[व] आगम्य हास्तिनपुराद उपप्लव्यम अरिंदमः पाण्डवानां यथावृत्तं केशवः सर्वम उक्तवान ॥ 1 ॥
संभाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः सवम एवावसथं शौरिर विश्रामार्थं जगाम ह ॥ 2 ॥
विसृज्य सर्वान नृपतीन विराट परमुखांस तदा पाण्डवा भरातरः पञ्च भानाव अस्तं गते सति ॥ 3 ॥
संध्याम उपास्य धयायन्तस तम एव गतमानसाः आनाय्य कृष्णं दाशार्हं पुनर मन्त्रम अमन्त्रयन ॥ 4 ॥
तवया नागपुरं गत्वा सभायां धृतराष्ट्रजः किम उक्तः पुण्डरीकाक्ष तन नः शंसितुम अर्हसि ॥ 5 ॥
मया नागपुरं गत्वा सभायां धृतराष्ट्रजः तथ्यं पथ्यं हितं चॊक्तॊ न च गृह्णाति दुर्मतिः ॥ 6 ॥
तस्मिन्न उत्पथम आपन्ने कुरुवृद्धः पितामहः किम उक्तवान हृषीकेश दुर्यॊधनम अमर्षणम आचार्यॊ वा महाबाहॊ भारद्वाजः किम अब्रवीत ॥ 7 ॥
पिता यवीयान अस्माकं कषत्ता धर्मभृतां वरः पुत्रशॊकाभिसंतप्तः किम आह धृतराष्ट्रजम ॥ 8 ॥
किं च सर्वे नृपतयः सभायां ये समासते उक्तवन्तॊ यथातत्त्वं तद बरूहि तवं जनार्दन ॥ 9 ॥
उक्तवान हि भवान सर्वं वचनं कुरुमुख्ययॊः कामलॊभाभिभूतस्य मन्दस्य पराज्ञमानिनः ॥ 10 ॥
अप्रियं हृदये मह्यं तन न तिष्ठति केशव तेषां वाक्यानि गॊविन्द शरॊतुम इच्छाम्य अहं विभॊ ॥ 11 ॥
यथा च नाभिपद्येत कालस तात तथा कुरु भवान हि नॊ गतिः कृष्ण भवान नाथॊ भवान गुरुः ॥ 12 ॥
शृणु राजन यथा वाक्यम उक्तॊ राजा सुयॊधनः मध्ये कुरूणां राजेन्द्र सभायां तन निबॊध मे ॥ 13 ॥
मया वै शराविते वाक्ये जहास धृतराष्ट्रजः अथ भीष्मः सुसंक्रुद्ध इदं वचनम अब्रवीत ॥ 14 ॥
दुर्यॊधन निबॊधेदं कुलार्थे यद बरवीमि ते तच छरुत्वा राजशार्दूल सवकुलस्य हितं कुरु ॥ 15 ॥
मम तात पिता राजञ शंतनुर लॊकविश्रुतः तस्याहम एक एवासं पुत्रः पुत्रवतां वरः ॥ 16 ॥
तस्य बुद्धिः समुत्पन्ना दवितीयः सयात कथं सुतः एकपुत्रम अपुत्रं वै परवदन्ति मनीषिणः ॥ 17 ॥
न चॊच्छेदं कुलं यायाद विस्तीर्येत कथं यशः तस्याहम ईप्सितं बुद्ध्वा कालीं मातरम आवहम ॥ 18 ॥
परतिज्ञां कुष्करां कृत्वा पितुर अर्थे कुलस्य च अराजा चॊर्ध्वरेताश च यथा सुविदितं तव परतीतॊ निवसाम्य एष परतिज्ञाम अनुपालयन ॥ 19 ॥
तस्यां जज्ञे महाबाहुः शरीमान कुरुकुलॊद्वहः विचित्रवीर्यॊ धर्मात्मा कनीयान मम पार्थिवः ॥ 20 ॥
सवर्याते ऽहं पितरि तं सवराज्ये संन्यवेशयम विचित्रवीर्यं राजानं भृत्यॊ भूत्वा हय अधश चरः ॥ 21 ॥
