धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 15

  1. [ष] एवम उक्तः स भगवाञ शच्या पुनर अथाब्रवीत विक्रमस्य न कालॊ ऽयं नहुषॊ बलवत्तरः ॥ 1 ॥

  2. विवर्धितश च ऋषिभिर हव्यैः कव्यैश च भामिनि नीतिम अत्र विधास्यामि देवि तां कर्तुम अर्हसि ॥ 2 ॥

  3. गुह्यं चैतत तवया कार्यं नाख्यातव्यं शुभे कव चित गत्वा नहुषम एकान्ते बरवीहि तनुमध्यमे ॥ 3 ॥

  4. ऋषियानेन दिव्येन माम उपैहि जगत्पते एवं तव वशे परीता भविष्यामीति तं वद ॥ 4 ॥

  5. इत्य उक्ता देवराजेन पत्नी सा कमलेक्षणा एवम अस्त्व इत्य अथॊक्त्वा तु जगाम नहुषं परति ॥ 5 ॥

  6. नहुषस तां ततॊ दृष्ट्वा विस्मितॊ वाक्यम अब्रवीत सवागतं ते वरारॊहे किं करॊमि शुचिस्मिते ॥ 6 ॥

  7. भक्तं मां भज कल्याणि किम इच्छसि मनस्विनि तव कल्याणि यत कार्यं तत करिष्ये सुमध्यमे ॥ 7 ॥

  8. न च वरीडा तवया कार्या सुश्रॊणि मयि विश्वस सत्येन वै शपे देवि कर्तास्मि वचनं तव ॥ 8 ॥

  9. यॊ मे तवया कृतः कालस तम आकाङ्क्षे जगत्पते ततस तवम एव भर्ता मे भविष्यसि सुराधिप ॥ 9 ॥

  10. कार्यं च हृदि मे यत तद देवराजावधारय वक्ष्यामि यदि मे राजन परियम एतत करिष्यसि वाक्यं परणयसंयुक्तं ततः सयां वशगा तव ॥ 10 ॥

  11. इन्द्रस्य वाजिनॊ वाहा हस्तिनॊ ऽथ रथास तथा इच्छाम्य अहम इहापूर्वं वाहनं ते सुराधिप यन न विष्णॊर न रुद्रस्य नासुराणां न रक्षसाम ॥ 11 ॥

  12. वहन्तु तवां महाराज ऋषयः संगता विभॊ सर्वे शिबिकया राजन्न एतद धि मम रॊचते ॥ 12 ॥

  13. नासुरेषु न देवेषु तुल्यॊ भवितुम अर्हसि सर्वेषां तेज आदत्स्व सवेन वीर्येण दर्शनात न ते परमुखतः सथातुं कश चिद इच्छति वीर्यवान ॥ 13 ॥

  14. एवम उक्तस तु नहुषः पराहृष्यत तदा किल उवाच वचनं चापि सुरेन्द्रस ताम अनिन्दिताम ॥ 14 ॥

  15. अपूर्वं वाहनम इदं तवयॊक्तं वरवर्णिनि दृढं मे रुचितं देवि तवद्वशॊ ऽसमि वरानने ॥ 15 ॥

  16. न हय अल्पवीर्यॊ भवति यॊ वाहान कुरुते मुनीन अहं तपस्वी बलवान भूतभव्य भवत परभुः ॥ 16 ॥

  17. मयि करुद्धे जगन न सयान मयि सर्वं परतिष्ठितम देवदानवगन्धर्वाः किंनरॊरगराक्षसाः ॥ 17 ॥

  18. न मे करुद्धस्य पर्याप्ताः सर्वे लॊकाः शुचिस्मिते चक्षुषा यं परपश्यामि तस्य तेजॊ हराम्य अहम ॥ 18 ॥

  19. तस्मात ते वचनं देवि करिष्यामि न संशयः सप्तर्षयॊ मां वक्ष्यन्ति सर्वे बरह्मर्षयस तथा पश्य माहात्म्यम अस्माकम ऋद्धिं च वरवर्णिनि ॥ 19 ॥

  20. एवम उक्त्वा तु तां देवीं विसृज्य च वराननाम विमाने यॊजयित्वा स ऋषीन नियमम आस्थितान ॥ 20 ॥

  21. अब्रह्मण्यॊ बलॊपेतॊ मत्तॊ वरमदेन च कामवृत्तः स दुष्टात्मा वाहयाम आस तान ऋषीन ॥ 21 ॥

  22. नहुषेण विसृष्टा च बृहस्पतिम उवाच सा समयॊ ऽलपावशेषॊ मे नहुषेणेह यः कृतः शक्रं मृगय शीघ्रं तवं भक्तायाः कुरु मे दयाम ॥ 22 ॥

  23. बाढम इत्य एव भगवान बृहस्पतिर उवाच ताम न भेतव्यं तवया देवि नहुषाद दुष्टचेतसः ॥ 23 ॥

  24. न हय एष सथास्यति चिरं गत एष नराधमः अधर्मज्ञॊ महर्षीणां वाहनाच च हतः शुभे ॥ 24 ॥

  25. इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः शक्रं चाधिगमिष्यामि मा भैस तवं भद्रम अस्तु ते ॥ 25 ॥

  26. ततः परज्वाल्य विधिवज जुहाव परमं हविः बृहस्पतिर महातेजा देवराजॊपलब्धये ॥ 26 ॥

  27. तस्माच च भगवान देवः सवयम एव हुताशनः सत्री वेषम अद्भुतं कृत्वा सहसान्तर अधीयत ॥ 27 ॥

  28. स दिशः परदिशश चैव पर्वतांश च वनानि च पृथिवीं चान्तरिक्षं च विचीयातिमनॊ गतिः निमेषान्तरमात्रेण बृहस्पतिम उपागमत ॥ 28 ॥

  29. बृहस्पते न पश्यामि देवराजम अहं कव चित आपः शेषाः सदा चापः परवेष्टुं नॊत्सहाम्य अहम न मे तत्र गतिर बरह्मन किम अन्यत करवाणि ते ॥ 29 ॥

  30. तम अब्रवीद देव गुरुर अपॊ विश महाद्युते ॥ 30 ॥

  31. नापः परवेष्टुं शक्ष्यामि कषयॊ मे ऽतर भविष्यति शरणं तवां परपन्नॊ ऽसमि सवस्ति ते ऽसतु महाद्युते ॥ 31 ॥

  32. अद्भ्यॊ ऽगनिर बरह्मतः कषत्रम अश्मनॊ लॊहम उत्थितम तेषां सर्वत्रगं तेजः सवासु यॊनिषु शाम्यति ॥ 32 ॥

Reach this point to mark the section finished.

Continue to अध्याय 16

Previous: अध्याय 14