धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 150

  1. [ज] युधिष्ठिरं सहानीकम उपयान्तं युयुत्सया संनिविष्टं कुरुक्षेत्रं वासुदेवेन पालितम ॥ 1 ॥

  2. विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम केकयैर वृष्णिभिश चैव पार्थिवैः शतशॊ वृतम ॥ 2 ॥

  3. महेन्द्रम इव चादित्यैर अभिगुप्तं महारथैः शरुत्वा दुर्यॊधनॊ राजा किं कार्यं परत्यपद्यत ॥ 3 ॥

  4. एतद इच्छाम्य हं शरॊतुं विस्तरेण तपॊधन संभ्रमे तुमुले तस्मिन यदासीत कुरुजाङ्गले ॥ 4 ॥

  5. वयथयेयुर हि देवानां सेनाम अपि समागमे पाण्डवा वासुदेवश च विराटद्रुपदौ तथा ॥ 5 ॥

  6. धृष्टद्युम्नश च पाञ्चाल्यः शिखण्डी च महारथः युयुधानश च विक्रान्तॊ देवैर अपि दुरासदः ॥ 6 ॥

  7. एतद इच्छाम्य अहं शरॊतुं विस्तरेण तपॊधन कुरूणां पाण्डवानां च यद यद आसीद विचेष्टितम ॥ 7 ॥

  8. परतियाते तु दाशार्हे राजा दुर्यॊधनस तदा कर्णं दुःशासनं चैव शकुनिं चाब्रवीद इदम ॥ 8 ॥

  9. अकृतेनैव कार्येण गतः पार्थान अधॊक्षजः स एनान मन्युनाविष्टॊ धरुवं वक्ष्यत्य असंशयम ॥ 9 ॥

  10. इष्टॊ हि वासुदेवस्य पाण्डवैर मम विग्रहः भीमसेनार्जुनौ चैव दाशार्हस्य मते सथितौ ॥ 10 ॥

  11. अजातशत्रुर अप्य अद्य भीमार्जुनवशानुगः निकृतश च मया पूर्वं सह सर्वैः सहॊदरैः ॥ 11 ॥

  12. विराटद्रुपदौ चैव कृतवैरौ मया सह तौ च सेना परणेतारौ वासुदेव वशानुगौ ॥ 12 ॥

  13. भविता विग्रहः सॊ ऽयं तुमुलॊ लॊमहर्षणः तस्मात सांग्रामिकं सर्वं कारयध्वम अतन्द्रिताः ॥ 13 ॥

  14. शिबिराणि कुरुक्षेत्रे करियन्तां वसुधाधिपाः सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः ॥ 14 ॥

  15. आसन्न जलकाण्ठानि शतशॊ ऽथ सहस्रशः अच्छेद्याहार मार्गाणि रत्नॊच्चय चितानि च विविधायुधपूर्णानि पताकाध्वजवन्ति च ॥ 15 ॥

  16. समाश च तेषां पन्थानः करियन्तां नगराद बहिः परयाणं घुष्यताम अद्य शवॊभूत इति माचिरम ॥ 16 ॥

  17. ते तथेति परतिज्ञाय शवॊभूते चक्रिरे तथा हृष्टरूपा महात्मानॊ विनाशाय महीक्षिताम ॥ 17 ॥

  18. ततस ते पार्थिवाः सर्वे तच छरुत्वा राजशासनम आसनेभ्यॊ महार्हेभ्य उदतिष्ठन्न अमर्षिताः ॥ 18 ॥

  19. बाहून परिघसंकाशान संस्क्पृशन्तः शनैः शनैः काञ्चनाङ्गददीप्तांश च चन्दनागरुभूषितान ॥ 19 ॥

  20. उष्णीषाणि नियच्छन्न्तः पुण्डरीकनिभैः करैः अन्तरीयॊत्तरीयाणि भूषणानि च सर्वशः ॥ 20 ॥

  21. ते रथान रथिनः शरेष्ठा हयांश च हयकॊविदाः सज्जयन्ति सम नागांश च नागशिक्षासु निष्ठिताः ॥ 21 ॥

  22. अथ वर्माणि चित्राणि काञ्चनानि बहूनि च विविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः ॥ 22 ॥

  23. पदातयश च पुरुषाः शस्त्राणि विविधानि च उपजह्रुः शरीरेषु हेमचित्राण्य अनेकशः ॥ 23 ॥

  24. तद उत्सव इवॊदग्रं संप्रहृष्टनरावृतम नगरं धार्तराष्ट्रस्य भारतासीत समाकुलम ॥ 24 ॥

  25. जनौघसलिलावर्तॊ रथनागाश्वमीनवान शङ्खदुन्दुभिनिर्घॊषः कॊशसंचय रत्नवान ॥ 25 ॥

  26. चित्राभरण वर्मॊर्मिः शस्त्रनिर्मल फेनवान परासादमालाद्रिवृतॊ रथ्यापण महाह्रदः ॥ 26 ॥

  27. यॊधचन्द्रॊदयॊद्भूतः कुरुराजमहार्णवः अदृश्यत तदा राजंश चन्द्रॊदय इवार्णवः ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 151

Previous: अध्याय 149