तस्याहं सदृशान दारान राजेन्द्र समुदावहम जित्वा पार्थिव संघातम अपि ते बहुशः शरुतम ॥ 22 ॥
ततॊ रामेण समरे दवन्द्वयुद्धम उपागमम स हि राम भयाद एभिर नागरैर विप्रवासितः दारेष्व अतिप्रसक्तश च यक्ष्माणं समपद्यत ॥ 23 ॥
यदा तव अराजके राष्ट्रे न ववर्ष सुरेश्वरः तदाभ्यधावन माम एव परजाः कषुद्भयपीडिताः ॥ 24 ॥
उपक्षीणाः परजाः सर्वा राजा भव भवाय नः ईतयॊ नुद भद्रं ते शंतनॊः कुलवर्धन ॥ 25 ॥
पीड्यन्ते ते परजाः सर्वा वयाधिभिर भृशदारुणैः अल्पावशिष्टा गाङ्गेय ताः परित्रातुम अर्हसि ॥ 26 ॥
वयाधीन परणुद्य वीर तवं परजा धर्मेण पालय तवयि जीवति मा राष्ट्रं विनाशम उपगच्छतु ॥ 27 ॥
परजानां करॊशतीनां वै नैवाक्षुभ्यत मे मनः परतिज्ञां रक्षमाणस्य सद्वृत्तं समरतस तथा ॥ 28 ॥
ततः पौरा महाराज माता काली च मे शुभा भृत्याः पुरॊहिताचार्या बराह्मणाश च बहुश्रुताः माम ऊचुर भृशसंतप्ता भव राजेति संततम ॥ 29 ॥
परतीप रक्षितं राष्ट्रं तवां पराप्य विनशिष्यति स तवम अस्मद्धितार्थं वै राजा भव महामते ॥ 30 ॥
इत्य उक्तः पराञ्जलिर भूत्वा दुःखितॊ भृशम आतुरः तेभ्यॊ नयवेदयं पुत्र परतिज्ञां पितृगौरवात ऊर्ध्वरेता हय अराजा च कुलस्यार्थे पुनः पुनः ॥ 31 ॥
ततॊ ऽहं पराञ्जलिर भूत्वा मातरं संप्रसादयम नाम्ब शंतनुना जातः कौरवं वंशम उद्वहन परतिज्ञां वितथां कुर्याम इति राजन पुनः पुनः ॥ 32 ॥
विशेषतस तवदर्थं च धुरि मा मां नियॊजय अहं परेष्यश च दासश च तवाम्ब सुत वत्सले ॥ 33 ॥
एवं ताम अनुनीयाहं मातरं जनम एव च अयाचं भरातृदारेषु तदा वयासं महामुनिम ॥ 34 ॥
सह मात्रा महाराज परसाद्य तम ऋषिं तदा अपत्यार्थम अयाचं वै परसादं कृतवांश च सः तरीन सपुत्रान अजनयत तदा भरतसत्तम ॥ 35 ॥
अन्धः करण हीनेति न वै राजा पिता तव राजा तु पाण्डुर अभवन महात्मा लॊकविश्रुतः ॥ 36 ॥
स राजा तस्य ते पुत्राः पितुर दायाद्य हारिणः मा तात कलहं कार्षी राज्यस्यार्धं परदीयताम ॥ 37 ॥
मयि जीवति राज्यं कः संप्रशासेत पुमान इह मावमंस्था वचॊ मह्यं शमम इच्छामि वः सदा ॥ 38 ॥
न विशेषॊ ऽसति मे पुत्र तवयि तेषु च पार्थिव मतम एतत पितुस तुभ्यं गान्धार्याविदुरस्य च ॥ 39 ॥
शरॊतव्यं यदि वृद्धानां मातिशङ्कीर वचॊ मम नाशयिष्यसि मा सर्वम आत्मानं पृथिवीं तथा ॥ 40 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 145
Reach this point to mark the section finished.
Continue to अध्याय 146