धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 154

  1. [ज] आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम पितामहं भारतानां धवजं सर्वमहीक्षिताम ॥ 1 ॥

  2. बृहस्पतिसमं बुद्ध्या कषमया पृथिवीसमम समुद्रम इव गाम्भीर्ये हिमवन्तम इव सथितम ॥ 2 ॥

  3. परजापतिम इवौदार्ये तेजसा भास्करॊपमम महेन्द्रम इव शत्रूणां धवंसनं शरवृष्टिभिः ॥ 3 ॥

  4. रणयज्ञे परतिभये सवाभीले लॊमहर्षणे दीक्षितं चिररात्राय शरुता राजा युधिष्ठिरः ॥ 4 ॥

  5. किम अब्रवीन महाबाहुः सर्वधर्मविशारदः भीमसेनार्जुनौ वापि कृष्णॊ वा परत्यपद्यत ॥ 5 ॥

  6. आपद धर्मार्थकुशलॊ महाबुद्धिर युधिष्ठिरः सर्वान भरातॄन समानीय वासुदेवं च सात्वतम उवाच वदतां शरेष्ठः सान्त्वपूर्वम इदं वचः ॥ 6 ॥

  7. पर्याक्रामत सैन्यानि यत तास तिष्ठत दंशिताः पितामहेन वॊ युद्धं पूर्वम एव भविष्यति तस्मात सप्तसु सेनासु परणेतॄन मम पश्यत ॥ 7 ॥

  8. यथार्हति भवान वक्तुम अस्मिन काल उपस्थिते तथेदम अर्थवद वाक्यम उक्तं ते भरतर्षभ ॥ 8 ॥

  9. रॊचते मे महाबाहॊ करियतां यद अनन्तरम नायकास तव सेनायाम अभिषिच्यन्तु सप्त वै ॥ 9 ॥

  10. ततॊ दरुपदम आनाय्य विराटं शिनिपुंगवम धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिवम शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम ॥ 10 ॥

  11. एतान सप्त महैष्वासान वीरान युद्धाभिनन्दिनः सेना परणेतॄन विधिवद अभ्यषिञ्चद युधिष्ठिरः ॥ 11 ॥

  12. सर्वसेनापतिं चात्र धृष्टद्युम्नम उपादिशत दरॊणान्त हेतॊर उत्पन्नॊ य इद्धाञ जातवेदसः ॥ 12 ॥

  13. सर्वेषाम एव तेषां तु समस्तानां महात्मनाम सेनापतिपतिं चक्रे गुडाकेशं धनंजयम ॥ 13 ॥

  14. अर्जुनस्यापि नेता च संयन्ता चव वाजिनाम संकर्षणानुजः शरीमान महाबुद्धिर जनार्दनः ॥ 14 ॥

  15. तद दृष्ट्वॊपस्थितं युद्धं समासन्नं महात्ययम पराविशद भवनं राज्ञः पाण्डवस्य हलायुधः ॥ 15 ॥

  16. सहाक्रूरप्रभृतिभिर गद साम्बॊल्मुकादिभिः रौक्मिणेयाहुक सुतैश चारुदेष्ण पुरॊगमैः ॥ 16 ॥

  17. वृष्णिमुख्यैर अभिगतैर वयाघ्रैर इव बलॊत्कटैः अभिगुप्तॊ महाबाहुर मरुद्भिर इव वासवः ॥ 17 ॥

  18. नीलकौशेय वसनः कौलास शिखरॊपमः सिंहखेल गतिः शरीमान मदरक्तान्त लॊचनः ॥ 18 ॥

  19. तं दृष्ट्वा धर्मराजश च केशवश च महाद्युतिः उदतिष्ठत तदा पार्थॊ भीमकर्मा वृकॊदरः ॥ 19 ॥

  20. गाण्डीवधन्वा ये चान्ये राजानस तत्र के चन पूजयां चक्रुर अभ्येत्य ते सम सर्वे हलायुधम ॥ 20 ॥

  21. ततस तं पाण्डवॊ राजा करे पस्पर्श पाणिना वासुदेव पुरॊगास तु सर्व एवाभ्यवादयन ॥ 21 ॥

  22. विराटद्रुपदौ वृद्धाव अभिवाद्य हलायुधः युधिष्ठिरेण सहित उपाविशद अरिंदमः ॥ 22 ॥

  23. ततस तेषूपविष्टेषु पार्थिवेषु समन्ततः वासुदेवम अभिप्रेक्ष्य रौहिणेयॊ ऽभयभाषत ॥ 23 ॥

  24. भवितायं महारौद्रॊ दारुणः पुरुषक्षयः दिष्टम एतद धरुवं मन्ये न शक्यम अतिवर्तितुम ॥ 24 ॥

  25. अस्माद युद्धात समुत्तीर्णान अपि वः ससुहृज्जनान अरॊगान अक्षतैर देहैः पश्येयम इति मे मतिः ॥ 25 ॥

  26. समेतं पार्थिवं कषत्रं कालपक्वम असंशयम विमर्दः सुमहान भावी मांसशॊणितकर्दमः ॥ 26 ॥

  27. उक्तॊ मया वासुदेवः पुनः पुनर उपह्वरे संबन्धिषु समां वृत्तिं वर्तस्व मधुसूदन ॥ 27 ॥

  28. पाण्डवा हि यथास्माकं तथा दुर्यॊधनॊ नृपः तस्यापि करियतां युक्त्या सपर्येति पुनः पुनः ॥ 28 ॥

  29. तच च मे नाकरॊद वाक्यं तवदर्थे मधुसूदनः निविष्टः सर्वभावेन धनंजयम अवेक्ष्य च ॥ 29 ॥

  30. धरुवॊ जयः पाण्डवानाम इति मे निश्चिता मतिः तथा हय अभिनिवेशॊ ऽयं वासुदेवस्य भारत ॥ 30 ॥

  31. न चाहम उत्सहे कृष्णम ऋते लॊकम उदीक्षितुम ततॊ ऽहम अनुवर्तामि केषवस्य चिकीर्षितम ॥ 31 ॥

  32. उभौ शिष्यौ हि मे वीरौ गदायुद्धविशारदौ तुल्यस्नेहॊ ऽसम्य अतॊ भीमे तथा दुर्यॊधने नृपे ॥ 32 ॥

  33. तस्माद यास्यामि तीर्थानि सरस्वत्यानिषेवितुम न हि शक्ष्यामि कौरव्यान नश्यमानान उपेक्षितुम ॥ 33 ॥

  34. एवम उक्त्वा महाबाहुर अनुज्ञातश च पाण्डवैः तीर्थयात्रां ययौ रामॊ निवर्त्य मधुसूदनम ॥ 34 ॥

Reach this point to mark the section finished.

Continue to अध्याय 155

Previous: अध्याय 153