धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 158

  1. [स] सेनानिवेशं संप्राप्य कैतव्यः पाण्डवस्य ह समागतः पाण्डवेयैर युधिष्ठिरम अभाषत ॥ 1 ॥

  2. अभिज्ञॊ दूतवाक्यानां यथॊक्तं बरुवतॊ मम दुर्यॊधन समादेशं शरुत्वा न करॊद्धुम अर्हसि ॥ 2 ॥

  3. उलूक न भयं ते ऽसति बरूहि तवं विगतज्वरः यन मतं धार्तराष्ट्रस्य लुब्धस्यादीर्घ दर्शिनः ॥ 3 ॥

  4. ततॊ दयुतिमतां मध्ये पाण्डवानां महात्मनाम सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः ॥ 4 ॥

  5. दरुपदस्य सपुत्रस्य विराटस्य च संनिधौ भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह ॥ 5 ॥

  6. इदं तवाम अब्रवीद राजा धार्तराष्ट्रॊ महामनाः शृण्वतां कुरुवीराणां तन निबॊध नराधिप ॥ 6 ॥

  7. पराजितॊ ऽसि दयूतेन कृष्णा चानायिता सभाम शक्यॊ ऽमर्षॊ मनुष्येण कर्तुं पुरुषमानिना ॥ 7 ॥

  8. दवादशैव तु वर्षाणि वने धिष्ण्याद विवासिताः संवत्सरं विराटस्य दास्यम आस्थाय चॊषिताः ॥ 8 ॥

  9. अमर्षं राज्यहरणं वनवासं च पाण्डव दरौपद्याश च परिक्लेशं संस्मरन पुरुषॊ भव ॥ 9 ॥

  10. अशक्तेन च यच छप्तं भीमसेनेन पाण्डव दुःशासनस्य रुधिरं पीयतां यदि शक्यते ॥ 10 ॥

  11. लॊहाभिहारॊ निर्वृत्तः कुरुक्षेत्रम अकर्दमम समः पन्था भृता यॊधाः शवॊ युध्यस्व सकेशवः ॥ 11 ॥

  12. असमागम्य भीष्मेण संयुगे किं विकत्थसे आरुरुक्षुर यथा मन्दः पर्वतं गन्धमादनम ॥ 12 ॥

  13. दरॊणं च युध्यतां शरेष्ठं शचीपतिसमं युधि अजित्वा संयुगे पार्थ राज्यं कथम इहेच्छसि ॥ 13 ॥

  14. बराह्मे धनुषि चाचार्यं वेदयॊर अन्तरं दवयॊः युधि धुर्यम अविक्षॊभ्यम अनीक धरम अच्युतम ॥ 14 ॥

  15. दरॊणं मॊहाद युधा पार्थ यज जिगीषसि तन मृषा न हि शुश्रुम वातेन मेरुम उन्मथितं गिरिम ॥ 15 ॥

  16. अनिलॊ वा वहेन मेरुं दयौर वापि निपतेन महीम युगं वा परिवर्तेत यद्य एवं सयाद यथात्थ माम ॥ 16 ॥

  17. कॊ हय आभ्यां जीविताकाङ्क्षी पराप्यास्त्रम अरिमर्दनम गजॊ वाजी नरॊ वापि पुनः सवस्ति गृहान वरजेत ॥ 17 ॥

  18. कथम आभ्याम अभिध्यातः संसृष्टॊ दारुणेन वा रणे जीवन मिमुच्येत पदा भूमिम उपस्पृशन ॥ 18 ॥

  19. किं दर्दुरः कूपशयॊ यथेमां; न बुध्यसे राजचमूं समेताम दुराधर्षां देव चमू परकाशां; गुप्तां नरेन्द्रैस तरिदशैर इव दयाम ॥ 19 ॥

  20. पराच्यैः परतीच्यैर अथ दाक्षिणात्यैर; उदीच्यकाम्बॊजशकैः खशैश च शाल्वैः समत्स्यैः कुरुमध्यदेशैर; मलेच्छैः पुलिन्दैर दरविडान्ध्र काञ्च्यैः ॥ 20 ॥

  21. नानाजनौघं युधि संप्रवृद्धं; गाङ्गं यथा वेगम अवारणीयम मां च सथितं नागबलस्य मध्ये; युयुत्ससे मन्दकिम अल्पबुद्धे ॥ 21 ॥

