[व] एतस्मिन्न एव काले तु भीष्मकस्य महात्मनः हिरण्यलॊम्नॊ नृपतेः साक्षाद इन्द्र सखस्य वै ॥ 1 ॥
आहृतीनाम अधिपतेर भॊजस्यातियशस्विनः दाक्षिणात्य पतेः पुत्रॊ दिक्षु रुक्मीति विश्रुतः ॥ 2 ॥
यः किंपुरुष सिंहस्य गन्धमादनवासिनः शिष्यः कृत्स्नं धनुर्वेदं चतुष्पादम अवाप्तवान ॥ 3 ॥
यॊ माहेन्द्रं धनुर लेभे तुल्यं गाण्डीवतेजसा शार्ङ्गेण च महाबाहुः संमितं दिव्यम अक्षयम ॥ 4 ॥
तरीण्य एवैतानि दिव्यानि धनूंषि दिवि चारिणाम वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः ॥ 5 ॥
शार्ङ्गं तु वैष्णवं पराहुर दिव्यं तेजॊमयं धनुः धारयाम आस यत कृष्णः परसेना भयावहम ॥ 6 ॥
गाण्डीवं पावकाल लेभे खाण्डवे पाकशासनिः दरुमाद रुक्मी महातेजा विजयं परत्यपद्यत ॥ 7 ॥
संछिद्य मौरवान पाशान निहत्य मुरम ओजसा निर्जित्य नरकं भौमम आहृत्य पणि कुण्डले ॥ 8 ॥
षॊडश सत्रीसहस्राणि रत्नानि विविधानि च परतिपेदे हृषीकेशः शार्ङ्गं च धनुर उत्तमम ॥ 9 ॥
रुक्मी तु विजयं लब्ध्वा धनुर मेघसमस्वनम विभीषयन्न इव जगत पाण्डवान अभ्यवर्तत ॥ 10 ॥
नामृष्यत पुरा यॊ ऽसौ सवबाहुबलदर्पितः रुक्मिण्या हरणं वीरॊ वासुदेवेन धीमता ॥ 11 ॥
कृत्वा परतिज्ञां नाहत्वा निवर्तिष्यामि केशवम ततॊ ऽनवधावद वार्ष्णेयं सर्वशस्त्रभृतां वरम ॥ 12 ॥
सेनया चतुरङ्गिण्या महत्या दूरपातया विचित्रायुध वर्मिण्या गङ्गयेव परवृद्धया ॥ 13 ॥
स समासाद्य वार्ष्णेयं गॊनानाम ईश्वरं परभुम वयंसितॊ वरीडितॊ राजन्न आजगाम स कुण्डिनम ॥ 14 ॥
यत्रैव कृष्णेन रणे निर्जितः परवीरहा तत्र भॊजकटं नाम चक्रे नगरम उत्तमम ॥ 15 ॥
सैन्येन महता तेन परभूतगजवाजिना पुरं तद भुवि विख्यात्म नाम्न भॊजकटं नृप ॥ 16 ॥
स भॊजराजः सैन्येन महता परिवारितः अक्षौहिण्या महावीर्यः पाण्डवान समुपागमत ॥ 17 ॥
ततः स कवची खड्गी शरी धन्वी तली रथी धवजेनादित्य वर्णेन परविवेश महाचमूम ॥ 18 ॥
विदितः पाण्डवेयानां वासुदेव परियेप्सया युधिष्ठिरस तु तं राजा परत्युद्गम्याभ्यपूजयत ॥ 19 ॥
स पूजितः पाण्डुसुतैर यथान्यायं सुसत्कृतः परतिपूज्य च तान सर्वान विश्रान्तः सह सैनिकः उवाच मध्ये वीराणां कुन्तीपुत्रं धनंजयम ॥ 20 ॥
सहायॊ ऽसमि सथितॊ युद्धे यदि भीतॊ ऽसि पाण्डव करिष्यामि रणे साह्यम असह्यं तव शत्रुभिः ॥ 21 ॥
न हि मे विक्रमे तुल्यः पुमान अस्तीह कश चन निहत्य समरे शत्रूंस तव दास्यामि फल्गुन ॥ 22 ॥
इत्य उक्तॊ धर्मराजस्य केशवस्य च संनिधौ शृण्वतां पार्थिवेन्द्राणाम अन्येषां चैव सर्वशः ॥ 23 ॥
वासुदेवम अभिप्रेक्ष्य धर्मराजं च पाण्डवम उवाच धीमान कौन्तेयः परहस्य सखिपूर्वकम ॥ 24 ॥
युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः सहायॊ घॊषयात्रायां कस तदासीत सखा मम ॥ 25 ॥
तथा परतिभये तस्मिन देवदानव संकुले खाण्डवे युध्यमानस्य कः सहायस तदाभवत ॥ 26 ॥
निवातकवचैर युद्धे कालकेयैश च दानवैः तत्र मे युध्यमानस्य कः सहायस तदाभवत ॥ 27 ॥
तथा विराटनगरे कुरुभिः सह संगरे युध्यतॊ बहुभिस तात कः सहायॊ ऽभवन मम ॥ 28 ॥
उपजीव्य रणे रुद्रं शक्रं वैश्वरणं यमम वरुणं पावकं चैव कृपं दरॊणं च माधवम ॥ 29 ॥
धारयन गाण्डिवं दिव्यं धनुस तेजॊमयं दृढम अक्षय्य शरसंयुक्तॊ दिव्यास्त्रपरिबृंहितः ॥ 30 ॥
कौरवाणां कुले जातः पाण्डॊः पुत्रॊ विशेषतः दरॊणं वयपदिशञ शिष्यॊ वासुदेवसहायवान ॥ 31 ॥
कथम अस्मद्विधॊ बरूयाद भीतॊ ऽसतीत्य अयशस्करम वचनं नरशार्दूल वज्रायुधम अपि सवयम ॥ 32 ॥
नास्मि भीतॊ महाबाहॊ सहायार्थश च नास्ति मे यथाकामं यथायॊगं गच्छ वान्यत्र तिष्ठ वा ॥ 33 ॥
विनिवर्त्य ततॊ रुक्मी सेनां सागरसंनिभाम दुर्यॊधनम उपागच्छत तथैव भरतर्षभ ॥ 34 ॥
तथैव चाभिगम्यैनम उवाच स नराधिपः परत्याख्यातश च तेनापि स तदा शूरमानिना ॥ 35 ॥
दवाव एव तु महाराज तस्माद युद्धाद वयपेयतुः रौहिणेयश च वार्ष्णेयॊ रुक्मी च वसुधाधिपः ॥ 36 ॥
गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा उपाविशन पाण्डवेया मन्त्राय पुनर एव हि ॥ 37 ॥
समितिर धर्मराजस्य सा पार्थिव समाकुला शुशुभे तारका चित्रा दयौश चन्द्रेणेव भारत ॥ 38 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 155
Reach this point to mark the section finished.
Continue to अध्याय 156