[व] जनार्दनवचः शरुत्वा धर्मराजॊ युधिष्ठिरः भरातॄन उवाच धर्मात्मा समक्षं केशवस्य ह ॥ 1 ॥
शरुतं भवद्भिर यद्वृत्तं सभायां कुरुसंसदि केशवस्यापि यद वाक्यं तत सर्वम अवधारितम ॥ 2 ॥
तस्मात सेना विभागं मे कुरुध्वं नरसत्तमाः अक्षौहिण्यस तु सप्तैताः समेता विजयाय वै ॥ 3 ॥
तासां मे पतयः सप्त विख्यातास तान निबॊधत दरुपदश च विराटश च धृष्टद्युम्न शिखण्डिनौ ॥ 4 ॥
सात्यकिश चेकितानश च भीमसेनश च वीर्यवान एते सेना परणेतारॊ वीराः सर्वे तनुत्यजः ॥ 5 ॥
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः हरीमन्तॊ नीतिमन्तश च सर्वे युद्धविशारदाः इष्वस्त्रकुशलाश चैव तथा सर्वास्त्रयॊधिनः ॥ 6 ॥
सप्तानाम अपि यॊ नेता सेनानां परविभागवित यः सहेत रणे भीष्मं शरार्चिः पावकॊपमम ॥ 7 ॥
तवं तावत सहदेवात्र परब्रूहि कुरुनन्दन सवमतं पुरुषव्याघ्र कॊ नः सेनापतिः कषमः ॥ 8 ॥
संयुक्त एकदुःखश च वीर्यवांश च महीपतिः यं समाश्रित्य धर्मज्ञं सवम अंशम अनुयुञ्ज्महे ॥ 9 ॥
मत्स्यॊ विराटॊ बलवान कृतास्त्रॊ युद्धदुर्मदः परसहिष्यति संग्रामे भीष्मं तांश च महारथान ॥ 10 ॥
तथॊक्ते सहदेवेन वाक्ये वाक्यविशारदः नकुलॊ ऽनन्तरं तस्माद इदं वचनम आददे ॥ 11 ॥
वयसा शास्त्रतॊ धैर्यात कुलेनाभिजनेन च हरीमान कुलान्वितः शरीमान सर्वशास्त्रविशारदः ॥ 12 ॥
वेद चास्त्रं भरद्वाजाद दुर्धर्षः सत्यसंगरः यॊ नित्यं सपर्धते दरॊणं भीष्मं चैव महाबलम ॥ 13 ॥
शलाघ्यः पार्थिव संघस्य परमुखे वाहिनीपतिः पुत्रपौत्रैः परिवृतः शतशाख इव दरुमः ॥ 14 ॥
यस तताप तपॊ घॊरं सदारः पृथिवीपतिः रॊषाद दरॊण विनाशाय वीरः समितिशॊभनः ॥ 15 ॥
पितेवास्मान समाधत्ते यः सदा पार्थिवर्षभः शवशुरॊ दरुपदॊ ऽसमाकं सेनाम अग्रे परकर्षतु ॥ 16 ॥
स दरॊण भीष्माव आयान्तौ सहेद इति मतिर मम स हि दिव्यास्त्रविद राजा सखा चाङ्गिरसॊ नृपः ॥ 17 ॥
माद्री सुताभ्याम उक्ते तु सवमते कुरुनन्दनः वासविर वासव समः सव्यसाच्य अब्रवीद वचः ॥ 18 ॥
यॊ ऽयं तपः परभावेन ऋषिसंतॊषणेन च दिव्यः पुरुष उत्पन्नॊ जवाला वर्णॊ महाबलः ॥ 19 ॥
धनुष्मान कवची खङ्गी रथम आरुह्य दंशितः दिव्यैर हयवरैर युक्तम अग्निकुण्डात समुत्थितः ॥ 20 ॥
गर्हन्न इव महामेघॊ रथघॊषेण वीर्यवान सिंहसंहननॊ वीरः सिंहविक्रान्त विक्रमः ॥ 21 ॥
सिंहॊरस्कॊ महाबाहुः सिंहवक्षा महावलः सिंहप्रगर्जनॊ वीरः सिंहस्कन्धॊ महाद्युतिः ॥ 22 ॥
