[स] उलूकस तव अर्जुनं भूयॊ यथॊक्तं वाक्यम अब्रवीत आशीविषम इव करुद्धं तुदन वाक्यशलाकया ॥ 1 ॥
तस्य तद वचनं शरुत्वा रुषिताः पाण्डवा भृशम पराग एव भृशसंक्रुद्धाः कैतव्येन परधर्षिताः ॥ 2 ॥
नासनेष्व अवतिष्ठन्त बहूंश चैव विचिक्षिपुः आशीविषा इव करुद्धा वीक्षां चक्रुः परस्परम ॥ 3 ॥
अवाक्शिरा भीमसेनः समुदैक्षत केशवम नेत्राभ्यां लॊहितान्ताभ्याम आशीविष इव शवसन ॥ 4 ॥
आर्तं वातात्मजं दृष्ट्वा करॊधेनाभिहतं भृशम उत्स्मयन्न इव दाशार्हः कैतव्यं परत्यभाषत ॥ 5 ॥
परयाहि शीघ्रं कैतव्य बरूयाश चैव सुयॊधनम शरुतं वाक्यं गृहीतॊ ऽरथॊ मतं यत ते तथास्तु तत ॥ 6 ॥
मद्वचश चापि भूयस ते वक्तव्यः स सुयॊधनः शव इदानीं परदृश्येथाः पुरुषॊ भव दुर्मते ॥ 7 ॥
मन्यसे यच च मूढ तवं न यॊत्स्यति जनार्दनः सारथ्येन वृतः पार्थैर इति तवं न बिभेषि च ॥ 8 ॥
जघन्यकालम अप्य एतद भवेद यत सर्वपार्थिवान निर्दहेयम अहं करॊधात कृणानीव हुताशनः ॥ 9 ॥
युधिष्ठिर नियॊगात तु फल्गुनस्य महात्मनः करिष्ये युध्यमानस्य सारथ्यं विदितात्मनः ॥ 10 ॥
यद्य उत्पतसि लॊकांस तरीन यद्य आविशसि भूतलम तत्र तत्रार्जुन रथं परभाते दरक्ष्यसे ऽगरतः ॥ 11 ॥
यच चापि भीमसेनस्य मन्यसे मॊघगर्जितम दुःशासनस्य रुधिरं पीतम इत्य अवधार्यताम ॥ 12 ॥
न तवां समीक्षते पार्थॊ नापि राजा युधिष्ठिरः न भीमसेनॊ न यमौ परतिकूलप्रभाषिणम ॥ 13 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 159
Reach this point to mark the section finished.
Continue to अध्याय 160