धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 147

  1. [वासु] एवम उक्ते तु गान्धार्या धृतराष्ट्रॊ जनेश्वरः दुर्यॊधनम उवाचेदं नृपमध्ये जनाधिप ॥ 1 ॥

  2. दुर्यॊधन निबॊधेदं यद वां वक्ष्यामि पुत्रक तथा तत कुरु भद्रं ते यद्य अस्ति पितृगौरवम ॥ 2 ॥

  3. सॊमः परजापतिः पूर्वं कुरूणां वंशवर्धनः सॊमाद बभूव षष्ठॊ वै ययातिर नहुषात्मजः ॥ 3 ॥

  4. तस्य पुत्रा बभूवुश च पञ्च राजर्षिसत्तमाः तेषां यदुर महातेजा जयेष्ठः समभवत परभुः ॥ 4 ॥

  5. पूरुर यवीयांश च ततॊ यॊ ऽसमाकं वंशवर्धनः शर्मिष्ठायाः संप्रसूतॊ दुहितुर वृषपर्वणः ॥ 5 ॥

  6. यदुश च भरतश्रेष्ठ देव यान्याः सुतॊ ऽभवत दौहित्रस तात शुक्रस्य काव्यस्यामित तेजसः ॥ 6 ॥

  7. यादवानां कुलकरॊ बलवान वीर्यसंमतः अवमेने स तु कषत्रं दर्पपूर्णः सुमन्दधीः ॥ 7 ॥

  8. न चातिष्ठत पितुः शास्त्रे बलदर्प विमॊहितः अवमेने च पितरं भरातॄंश चाप्य अपराजितः ॥ 8 ॥

  9. पृथिव्यां चतुरन्तायां यदुर एवाभवद बली वशे कृत्वा स नृपतीन अवसन नागसाह्वये ॥ 9 ॥

  10. तं पिता परमक्रुद्धॊ ययातिर नहुषात्मजः शशाप पुत्रं गान्धारे राज्या च वयपरॊपयत ॥ 10 ॥

  11. य चैनम अन्ववर्तन्त भरातरॊ बलदर्पितम शशाप तान अपि करुद्धॊ ययातिस तनयान अथ ॥ 11 ॥

  12. यवीयांसं ततः पूरुं पुत्रं सववशवर्तिनम राज्ये निवेशयाम आस विधेयं नृपसत्तमः ॥ 12 ॥

  13. एवं जयेष्ठॊ ऽपय अथॊत्सिक्तॊ न राज्यम अभिजायते यवीयांसॊ ऽभिजायन्ते राज्यं वृद्धॊपसेवया ॥ 13 ॥

  14. तथैव सर्वधर्मज्ञः पितुर मम पितामहः परतीपः पृथिवीपालस तरिषु लॊकेषु विश्रुतः ॥ 14 ॥

  15. तस्य पार्थिव सिंहस्य राज्यं धर्मेण शासतः तरयः परजज्ञिरे पुत्रा देवकल्पा यशस्विनः ॥ 15 ॥

  16. देवापिर अभवज जयेष्ठॊ बाह्लीकस तदनन्तरम तृतीयः शंतनुस तात धृतिमान मे पितामहः ॥ 16 ॥

  17. देवापिस तु महातेजास तवग दॊषी राजसत्तमः धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः ॥ 17 ॥

  18. पौरजानपदानां च संमतः साधु सत्कृतः सर्वेषां बालवृद्धानां देवापिर हृदयंगमः ॥ 18 ॥

  19. पराज्ञश च सत्यसंधश च सर्वभूतहिते रतः वर्तमानः पितुः शास्त्रे बराह्मणानां तथैव च ॥ 19 ॥

  20. बाह्लीकस्य परियॊ भराता शंतनॊश च महात्मनः सौभ्रात्रं च परं तेषां सहितानां महात्मनाम ॥ 20 ॥

  21. अथ कालस्य पर्याये वृद्धॊ नृपतिसत्तमः संभारान अभिषेकार्थं कारयाम आस शास्त्रतः मङ्गलानि च सर्वाणि कारयाम आस चाभिभूः ॥ 21 ॥

  22. तं बराह्मणाश च वृद्धाश च पौरजानपदैः सह सर्वे निवारयाम आसुर देवापेर अभिषेचनम ॥ 22 ॥

  23. स तच छरुत्वा तु नृपतिर अभिषेकनिवारणम अश्रुकण्ठॊ ऽभवद राजा पर्यशॊचत चात्मजम ॥ 23 ॥

  24. एवं वदान्यॊ धर्मज्ञः सत्यसंधश च सॊ ऽभवत परियः परजानाम अपि संस तवग दॊषेण परदूषितः ॥ 24 ॥

  25. हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः इति कृत्वा नृपश्रेष्ठं परत्यषेधन दविजर्षभाः ॥ 25 ॥

  26. ततः परव्यथितात्मासौ पुत्रशॊकसमन्वितः ममार तं मृतं दृट्वा देवापिः संश्रितॊ वनम ॥ 26 ॥

  27. बाह्लीकॊ मातुलकुले तयक्त्वा राज्यं वयवस्थितः पितृभ्रातॄन परित्यज्य पराप्तवान पुरम ऋद्धिमत ॥ 27 ॥

  28. बाह्लीकेन तव अनुज्ञातः शंतनुर लॊकविश्रुतः पितर्य उपरते राजन राजा राज्यम अकारयत ॥ 28 ॥

  29. तथैवाहं मतिमता परिचिन्त्येह पाण्डुना जयेष्ठः परभ्रंशितॊ राज्याद धीनाङ्ग इति भारत ॥ 29 ॥

  30. पाण्डुस तु राज्यं संप्राप्तः कनीयान अपि सन नृपः विनाशे तस्य पुत्राणाम इदं राज्यम अरिंदम मय्य अभागिनि राज्याय कथं तवं राज्यम इच्छसि ॥ 30 ॥

  31. युधिष्ठिरॊ राजपुत्रॊ महात्मा; नयायागतं राज्यम इदं च तस्य स कौरवस्यास्य जनस्य भर्ता; परशासिता चैव महानुभावः ॥ 31 ॥

  32. स सत्यसंधः सतताप्रमत्तः; शास्त्रे सथितॊ बन्धुजनस्य साधुः परियः परजानां सुहृद अनुकम्पी; जितेन्द्रियः साधु जनस्य भर्ता ॥ 32 ॥

  33. कषमा तितिक्षा दम आर्जवं च; सत्यव्रतत्वं शरुतम अप्रमादः भूतानुकम्पा हय अनुशासनं च; युधिष्ठिरे राजगुणाः समस्ताः ॥ 33 ॥

  34. अराज पुत्रस तवम अनार्य वृत्तॊ; लुब्धस तथा बन्धुषु पापबुद्धिः करमागतं राज्यम इदं परेषां; हर्तुं कथं शक्ष्यसि दुर्विनीतः ॥ 34 ॥

  35. परयच्छ राज्यार्थम अपेतमॊहः; सवाहनं तवं सपरिच्छदं च ततॊ ऽवशेषं तव जीवितस्य; सहानुजस्यैव भवेन नरेन्द्र ॥ 35 ॥

Reach this point to mark the section finished.

Continue to अध्याय 148

Previous: अध्याय 146