[वासु] भीष्मेणॊक्ते ततॊ दरॊणॊ दुर्यॊधनम अभाषत मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः ॥ 1 ॥
पातीपः शंतनुस तात कुरस्यार्थे यथॊत्थितः तथा देवव्रतॊ भीष्मः कुलस्यार्थे सथितॊ ऽभवत ॥ 2 ॥
ततः पाण्डुर नरपतिः सत्यसंधॊ जितेन्द्रियः राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहितः ॥ 3 ॥
जयेष्ठाय राज्यम अददाद धृतराष्ट्राय धीमते यवीयसस तथा कषत्तुः कुरुवंशविवर्धनः ॥ 4 ॥
ततः सिंहासने राजन सथापयित्वैनम अच्युतम वनं जगाम कौरव्यॊ भार्याभ्यां सहितॊ ऽनघ ॥ 5 ॥
नीचैः सथित्वा तु विदुर उपास्ते सम विनीतवत परेष्यवत पुरुषव्याघ्रॊ वालव्यजनम उत्क्षिपन ॥ 6 ॥
ततः सर्वाः परजास तात धृतराष्ट्रं जनेश्वरम अन्वपद्यन्त विधिवद यथा पाण्डुं नराधिपम ॥ 7 ॥
विसृज्य धृतराष्ट्राय राज्यं स विदुराय च चचार पृथिवीं पाण्डुः सर्वां परपुरंजयः ॥ 8 ॥
कॊशसंजनने दाने भृत्यानां चान्ववेक्षणे भरणे चैव सर्वस्य विदुरः सत्यसंगरः ॥ 9 ॥
संधिविघ्रह संयुक्तॊ राज्ञः संवाहन करियाः अवैक्षत महातेजा भीष्मः परपुरंजयः ॥ 10 ॥
सिंहासनस्थॊ नृपतिर धृतराष्ट्रॊ महाबलः अन्वास्यमानः सततं विदुरेण महात्मना ॥ 11 ॥
कथं तस्य कुले जातः कुलभेदं वयवस्यसि संभूय भरातृभिः सार्धं भुङ्क्ष्व भॊगाञ जनाधिप ॥ 12 ॥
बरवीम्य अहं न कार्पण्यान नार्थहेतॊः कथं चन भीष्मेण दत्तम अश्नामि न तवया राजसत्तम ॥ 13 ॥
नाहं तवत्तॊ ऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप यतॊ भीष्मस ततॊ दरॊणॊ यद भीष्मस तव आह तत कुरु ॥ 14 ॥
दीयतां पाण्डुपुत्रेभ्यॊ राज्यार्धम अरिकर्शन समम आचार्यकं तात तव तेषां च मे सदा ॥ 15 ॥
अश्वथामा यथा मह्यं तथा शवेतहयॊ मम बहुना किं परलापेन यतॊ धर्मस ततॊ जयः ॥ 16 ॥
एवम उक्ते महाराज दरॊणेनामिततेजसा वयाजहार ततॊ वाक्यं विदुरः सत्यसंगरः पितुर वदनम अन्वीक्ष्य परिवृत्य च धर्मवित ॥ 17 ॥
देवव्रत निबॊधेदं वचनं मम भाषतः परनष्टः कौरवॊ वंशस तवयायं पुनर उद्धृतः ॥ 18 ॥
तन मे विलपमानस्य वचनं समुपेक्षसे कॊ ऽयं दुर्यॊधनॊ नाम कुले ऽसमिन कुलपांसनः ॥ 19 ॥
यस्य लॊभाभिभूतस्य मतिं समनुवर्तसे अनार्यस्याकृतज्ञस्य लॊभॊपहतचेतसः अतिक्रामति यः शास्त्रं पितुर धर्मार्थदर्शिनः ॥ 20 ॥
एते नश्यन्ति कुरवॊ दुर्यॊधनकृतेन वै यथा ते न परणश्येयुर महाराज तथा कुरु ॥ 21 ॥
मां चैव धृतराष्ट्रं च पूर्वम एव महाद्युते चित्रकार इवालेख्यं कृत्वा मा सम विनाशय परजापतिः परजाः सृष्ट्वा यथा संहरते तथा ॥ 22 ॥
नॊपेक्षस्व महाबाहॊ पश्यमानः कुलक्षयम अथ ते ऽदय मतिर नष्टा विनाशे परत्युपस्थिते वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह ॥ 23 ॥
बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम साध्व इदं राज्यम अद्यास्तु पाण्डवैर अभिरक्षितम ॥ 24 ॥
परसीद राजशार्दूल विनाशॊ दृश्यते महान पाण्डवानां कुरूणां च राज्ञां चामिततेजसाम ॥ 25 ॥
विररामैवम उक्त्वा तु विदुरॊ दीनमानसः परध्यायमानः स तदा निःश्वसंश च पुनः पुनः ॥ 26 ॥
ततॊ ऽथ राज्ञः सुबलस्य पुत्री; धर्मार्थयुक्तं कुलनाश भीता दुर्यॊधनं पापमतिं नृशंसं; राज्ञां समक्षं सुतम आह कॊपात ॥ 27 ॥
ये पार्थिवा राजसभां परविष्टा; बरह्मर्षयॊ ये च सभासदॊ ऽनये शृण्वन्तु वक्ष्यामि तवापराधं; पापस्य सामात्यपरिच्छदस्य ॥ 28 ॥
राज्यं कुरूणाम अनुपूर्व भॊग्यं; करमागतॊ नः कुलधर्म एषः तवं पापबुद्धे ऽतिनृशंस कर्मन; राज्यं कुरूणाम अनयाद विहंसि ॥ 29 ॥
राज्ये सथितॊ धृतराष्ट्रॊ मनीषी; तस्यानुगॊ विदुरॊ दीर्घदर्शी एताव अतिक्रम्य कथं नृपत्वं; दुर्यॊधन परार्थयसे ऽदय मॊहात ॥ 30 ॥
राजा च कषत्ता च महानुभावौ; भीष्मे सथिते परवन्तौ भवेताम अयं तु धर्मज्ञतया महात्मा; न राज्यकामॊ नृपरॊ नदीजः ॥ 31 ॥
राज्यं तु पाण्डॊर इदम अप्रधृष्यं; तस्याद्य पुत्राः परभवन्ति नान्ये राज्यं तद एतन निखिलं पाण्डवानां; पैतामहं पुत्रपौत्रानुगामि ॥ 32 ॥
यद वै बरूते कुरुमुख्यॊ महात्मा; देवव्रतः सत्यसंधॊ मनीषी सर्वं तद अस्माभिर अहत्य धर्मं; गराह्यं सवधर्मं परिपालयद्भिः ॥ 33 ॥
अनुज्ञया चाथ महाव्रतस्य; बरूयान नृपॊ यद विदुरस तथैव कार्यं भवेत तत सुहृद्भिर नियुज्य; धर्मं पुरस्कृत्य सुदीर्घ कालम ॥ 34 ॥
नयायागतं राज्यम इदं कुरूणां; युधिष्ठिरः शास्तु वै धर्मपुत्रः परचॊदितॊ धृतराष्ट्रेण राज्ञा; पुरस्कृतः शांतनवेन चैव ॥ 35 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 146
Reach this point to mark the section finished.
Continue to अध्याय 147