  22. इत्य एवम उक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम अभ्यावृत्य पुनर जिष्णुम उलूकः परत्यभाषत ॥ 22 ॥

  23. अकत्थमानॊ युध्यस्व कत्थसे ऽरजुन किं बहु पर्यायात सिद्धिर एतस्य नैतत सिध्यति कत्थनात ॥ 23 ॥

  24. यदीदं कत्थनात सिध्येत कर्म लॊके धनंजय सर्वे भवेयुः सिद्धार्था बहु कत्थेत दुर्गतः ॥ 24 ॥

  25. जानामि ते वासुदेवं सहायं; जानामि ते गाण्डिवं तालमात्रम जानाम्य एतत तवादृशॊ नास्ति; यॊधा राज्यं च ते जानमानॊ हरामि ॥ 25 ॥

  26. न तु पर्याय धर्मेण सिद्धिं पराप्नॊति भूयसीम मनसैव हि भूतानि धाता परकुरुते वशे ॥ 26 ॥

  27. तरयॊदश समा भुक्तं राज्यं विलपतस तव भूयश चैव परशासिष्ये निहत्य तवां सबान्धवम ॥ 27 ॥

  28. कव तदा गाण्डिवं ते ऽभूद यत तवं दासपणे जितः कव तदा भीमसेनस्य बलम आसीच च फल्गुन ॥ 28 ॥

  29. सगदाद भीमसेनाच च पार्थाच चैव सगाण्डिवात न वै मॊक्षस तदा वॊ ऽभूद विना कृष्णाम अनिन्दिताम ॥ 29 ॥

  30. सा वॊ दास्यं समापन्नान मॊक्षयाम आस भामिनी अमानुष्य समायुक्तान दास्य कर्मण्य अवस्थितान ॥ 30 ॥

  31. अवॊचं यत षण्ढतिलान अहं वस तथ्यम एव तत धृता हि वेणी पार्थेन विराटनगरे तदा ॥ 31 ॥

  32. सूदकर्मणि च शरान्तं विराटस्य महानसे भीमसेनेन कौन्तेय यच च तन मम पौरुषम ॥ 32 ॥

  33. एवम एव सदा दण्डं कषत्रियाः कषत्रिये दधुः शरेण्यां कक्ष्यां च वेण्यां च संयुगे यः पलायते ॥ 33 ॥

  34. न भयाद वासुदेवस्य न चापि तव फल्गुन राज्यं परतिप्रदास्यामि युध्यस्व सह केशवः ॥ 34 ॥

  35. न माया हीन्द्र जालं वा कुहका वा विभीषणी आत्तशस्त्रस्य मे युद्धे वहन्ति परतिगर्जनाः ॥ 35 ॥

  36. वासुदेव सहस्रं वा फल्गुनानां शतानि वा आसाद्य माम अमॊघेषुं दरविष्यन्ति दिशॊ दश ॥ 36 ॥

  37. संयुगं गच्छ भीष्मेण भिन्धि तवं शिरसा गिरिम परतरेमं महागाधं बाहुभ्यां पुरुषॊदधिम ॥ 37 ॥

  38. शारद्वत महीमानं विविंशति झषाकुलम बृहद्बलसमुच्चालं सौमदत्ति तिमिंगिलम ॥ 38 ॥

  39. दुःशासनौघं शल शल्य मत्स्यं; सुषेण चित्रायुधनागनक्रम जयद्रथाद्रिं पुरुमित्र गाधं; दुर्मर्षणॊदं शकुनिप्रपातम ॥ 39 ॥

  40. शस्त्रौघम अक्षय्यम अतिप्रवृद्धं; यदावगाह्य शरमनष्टचेताः भविष्यसि तवं हतसर्वबान्धवस; तदा मनस ते परितापम एष्यति ॥ 40 ॥

  41. तदा मनस ते तरिदिवाद इवाशुचेर; निवर्ततां पार्थ मही परशासनात राज्यं परशास्तुं हि सुदुर्लभं तवया; बुभूषता सवर्ग इवातपस्विना ॥ 41 ॥

Reach this point to mark the section finished.

Continue to अध्याय 159

Previous: अध्याय 157