[स] हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु दुर्यॊधनॊ महाराज कर्णेन सह भारत ॥ 1 ॥
सौबलेन च राजेन्द्र तथा दुःशासनेन च आहूयॊपह्वरे राजन्न उलूकम इदम अब्रवीत ॥ 2 ॥
उलूक गच्छ कैतव्य पाण्डवान सह सॊमकान गत्वा मम वचॊ बरूहि वासुदेवस्य शृण्वतः ॥ 3 ॥
इदं तत समनुप्राप्तं वर्षपूगाभिचिन्तितम पाण्डवानां कुरूणां च युद्धं लॊकभयंकरम ॥ 4 ॥
यद एतत कत्थना वाक्यं संजयॊ महद अब्रवीत मध्ये कुरूणां कौन्तेय तस्य कालॊ ऽयम आगतः यथा वः संप्रतिज्ञातं तत सर्वं करियताम इति ॥ 5 ॥
अमर्षं राज्यहरणं वनवासं च पाण्डव दरौपद्याश च परिक्लेशं संस्मरन पुरुषॊ भव ॥ 6 ॥
यदर्थं कषत्रिया सूते गर्भं तद इदम आगतम बलं वीर्यं च शौर्यं च परं चाप्य अस्त्रलाघवम पौरुषं दर्शयन युद्धे कॊपस्य कुरु निष्कृतिम ॥ 7 ॥
परिक्लिष्टस्य दीनस्य दीर्घकालॊषितस्य च न सफुटेद धृदयं कस्य ऐश्वर्याद भरंशितस्य च ॥ 8 ॥
कुले जातस्य शूरस्य परवित्तेषु गृध्यतः आच्छिन्नं राज्यम आक्रम्य कॊपं कस्य न दीपयेत ॥ 9 ॥
यत तद उक्तं महद वाक्यं कर्मणा तद विभाव्यताम अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः ॥ 10 ॥
अमित्राणां वशे सथानं राज्यस्य च पुनर भवः दवाव अर्थौ युध्यमानस्य तस्मात कुरुत पौरुषम ॥ 11 ॥
अस्मान वा तवं पराजित्य परशाधि पृथिवीम इमाम अथ वा निहतॊ ऽसमाभिर वीरलॊकं गमिष्यसि ॥ 12 ॥
राष्ट्रात परव्राजनं कलेशं वनवासं च पाण्डव कृष्णायाश च परिक्लेशं संस्मरन पुरुषॊ भव ॥ 13 ॥
अप्रियाणां च वचने परव्रजत्सु पुनः पुनः अमर्षं दर्शयाद्य तवम अमर्षॊ हय एव पौरुषम ॥ 14 ॥
करॊधॊ बलं तथा वीर्यं जञानयॊगॊ ऽसत्रलाघवम इह ते पार्थ दृश्यन्तां संग्रामे पुरुषॊ भव ॥ 15 ॥
तं च तूबरकम मूढं बह्व आशिनम अविद्यकम उलूक मद्वचॊ बरूया असकृद भीमसेनकम ॥ 16 ॥
अशक्तेनैव यच छप्तं सभामध्ये वृकॊदर दुःशासनस्य रुधिरं पीयतां यदि शक्यते ॥ 17 ॥
लॊहाभिहारॊ निर्वृत्तः कुरुक्षेत्रम अकर्दमम पुष्टास ते ऽशवा भृता यॊधाः शवॊ युध्यस्व सकेशवः ॥ 18 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 157
Reach this point to mark the section finished.
Continue to अध्याय 158