[कर्ण] राधेयॊ ऽहम आधिरथिः कर्णस तवाम अभिवादये पराप्ता किमर्थं बवती बरूहि किं करवाणि ते ॥ 1 ॥
कौन्तेयस तवं न राधेयॊ न तवाधिरथः पिता नासि सूत कुले जातः कर्ण तद विद्धि मे वचः ॥ 2 ॥
कानीनस तवं मया जातः पूर्वजः कुक्षिणा धृतः कुन्तिभॊजस्य भवने पार्थस तवम असि पुत्रक ॥ 3 ॥
परकाशकर्मा तपनॊ यॊ ऽयं देवॊ विरॊचनः अजीजनत तवां मय्य एष कर्ण शस्त्रभृतां वरम ॥ 4 ॥
कुण्डली बद्धकवचॊ देवगर्भः शरिया वृतः जातस तवम असि दुर्धर्ष मया पुत्र पितुर गृहे ॥ 5 ॥
स तवं भरातॄन असंबुद्ध्वा मॊहाद यद उपसेवसे धार्तराष्ट्रान न तद युक्तं तवयि पुत्र विशेषतः ॥ 6 ॥
एवद धर्मफलं पुत्र नराणां धर्मनिश्चये यत तुष्यन्त्य अस्य पितरॊ माता चाप्य एकदर्शिनी ॥ 7 ॥
अर्जुनेनार्जितां पूर्वं हृतां लॊभाद असाधुभिः आच्छिद्य धार्तराष्ट्रेभ्यॊ भुङ्क्ष्व यौधिष्ठिरीं शरियम ॥ 8 ॥
अद्य पश्यन्तु कुरवः कर्णार्जुन समागमम सौभ्रात्रेण तद आलक्ष्य संनमन्ताम असाधवः ॥ 9 ॥
कर्णार्जुनौ वै भवतां यथा राम जनार्दनौ असाध्यं कुं नु लॊके सयाद युवयॊः सहितात्मनॊः ॥ 10 ॥
कर्ण शॊभिष्यसे नूनं पञ्चभिर भरातृभिर वृतः वेदैः परिवृतॊ बरह्मा यथा वेदाङ्गपञ्चमैः ॥ 11 ॥
उपपन्नॊ गुणैः शरेष्ठॊ जयेष्ठः शरेष्ठेषु बन्धुषु सूतपुत्रेति मा शब्दः पार्थस तवम असि वीर्यवान ॥ 12 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 143
Reach this point to mark the section finished.
Continue to अध्याय 144