धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 152

  1. [व] वयुषितायां रजन्यां तु राजा दुर्यॊधनस ततः वयभजत तान्य अनीकानि दश चैकं च भारत ॥ 1 ॥

  2. नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च सर्वेष्व एतेष्व अनीकेषु संदिदेश महीपतिः ॥ 2 ॥

  3. सानुकर्षाः सतूणीराः सवरूथाः सतॊमराः सॊपासङ्गाः सशक्तीकाः सनिषङ्गाः सपॊथिकाः ॥ 3 ॥

  4. सध्वजाः सपताकाश च सशरासन तॊमराः रज्जुभिश च विचित्राभिः सपाशाः सपरिस्तराः ॥ 4 ॥

  5. सकच गरहविक्षेपाः सतैल गुड वालुकाः साशीविषघटाः सर्वे ससर्ज रसपांसवः ॥ 5 ॥

  6. सघण्टा फलकाः सर्वे वासी वृक्षादनान्विताः वयाघ्रचर्म परीवारा वृताश च दवीपिचर्मभिः ॥ 6 ॥

  7. सवस्तयः सशृङ्गाश च सप्रास विविधायुधाः सकुठाराः सकुद्दालाः सतैल कषौमसर्पिषः ॥ 7 ॥

  8. चित्रानीकाः सुवपुषॊ जवलिता इव पावकाः तथा कवचिनः शूराः शस्त्रेषु कृतनिश्रमाः ॥ 8 ॥

  9. कुलीना हययॊनिज्ञाः सारथ्ये विनिवेशिताः बद्धारिष्टा बद्धकक्ष्या बद्धध्वजपताकिनः ॥ 9 ॥

  10. चतुर्युजॊ रथाः सर्वे सर्वे शस्त्रसमायुताः संहृष्टवाहनाः सर्वे सर्वे शतशरासनाः ॥ 10 ॥

  11. दुर्ययॊर हययॊर एकस तथान्यौ पार्ष्णिसारथी तौ चापि रथिनां शरेष्ठौ रथी च हयवित तथा ॥ 11 ॥

  12. नगराणीव गुप्तानि दुरादेयानि शत्रुभिः आसन रथसहस्राणि हेममालीनि सर्वशः ॥ 12 ॥

  13. यथा रथास तथा नागबद्धकक्ष्याः सवलंकृताः बभूवुः सप्त पुरुषा रत्नवन्त इवाद्रयः ॥ 13 ॥

  14. दवाव अङ्कुश धरौ तेषु दवाव उत्तमधनुर्धरौ दवौ वरासि धरौ राजन्न एकः शक्तिपताकधृक ॥ 14 ॥

  15. गजैर मत्तैः समाकीर्णं सवर्मायुध कॊशकैः तद बभूव बलं राजन कौरव्यस्य सहस्रशः ॥ 15 ॥

  16. विचित्रकवचामुक्तैः सपताकैः सवलंकृतैः सादिभिश चॊपसंपन्ना आसन्न अयुतशॊ हयाः ॥ 16 ॥

  17. सुसंग्राहाः सुसंतॊषा हेमभाण्ड परिच्छदाः अनेकशतसाहस्रास ते च सादिवशे सथिताः ॥ 17 ॥

  18. नानारूपविकाराश च नाना कवचशस्त्रिणः पदातिनॊ नरास तत्र बभूवुर हेममालिनः ॥ 18 ॥

  19. रथस्यासन दश गजा गजस्य दशवाजिनः नरा दश हयस्यासन पादरक्षाः समन्ततः ॥ 19 ॥

  20. रथस्य नागाः पञ्चाशन नागस्यासञ शतं हयाः हयस्य पुरुषाः सप्त भिन्नसंधान कारिणः ॥ 20 ॥

  21. सेना पञ्चशतं नागा रथास तावन्त एव च दश सेना च पृतना पृतना दशवाहिनी ॥ 21 ॥

  22. वाहिनी पृतना सेना धवजिनी सादिनी चमूः अक्षौहिणीति पर्यायैर निरुक्ताथ वरूथिनी एवं वयूढान्य अनीकानि कौरवेयेण धीमता ॥ 22 ॥

  23. अक्षौहिण्यॊ दशैका च संख्याताः सप्त चैव ह अक्षौहिण्यस तु सप्तैव पाण्डवानाम अभूद बलम अक्षौहिण्यॊ दशैका च कौरवाणाम अभूद बलम ॥ 23 ॥

  24. नराणां पञ्च पञ्चाशद एषा पत्तिर विधीयते सेनामुखं च तिस्रस ता गुल्म इत्य अभिसंज्ञितः ॥ 24 ॥

  25. दश गुल्मा गणस तव आसीद गणास तव अयुतशॊ ऽभवन दुर्यॊधनस्य सेनासु यॊत्स्यमानाः परहारिणः ॥ 25 ॥

  26. तत्र दुर्यॊधनॊ राजा शूरान बुद्धिमतॊ नरान परसमीक्ष्य महाबाहुश चक्रे सेनापतींस तदा ॥ 26 ॥

  27. पृथग अक्षौहिणीनां च परणेतॄन नरसत्तमान विधिपूर्वं समानीय पार्थिवान अभ्यषेचयत ॥ 27 ॥

  28. कृपं दरॊणं च शल्यं च सैन्धवं च महारथम सुदक्षिणं च काम्बॊजं कृतवर्माणम एव च ॥ 28 ॥

  29. दरॊणपुत्रं च कर्णं च भूरिश्रवसम एव च शकुनिं सौबलं चैव बाह्लीकं च महारथम ॥ 29 ॥

  30. दिवसे दिवसे तेषां परतिवेलं च भारत चक्रे स विविधाः संज्ञाः परत्यक्षं च पुनः पुनः ॥ 30 ॥

  31. तथा विनियताः सर्वे ये च तेषां पदानुगाः बभूवुः सैनिका राजन राज्ञः परियचिकीर्षवः ॥ 31 ॥

Reach this point to mark the section finished.

Continue to अध्याय 153

Previous: अध्याय 151