[व] वासुदेवस्य तद वाक्यम अनुस्मृत्य युधिष्ठिरः पुनः पप्रच्छ वार्ष्णेयं कथं मन्दॊ ऽबरवीद इदम ॥ 1 ॥
अस्मिन्न अभ्यागते काले किं च नः कषमम अच्युत कथं च वर्तमाना वै सवधर्मान न चयवेमहि ॥ 2 ॥
दुर्यॊधनस्य कर्णस्य शकुनेः सौबलस्य च वासुदेव मतज्ञॊ ऽसि मम सभ्रातृकस्य च ॥ 3 ॥
विदुरस्यापि ते वाक्यं शरुतं भीष्मस्य चॊभयॊः कुन्त्याश च विपुलप्रज्ञ परज्ञा कार्त्स्न्येन ते शरुता ॥ 4 ॥
सर्वम एतद अतिक्रम्य विचार्य च पुनः पुनः य नः कषमं महाबाहॊ तद बरवीह्य अविचारयन ॥ 5 ॥
शरुत्वैतद धर्मराजस्य धर्मार्थसहितं वचः मेघदुन्दुभि निर्घॊषः कृष्णॊ वचनम अब्रवीत ॥ 6 ॥
उक्तवान अस्मि यद वाक्यं धर्मार्थसहितं हितम न तु तन निकृतिप्रज्ञे कौरव्ये परतितिष्ठति ॥ 7 ॥
न च भीष्मस्य दुर्मेधाः शृणॊति विदुरस्य वा मम वा भाषितं किं चित सर्वम एवातिवर्तते ॥ 8 ॥
न स कामयते धर्मं न स कामयते यशः जितं स मन्यते सर्वं दुरात्मा कर्णम आश्रितः ॥ 9 ॥
बन्धम आज्ञापयाम आस मम चापि सुयॊधनः न च तं लब्धवान कामं दुरात्मा शासनातिगः ॥ 10 ॥
न च भीष्मॊ न च दरॊणॊ युक्तं तत्राहतुर वचः सर्वे तम अनुवर्तन्ते ऋते विदुरम अच्युत ॥ 11 ॥
शकुनिः सौबलश चैव कर्ण दुःशासनाव अपि तवय्य अयुक्तान्य अभाषन्त मूढा मूढम अमर्षणम ॥ 12 ॥
किं च तेन मयॊक्तेन यान्य अभाषन्त कौरवाः संक्षेपेण दुरात्मासौ न युक्तं तवयि वर्तते ॥ 13 ॥
न पार्थिवेषु सर्वेषु य इमे तव सैनिकाः यत पापं यन न कल्याणं सर्वं तस्मिन परतिष्ठितम ॥ 14 ॥
न चापि वयम अत्यर्थं परित्यागेन कर्हि चित कौरवैः शमम इच्छामस तत्र युद्धम अनन्तरम ॥ 15 ॥
तच छरुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम अब्रुवन्तॊ मुखं राज्ञः समुदैक्षन्त भारत ॥ 16 ॥
युधिष्ठिरस तव अभिप्रायम उपलभ्य महीक्षिताम यॊगम आज्ञापयाम आस भीमार्जुनयमैः सह ॥ 17 ॥
ततः किल किला भूतम अनीकं पाण्डवस्य ह आज्ञापिते तदा यॊगे समहृष्यन्त सैनिकाः ॥ 18 ॥
अवध्यानां वधं पश्यन धर्मराजॊ युधिष्ठिरः निष्ठनन भीमसेनं च विजयं चेदम अब्रवीत ॥ 19 ॥
यदर्थं वनवासश च पराप्तं दुःखं च यन मया सॊ ऽयम अस्मान उपैत्य एव परॊ ऽनर्थः परयत्नतः ॥ 20 ॥
यस्मिन यत्नः कृतॊ ऽसमाभिः स नॊ हीनः परयत्नतः अकृते तु परयत्ने ऽसमान उपावृत्तः कलिर महान ॥ 21 ॥
कथं हय अवध्यैः संग्रामः कार्यः सह भविष्यति कथं हत्वा गुरून वृद्धान विजयॊ नॊ भविष्यति ॥ 22 ॥
तच छुत्वा धर्मराजस्य सव्यसाची परंतपः यद उक्तं वासुदेवेन शरावयाम आस तद वचः ॥ 23 ॥
उक्तवान देवकीपुत्रः कुन्त्याश च विदुरस्य च वचनं त तवया राजन निखिलेनावधारितम ॥ 24 ॥
न च तौ वक्ष्यतॊ ऽधर्मम इति मे नैष्ठिकी मतिः न चापि युक्तं कौन्तेय निवर्तितुम अयुध्यतः ॥ 25 ॥
तच छरुत्वा वासुदेवॊ ऽपि सव्यसाचि वचस तदा समयमानॊ ऽबरवीत पार्थम एवम एतद इति बरुवन ॥ 26 ॥
ततस ते धृतसंकल्पा युद्धाय सह सैनिकाः पाण्डवेया महाराज तां रात्रिं सुखम आवसन ॥ 27 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 151
Reach this point to mark the section finished.
Continue to अध्याय 152