धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 144

  1. [व] ततः सूर्यान निश्चरितां कर्णः शुश्राव भारतीम दुरत्ययां परणयिनीं पितृवद भास्करेरिताम ॥ 1 ॥

  2. सत्यम आह पृथा वाक्यं कर्ण मातृवचः कुरु शरेयस ते सयान नरव्याघ्र सर्वम आचरतस तथा ॥ 2 ॥

  3. एवम उक्तस्य मात्रा च सवयं पित्रा च भानुना चचाल नैव कर्णस्य मतिः सत्यधृतेस तदा ॥ 3 ॥

  4. न ते न शरद्दधे वाक्यं कषत्रिये भाषितं तवया धर्मद्वारं ममैतत सयान नियॊग करणं तव ॥ 4 ॥

  5. अकरॊन मयि यत पापं भवती सुमहात्ययम अवकीर्णॊ ऽसमि ते तेन तद यशः कीर्तिनाशनम ॥ 5 ॥

  6. अहं च कषत्रियॊ जातॊ न पराप्तः कषत्रसत्क्रियाम तवत्कृते किं नु पापीयः शत्रुः कुर्यान ममाहितम ॥ 6 ॥

  7. करिया काले तव अनुक्रॊशम अकृत्वा तवम इमं मम हीनसंस्कार समयम अद्य मां समचूचुदः ॥ 7 ॥

  8. न वै मम हितं पूर्वं मातृवच चेष्टितं तवया सा मां संबॊधयस्य अद्य केवलात्म हितैषिणी ॥ 8 ॥

  9. कृष्णेन सहितात कॊ वै न वयथेत धनंजयात कॊ ऽदय भीतं न मां विद्यात पार्थानां समितिं गतम ॥ 9 ॥

  10. अभ्राता विदितः पूर्वं युद्धकाले परकाशितः पाण्डवान यदि गच्छामि किं मां कषत्रं वदिष्यति ॥ 10 ॥

  11. सर्वकामैः संविभक्तः पूजितश च सदा भृशम अहं वै धार्तराष्ट्राणां कुर्यां तद अफलं कथम ॥ 11 ॥

  12. उपनह्य परैर वैरं ये मां नित्यम उपासते नमस्कुर्वन्ति च सदा वसवॊ वासवं यथा ॥ 12 ॥

  13. मम पराणेन ये शत्रूञ शक्ताः परतिसमासितुम मन्यन्ते ऽदय कथं तेषाम अहं भिन्द्यां मनॊरथम ॥ 13 ॥

  14. मया पलवेन संग्रामं तितीर्षन्ति दुरत्ययम अपारे पारकामा ये तयजेयं तान अहं कथम ॥ 14 ॥

  15. अयं हि कालः संप्राप्तॊ धार्तराष्ट्रॊपजीविनाम निर्वेष्टव्यं मया तत्र पराणान अपरिरक्षता ॥ 15 ॥

  16. कृतार्थाः सुभृता ये हि कृत्यकाल उपस्थिते अनवेक्ष्य कृतं पापा विकुर्वन्त्य अनवस्थिताः ॥ 16 ॥

  17. राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम नैवायं न परॊ लॊकॊ विद्यते पापकर्मणाम ॥ 17 ॥

  18. धृतराष्ट्रस्य पुत्राणाम अर्थे यॊत्स्यामि ते सुतैः बलं च शक्तिं चास्थाय न वै तवय्य अनृतं वदे ॥ 18 ॥

  19. आनृशंस्यम अथॊ वृत्तं रक्षन सत्पुरुषॊचितम अतॊ ऽरथकरम अप्य एतन न करॊम्य अद्य ते वचः ॥ 19 ॥

  20. न तु ते ऽयं समारम्भॊ मयि मॊघॊ भविष्यति वध्यान विषह्यान संग्रामे न हनिष्यामि ते सुतान युधिष्ठिरं च भीमं च यमौ चैवार्जुनाद ऋते ॥ 20 ॥

  21. अर्जुनेन समं युद्धं मम यौधिष्ठिरे बले अर्जुनं हि निहन्त्य आजौ संप्राप्तं सयात फलं मया यशसा चापि युज्येयं निहतः सव्यसाचिना ॥ 21 ॥

  22. न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि निरर्जुनाः सकर्णा वा सार्जुना व हते मयि ॥ 22 ॥

  23. इति कर्णवचः शरुत्वा कुन्ती दुःखात परवेपती उवाच पुत्रम आश्लिष्य कर्णं धैर्याद अकम्पितम ॥ 23 ॥

  24. एवं वै भाव्यम एतेन कषयं यास्यन्ति कौरवः यथा तवं भाषसे कर्ण दैवं तु बलवत्तरम ॥ 24 ॥

  25. तवया चतुर्णां भरातॄणाम अभयं शत्रुकर्शन दत्तं तत परतिजानीहि संगर परतिमॊचनम ॥ 25 ॥

  26. अनामयं सवस्ति चेति पृथाथॊ कर्णम अब्रवी तां कर्णॊ ऽभयवदत परीतस ततस तौ जग्मतुः पृथक ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 145

Previous: अध्याय 143