सुभ्रूः सुदंष्ट्रः सुहनुः सुबाहु सुमुखॊ ऽकृशः सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः ॥ 23 ॥
अभेद्यः सर्वशस्त्राणां परभिन्न इव वारणः जज्ञे दरॊण विनाशाय सत्यवादी जितेन्द्रियः ॥ 24 ॥
धृष्टद्युम्नम अहं मन्ये सहेद भीष्मस्य सायकान वज्राशनिसमस्पर्शान दीप्तास्यान उरगान इव ॥ 25 ॥
यमदूत समान वेगे निपाते पावकॊपमान रामेणाजौ विषहितान वज्रनिष्पेष दारुणान ॥ 26 ॥
पुरुषं तं न पश्यामि यः सहेत महाव्रतम धृष्टद्युम्नम ऋते राजन्न इति मे धीयते मतिः ॥ 27 ॥
कषिप्रहस्तश चित्रयॊधी मतः सेनापतिर मम अभेद्यकवचः शरीमान मातङ्ग इव यूथपः ॥ 28 ॥
वधार्थं यः समुत्पन्नः शिखण्डी दरुपदात्मजः वदन्ति सिद्धा राजेन्द्र ऋषयश च समागताः ॥ 29 ॥
यस्य संग्राममध्येषु दिव्यम अस्त्रं विकुर्वतः रूपं दरक्ष्यन्ति पुरुषा रामस्येव महात्मनः ॥ 30 ॥
न तं युद्धेषु पश्यामि यॊ विभिन्द्याच छिखण्डिनम शस्त्रेण समरे राजन संनद्धं सयन्दने सथितम ॥ 31 ॥
दवैरथे विषहेन नान्यॊ भीष्मं राजन महाव्रतम शिखण्डिनम ऋते वीरं स मे सेनापतिर मतः ॥ 32 ॥
सर्वस्य जगतस तात सारासारं बलाबलम सर्वं जानाति धर्मात्मा गतम एष्यच च केशवः ॥ 33 ॥
यम आह कृष्णॊ दाशार्हः सॊ ऽसतु नॊ वाहिनीपतिः कृतास्त्रॊ हय अकृतास्त्रॊ वा वृद्धॊ वा यदि वा युवा ॥ 34 ॥
एष नॊ विजये मूलम एष तात विपर्यये अत्र पराणाश च राज्यं च भावाभावौ सुखासुखे ॥ 35 ॥
एष धाता विधाता च सिद्धिर अत्र परतिष्ठिता यम आह कृष्णॊ दाशार्हः स नः सेनापतिः कषमः बरवीतु वदतां शरेष्ठॊ निशा समतिवर्तते ॥ 36 ॥
ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम रात्रिशेषे वयतिक्रान्ते परयास्यामॊ रणाजिरम अधिवासित शस्त्राश च कृतकौतुक मङ्गलाः ॥ 37 ॥
तस्य तद वचनं शरुत्वा धर्मराजस्य धीमतः अब्रवीत पुण्डरीकाक्षॊ धनंजयम अवेक्ष्य ह ॥ 38 ॥
ममाप्य एते महाराज भवद्भिर य उदाहृताः नेतारस तव सेनायाः शूरा विक्रान्तयॊधिनः सर्व एते समर्था हि तव शत्रून परमर्दितुम ॥ 39 ॥
इन्द्रस्यापि भयं हय एते जनयेयुर महाहवे किं पुनर धार्तराष्ट्राणां लुब्धानां पापचेतसाम ॥ 40 ॥
महापि हि महाबाहॊ तवत्प्रियार्थम अरिंदम कृतॊ यत्नॊ महांस तत्र शमः सयाद इति भारत धर्मस्य गतम आनृण्यं न सम वाच्या विवक्षताम ॥ 41 ॥
कृतार्थं मन्यते बालः सॊ ऽऽतमानम अविचक्षणः धार्तराष्ट्रॊ बलस्थं च मन्यते ऽऽतमानम आतुरः ॥ 42 ॥
