[ज] तथा वयूढेष्व अनीकेषु कुरुक्षेत्रे दविजर्षभ किम अकुर्वन्त कुरवः कालेनाभिप्रचॊदिताः ॥ 1 ॥
तथा वयूढेष्व अनीकेषु यत तेषु भरतर्षभ धृतराष्ट्रॊ महाराज संजयं वाक्यम अब्रवीत ॥ 2 ॥
एहि संजय मे सर्वम आचक्ष्वानवशेषतः सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयॊः ॥ 3 ॥
दिष्टम एव परं मन्ये पौरुषं चाप्य अनर्थकम यद अहं जानमानॊ ऽपि युद्धदॊषान कषयॊदयान ॥ 4 ॥
तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूत देविनम न शक्नॊमि नियन्तुं वा कर्तुं वा हितम आत्मनः ॥ 5 ॥
भवत्य एव हि मे सूत बुद्धिर दॊषानुदर्शिनी दुर्यॊधनं समासाद्य पुनः सा परिवर्तते ॥ 6 ॥
एवंगते वै यद भावि तद भविष्यति संजय कषत्रधर्मः किल रणे तनुत्यागॊ ऽभिपूजितः ॥ 7 ॥
तवद युक्तॊ ऽयम अनुप्रश्नॊ महाराज यथार्हसि न तु दुर्यॊधने दॊषम इमम आसक्तुम अर्हसि शृणुष्वानवशेषेण वदतॊ मम पार्थिव ॥ 8 ॥
य आत्मनॊ दुश्चरिताद अशुभं पराप्नुयान नरः एनसा न स दैवं वा कालं वा गन्तुम अर्हति ॥ 9 ॥
महाराज मनुष्येषु निन्द्यं यः सर्वम आचरेत स वध्यः सर्वलॊकस्य निन्दितानि समाचरन ॥ 10 ॥
निकारा मनुजश्रेष्ठ पाण्डवैस तवत्प्रतीक्षया अनुभूताः सहामात्यैर निकृतैर अधिदेवने ॥ 11 ॥
हयानां च गजानां च राज्ञां चामिततेजसाम वैशसं समरे वृत्तं यत तन मे शृणु सर्वशः ॥ 12 ॥
सथिरॊ भूत्वा महाराज सर्वलॊकक्षयॊदयम यथा भूतं महायुद्धे शरुत्वा मा विमना भव ॥ 13 ॥
न हय एव कर्ता पुरुषः कर्मणॊः शुभपापयॊः अस्वतन्त्रॊ हि पुरुषः कार्यते दारु यन्त्रवत ॥ 14 ॥
के चिद ईश्वर निर्दिष्टाः के चिद एव यदृच्छया पूर्वकर्मभिर अप्य अन्ये तरैधम एतद विकृष्यते ॥ 15 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 156
Reach this point to mark the section finished.
Continue to अध्याय 157