतव्यॊ धृतराष्ट्रजम गत्वा यथॊक्तं तत सर्वम उवाच कुरुसंसदि ॥ 25 ॥
केशवार्जुनयॊर वाक्यं निशम्य भरतर्षभः दुःशासनं च कर्णं च शकुनिं चाभ्यभाषत ॥ 26 ॥
आज्ञापयत राज्ञश च बलं मित्रबलं तथा यथा परागु दयात सर्वा युक्ता तिष्ठत्य अनीकिनी ॥ 27 ॥
ततः कर्ण समादिष्टा दूताः परत्वरिता रथैः उष्ट्रवामीभिर अप्य अन्ये सदश्वैर्श च महाजवैः ॥ 28 ॥
तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात आज्ञापयन्तॊ राज्ञस तान यॊगः पराग उदयाद इति ॥ 29 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 160
Reach this point to mark the section finished.
Continue to अध्याय 161