युज्यतां वाहिनी साधु वधसाध्या हि ते मताः न धार्तराष्ट्राः शक्ष्यन्ति सथातुं दृष्ट्वा धनंजयम ॥ 43 ॥
भीमसेनं च संक्रुद्धं यमौ चापि यमॊपमौ युयुधान दवितीयं च धृष्टद्युम्नम अमर्षणम ॥ 44 ॥
अभिमन्युं दरौपदेयान विराटद्रुपदाव अपि अक्षौहिणीपतींश चान्यान नरेन्द्रान दृढविक्रमान ॥ 45 ॥
सारवद बलम अस्माकं दुष्प्रधर्षं दुरासदम धार्तराष्ट्र बलं संख्ये वधिष्यति न संशयः ॥ 46 ॥
एवम उक्ते तु केष्णेन संप्रहृष्यन नरॊत्तमाः तेषां परहृष्टमनसां नादः समभवन महान ॥ 47 ॥
यॊग इत्य अथ सैन्यानां तवरतां संप्रधावताम हयवारणशब्दश च नेमिघॊषश च सर्वशः शङ्खदुन्दुभिनिर्घॊषस तुमुलः सर्वतॊ ऽभवत ॥ 48 ॥
परयास्यतां पाण्डवानां ससैन्यानां समन्ततः गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी ॥ 49 ॥
अग्रानीके भीमसेनॊ माद्रीपुत्रौ च दंशितौ सौभद्रॊ दरौपदेयाश च धृष्टद्युम्नश च पार्षतः परभद्रकाश च पाञ्चाला भीमसेनमुखा ययुः ॥ 50 ॥
ततः शब्दः समभवत समुद्रस्येव पर्वणि हृष्टानां संप्रयातानां घॊषॊ दिवम इवास्पृशत ॥ 51 ॥
परहृष्टा दंशिता यॊधाः परानीक विदारणाः तेषां मध्ये ययौ राजा कुन्तीपुत्रॊ युधिष्ठिरः ॥ 52 ॥
शकटापण वेशाश च यानयुग्यं च सर्वशः कॊशयन्त्रायुधं चैव ये च वैद्याश चिकित्सकाः ॥ 53 ॥
फल्गु यच च बलं किं चित तथैव कृश दुर्बलम तत संगृह्य ययौ राजा य चापि परिचारकाः ॥ 54 ॥
उपप्लव्ये तु पाञ्चाली दरौपदी सत्यवादिनी सह सत्रीभिर निववृते दासीदास समावृता ॥ 55 ॥
कृत्वा मूलप्रतीकारान गुल्मैः सथावरजङ्गमैः सकन्धावारेण महता परययुः पाण्डुनन्दनाः ॥ 56 ॥
ददतॊ गां हिरण्यं च बराह्मणैर अभिसंवृताः सतूयमाना ययू राजन रथैर मणिविभूषितैः ॥ 57 ॥
केकया धृष्टकेतुश च पुत्रः काश्यस्य चाभिभूः शरेणिमान वसु दानश च शिखण्डी चापराजितः ॥ 58 ॥
हृष्टास तुष्टाः कवचिनः सशस्त्राः समलंकृताः राजानम अन्वयुः सर्वे परिवार्य युधिष्ठिरम ॥ 59 ॥
जघनार्धे विराटश च यज्ञसेनश च सॊमकिः सुधर्मा कुन्तिभॊजश च धृष्टद्युम्नस्य चात्मजाः ॥ 60 ॥
रथायुतानि चत्वारि हयाः पञ्च गुणास ततः पत्तिसैन्यं दशगुणं सादिनाम अयुतानि षट ॥ 61 ॥
अनाधृष्टिश चेकितानश चेदिराजॊ ऽथ सात्यकिः परिवार्य ययुः सर्वे वासुदेवधनंजयौ ॥ 62 ॥
आसाद्य तु कुरुक्षेत्रं वयूढानीकाः परहारिणः पाण्डवाः समदृश्यन्त नर्दन्तॊ वृषभा इव ॥ 63 ॥
