[वासु] एवम उक्ते तु भीष्मेण दरॊणेन विदुरेण च गान्धार्या धृतराष्ट्रेण न च मन्दॊ ऽनवबुध्यत ॥ 1 ॥
अवधूयॊत्थितः करुद्धॊ रॊषात संरक्तलॊचनः अन्वद्रवन्त तं पश्चाद राजानस तयक्तजीविताः ॥ 2 ॥
अज्ञापयच च राज्ञस तान पार्थिवन दुष्टचेतसः परयाध्वं वै कुरुक्षेत्रं पुष्यॊ ऽदयेति पुनः पुनः ॥ 3 ॥
ततस ते पृथिवीपालाः परययुः सह सैनिकाः भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचॊदिताः ॥ 4 ॥
अक्षौहिण्यॊ दशैका च पार्थिवानां समागताः तासां परमुखतॊ भीष्मस तालकेतुर वयरॊचत यद अत्र युक्तं पराप्तं च तद विधत्स्व विशां पते ॥ 5 ॥
उक्तं भीष्मेण यद वाक्यं दरॊणेन विदुरेण च गान्धार्या धृतराष्ट्रेण समक्षं मम भारत एतत ते कथितं राजन यद्वृत्तं कुरुसंसदि ॥ 6 ॥
साम दादौ परयुक्तं मे राजन सौभ्रात्रम इच्छता अभेदात कुरुवंशस्य परजानां च विवृद्धये ॥ 7 ॥
पुनर भेदश च मे युक्तॊ यदा साम न गृह्यते कर्मानुकीर्तनं चैव देव मानुषसंहितम ॥ 8 ॥
यदा नाद्रियते वाक्यं सामपूर्वं सुयॊधनः तदा मया समानीय भेदिताः सर्वपार्थिवाः ॥ 9 ॥
अद्भुतानि च घॊराणि दारुणानि च भारत अमानुषाणि कर्माणि दर्शितानि च मे विभॊ ॥ 10 ॥
भर्त्सयित्वा तु राज्ञस तांस तृणी कृत्यसुयॊधनम राध्येयं भीषयित्वा च सौबलं च पुनः पुनः ॥ 11 ॥
नयूनतां धार्तराष्ट्राणां निन्दां चैव पुनः पुनः भेदयित्वा नृपान सर्वान वाग्भिर मन्त्रेण चासकृत ॥ 12 ॥
पुनः सामाभिसंयुक्तं संप्रदानम अथाब्रुवम अभेदात कुरुवंशस्य कार्ययॊगात तथैव च ॥ 13 ॥
ते बाला धृतराष्ट्रस्य भीष्मस्य विदुरस्य च तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानम अधश चराः ॥ 14 ॥
परयच्छन्तु च ते राज्यम अनीशास ते भवन्तु च यथाह राजा गाङ्गेयॊ विदुरश च तथास्तु तत ॥ 15 ॥
सर्वं भवतु ते राज्यं पञ्च गरामान विसर्जय अवश्यं भरणीया हि पितुस ते राजसत्तम ॥ 16 ॥
एवम उक्तस तु दुष्टात्मा नैव भावं वयमुञ्चत दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा ॥ 17 ॥
निर्याताश च विनाशाय कुरुक्षेत्रं नराधिपाः एतत ते कथितं सर्वं यद्वृत्तं कुरुसंसदि ॥ 18 ॥
न ते राज्यं परयच्छन्ति विना युद्धेन पाण्डव विनाशहेतवः सर्वे परत्युपस्थित मृत्यवः ॥ 19 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 148
Reach this point to mark the section finished.
Continue to अध्याय 149