[व] ततः शांतनवं भीष्मं पराञ्जलिर धृतराष्ट्रजः सह सर्वैर महीपालैर इदं वचनम अब्रवीत ॥ 1 ॥
ऋते सेना परणेतारं पृतना सुमहत्य अपि दीर्यते युद्धम आसाद्य पिपीलिक पुटं यथा ॥ 2 ॥
न हि जातु दवयॊर बुद्धिः समा भवति कर्हि चित शौर्यं च नाम नेतॄणां सपर्धते च परस्परम ॥ 3 ॥
शरूयते च महाप्राज्ञ हैहयान अमितौजसः अभ्ययुर बराह्मणाः सर्वे समुच्छ्रितकुशध्वजाः ॥ 4 ॥
तान अन्वयुस तदा वैश्याः शूद्राश चैव पितामह एकतस तु तरयॊ वर्णा एकतः कषत्रियर्षभाः ॥ 5 ॥
ते सम युद्धेष्व अभज्यन्त तरयॊ वर्णाः पुनः पुनः कषत्रियास तु जयन्त्य एव बहुलं चैकतॊ बलम ॥ 6 ॥
ततस ते कषत्रियान एव पप्रच्छुर दविजसत्तमाः तेभ्यः शशंसुर धर्मज्ञा याथातथ्यं पितामह ॥ 7 ॥
वयम एकस्य शृणुमॊ महाबुद्धिमतॊ रणे भवन्तस तु पृथक सर्वे सवबुद्धिवशवर्तिनः ॥ 8 ॥
ततस ते बराह्मणाश चक्रुर एकं सेनापतिं दविजम नयेषु कुशलं शूरम अजयन कषत्रियांस ततः ॥ 9 ॥
एवं ये कुशलं शूलं हिते सथितम अकल्मषम सेनापतिं परकुर्वन्ति ते जयन्ति रणे रिपून ॥ 10 ॥
भवान उशनसा तुल्यॊ हितैषी च सदा मम असंहार्यः सथितॊ धर्मे स नः सेनापतिर भव ॥ 11 ॥
रश्मीवताम इवादित्यॊ वीरुधाम इव चन्द्रमाः कुबेर इव यक्षाणां मरुताम इव वासवः ॥ 12 ॥
पर्वतानां यथा मेरुः सुपर्णः पतताम इव कुमार इव भूतानां वसूनाम इव हव्यवाट ॥ 13 ॥
भवता हि वयं गुप्ताः शक्रेणेव दिवौकसः अनाधृष्या भविष्यामस तरिदशानाम अपि धरुवम ॥ 14 ॥
परयातु नॊ भवान अग्रे देवानाम इव पावकिः वयं तवाम अनुयास्यामः सौरभेया इवर्षभम ॥ 15 ॥
एवम एतन महाबाहॊ यथा वदसि भारत यथैव हि भवन्तॊ मे तथैव मम पाण्डवाः ॥ 16 ॥
अपि चैव मय शरेयॊ वाच्यं तेषां नराधिप यॊद्धव्यं तु तवार्थाय यथा स समयः कृतः ॥ 17 ॥
न तु पश्यामि यॊद्धारम आत्मनः सदृशं भुवि ऋते तस्मान नरव्याघ्रात कुन्तीपुत्राद धनंजयात ॥ 18 ॥
स हि वेद महाबाहुर दिव्यान्य अस्त्राणि सर्वशः न तु मां विवृतॊ युद्धे जातु युध्येत पाण्डवः ॥ 19 ॥
अहं स च कषणेनैव निर्मनुष्यम इदं जगत कुर्यां शस्त्रबलेनैव ससुरासुरराक्षसम ॥ 20 ॥
न तव एवॊत्सादनीया मे पाण्डॊः पुत्रा नराधिप तस्माद यॊधान हनिष्यामि परयॊगेणायुतं सदा ॥ 21 ॥
एवम एषां करिष्यामि निधनं कुरुनन्दन न चेत ते मां हनिष्यन्ति पूर्वम एव समागमे ॥ 22 ॥
सेनापतिस तव अहं राजन समयेनापरेण ते भविष्यामि यथाकामं तन मे शरॊतुम इहार्हसि ॥ 23 ॥
कर्णॊ वा युध्यतां पूर्वम अहं वा पृथिवीपते सपर्धते हि सदात्यर्थं सूतपुत्रॊ मया रणे ॥ 24 ॥
नाहं जीवति गाङ्गेये यॊत्स्ये राजन कथं चन हते भीष्मे तु यॊत्स्यामि सह गाण्डीवधन्वना ॥ 25 ॥
ततः सेनापतिं चक्रे विधिवद भूरिदक्षिणम धृतराष्ट्रात्मजॊ भीष्मं सॊ ऽभिषिक्तॊ वयरॊचत ॥ 26 ॥
ततॊ भेरीश च शङ्खांश च शतशश चैव पुष्करान वदयाम आसुर अव्यग्राः पुरुषा राजशासनात ॥ 27 ॥
सिंहनाशाश च विविधा वाहनानां चनिस्वनाः परादुरासन्न अनभ्रे च वर्षं रुधिरकर्दमम ॥ 28 ॥
निर्घाताः पृथिवी कम्पा गजबृंहित निस्वनाः आसंश च सर्वयॊधानां पातयन्तॊ मनांस्य उत ॥ 29 ॥
वाचश चाप्य अशरीरिण्यॊ दिवश चॊल्काः परपेदिरे शिवाश च भयवेदिन्यॊ नेदुर दीप्तस्वरा भृशम ॥ 30 ॥
सेनापत्ये यदा राजा गाङ्गेयम अभिषिक्तवान तदैतान्य उग्ररूपाणि अभवञ शतशॊ नृप ॥ 31 ॥
ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम वाचयित्वा दविजश्रेष्ठान निष्कैर गॊभिश च भूरिशः ॥ 32 ॥
वर्धमानॊ जयाशीर्भिर निर्ययौ सैनिकैर वृतः आपगेयं पुरस्कृत्य भरातृभिः सहितस तदा सकन्धावारेण महता कुरुक्षेत्रं जगाम ह ॥ 33 ॥
परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः शिबिरं मापयाम आस समे देशे नराधिपः ॥ 34 ॥
मधुरानूषरे देशे परभूतयवसेन्धने यथैव हास्तिनपुरं तद्वच छिबिरम आबभौ ॥ 35 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 153
Reach this point to mark the section finished.
Continue to अध्याय 154