ते ऽवगाह्य कुरुक्षेत्रं शङ्खान दध्मुर अरिंदमाः तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ ॥ 64 ॥
पाञ्चजन्यस्य निर्घॊषं विस्फूर्जितम इवाशनेः निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः ॥ 65 ॥
शङ्खदुन्दुभिसंसृष्टः सिंहनादस तरस्विनाम पृथिवीं चान्तरिक्षं च सागरांश चान्वनादयत ॥ 66 ॥
तदॊ देशे समे सनिग्धे परभूतयवसेन्धने निवेशयाम आस तदा सेनां राजा युधिष्ठिरः ॥ 67 ॥
परिहृत्य शमशानानि देवतायतनानि च आश्रमांश च महर्षीणां तीर्थान्य आयतनानि च ॥ 68 ॥
मधुरानूषरे देशे शिवे पुण्ये महीपतिः निवेशं कारयाम आस कुन्तीपुत्रॊ युधिष्ठिरः ॥ 69 ॥
ततश च पुनर उत्थाय सुखी विश्रान्त वाहनः परययौ पृथिवीपालैर वृतः शतसहस्रशः ॥ 70 ॥
विद्राव्य शतशॊ गुल्मान धार्तराष्ट्रस्य सैनिकान पर्यक्रामत समन्ताच च पार्थेन सह केशवः ॥ 71 ॥
शिबिरं मापयाम आस धृष्टद्युम्नश च पार्षतः सात्यकिश च रथॊदारॊ युयुधानः परतापवान ॥ 72 ॥
आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम सूपतीर्थाम शुचि जलां शर्करा पङ्कवर्जिताम ॥ 73 ॥
खानयाम आस परिखां केशवस तत्र भारत गुप्त्यर्थम अपि चादिश्य बलं तत्र नयवेशयत ॥ 74 ॥
विधिर यः शिबिरस्यासीत पाण्डवानां महात्मनाम तद विधानि नरेन्द्राणां कारयाम आस केशवः ॥ 75 ॥
परभूतजलकाष्ठानि दुराधर्षतराणि च भक्ष्यभॊज्यॊपपन्नानि शतशॊ ऽथ सहस्रशः ॥ 76 ॥
शिबिराणि महार्हाणि राज्ञां तत्र पृथक पृथक विमानानीव राजेन्द्र निविष्टानि महीतले ॥ 77 ॥
तत्रासञ शिल्पिनः पराज्ञाः शतशॊ दत्तवेतनाः सर्व औपकरणैर युक्ता वैद्याश च सुविशारदाः ॥ 78 ॥
जया धनुर्वर्म शस्त्राणां तथैव मधुसर्पिषॊः ससर्ज रसपांसूनां राशयः पर्वतॊपमाः ॥ 79 ॥
बहूदकं सुयवसं तुषाङ्गार समन्वितम शिबिरे शिबिरे राजा संचकार युधिष्ठिरः ॥ 80 ॥
महायन्त्राणि नाराचास तॊमरर्ष्टि परश्वधाः धनूंषि कवचादीनि हृद्य अभूवन नृणां तदा ॥ 81 ॥
गजाः कङ्कट संनाहा लॊहवर्मॊत्तरच छदाः अदृश्यंस तत्र गिर्याभाः सहस्रशतयॊधिनः ॥ 82 ॥
निविष्टान पाण्डवांस तत्र जञात्वा मित्राणि भारत अभिसस्रुर यथॊद्देशं सबलाः सहवाहनाः ॥ 83 ॥
चरितब्रह्म चर्यास ते सॊमपा भूरिदक्षिणाः जयाय पाण्डुपुत्राणां समाजग्मुर महीक्षितः ॥ 84 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 149
Reach this point to mark the section finished.
Continue to अध्याय 150