धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 142

  1. [व] असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान गते अभिगम्य पृथां कषत्ता शनैः शॊचन्न इवाब्रवित ॥ 1 ॥

  2. जानासि मे जीवपुत्रे भावं नित्यम अनुग्रहे करॊशतॊ न च गृह्णीते वचनं मे सुयॊधनः ॥ 2 ॥

  3. उपपन्नॊ हय असौ राजा चेदिपाञ्चालकेकयैः भीमार्जुनाभ्यां कृष्णेन युयुधान यमैर अपि ॥ 3 ॥

  4. उपप्लव्ये निविष्टॊ ऽपि धर्मम एव युधिष्ठिरः काङ्क्षते जञातिसौहार्दाद बलवान दुर्बलॊ यथा ॥ 4 ॥

  5. राजा तु धृतराष्ट्रॊ ऽयं वयॊवृद्धॊ न शाम्यति मत्तः पुत्र मदेनैव विधर्मे पथि वर्तते ॥ 5 ॥

  6. जयद्रथस्य कर्णस्य तथा दुःशासनस्य च सौबलस्य च दुर्बुद्ध्या मिथॊ भेदः परवर्तते ॥ 6 ॥

  7. अधर्मेण हि धर्मिष्ठं हृतं वै राज्यम ईदृशम येषां तेषाम अयं धर्मः सानुबन्धॊ भविष्यति ॥ 7 ॥

  8. हरियमाणे बलाद धर्मे कुरुभिः कॊ न संज्वरेत असाम्ना केशवे याते समुद्यॊक्ष्यन्ति पाण्डवाः ॥ 8 ॥

  9. ततः कुरूणाम अनयॊ भविता वीर नाशनः चिन्तयन न लभे निद्राम अहःसु च निशासु च ॥ 9 ॥

  10. शरुत्वा तु कुन्ती तद वाक्यम अर्थकामेन भाषितम अनिष्टनन्ती दुःखार्ता मनसा विममर्श ह ॥ 10 ॥

  11. धिग अस्त्व अर्थं यत्कृते ऽयं महाञ जञातिवधे कषयः वर्त्स्यते सुहृदां हय एषां युद्धे ऽसमिन वै पराभवः ॥ 11 ॥

  12. पाण्डवाश चेदिपाञ्चाला यादवाश च समागताः भारतैर यदि यॊत्स्यन्ति किं नु दुःखम अतः परम ॥ 12 ॥

  13. पश्ये दॊषं धरुवं युद्धे तथा युद्धे पराभवम अधनस्य मृतं शरेयॊ न हि जञातिक्षये जयः ॥ 13 ॥

  14. पितामहः शांतनव आचार्यश च युधां पतिः कर्णश च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम ॥ 14 ॥

  15. नाचार्यः कामवाञ शिष्यैर दरॊणॊ युध्येत जातुचित पाण्डवेषु कथं हार्दं कुर्यान न च पितामहः ॥ 15 ॥

  16. अयं तव एकॊ वृथा दृष्टिर धार्तराष्ट्रस्य दुर्मतेः मॊहानुवर्ती सततं पापॊ दवेष्टि च पाण्डवान ॥ 16 ॥

  17. महत्य अनर्थे निर्बन्धी बलवांश च विशेषतः कर्णः सदा पाण्डवानां तन मे दहति सांप्रतम ॥ 17 ॥

  18. आशंसे तव अद्य कर्णस्य मनॊ ऽहं पाण्डवान परति परसादयितुम आसाद्य दर्शयन्ती यथातथम ॥ 18 ॥

  19. तॊषितॊ भवगान यत्र दुर्वासा मे वरं ददौ आह्वानं देव संयुक्तं वसन्त्याः पितृवेश्मनि ॥ 19 ॥

  20. साहम अन्तःपुरे राज्ञः कुन्तिभॊजपुरस्कृता चिन्तयन्ती बहुविधं हृदयेन विदूयता ॥ 20 ॥

  21. बलाबलं च मन्त्राणां बराह्मणस्य च वाग्बलम सत्रीभावाद बालभावाच च निन्तयन्ती पुनः पुनः ॥ 21 ॥

  22. धात्र्या विश्रब्धया गुप्ता सखीजनवृता तदा दॊषं परिहरन्ती च पितुश चारित्ररक्षिणी ॥ 22 ॥

  23. कथं नु सुकृतं मे सयान नापराधवती कथम भवेयम इति संचिन्त्य बराह्मणं तं नमस्य च ॥ 23 ॥

  24. कौतूहलात तु तं लब्ध्वा बालिश्याद आचरं तदा कन्या सती देवम अर्कम आसादयम अहं ततः ॥ 24 ॥

  25. यॊ ऽसौ कानीन गर्भॊ मे पुत्रवत परिवर्तितः कस्मान न कुर्याद वचनं पथ्यं भरातृहितं तथा ॥ 25 ॥

  26. इति कुन्ती विनिश्चित्य कार्यं निश्चितम उत्तमम कार्यार्थम अभिनिर्याय ययौ भागीरथीं परति ॥ 26 ॥

  27. आत्मजस्य ततस तस्य घृणिनः सत्यसङ्गिनः गङ्गातीरे पृथाशृण्वद उपाध्ययन निस्वनम ॥ 27 ॥

  28. पराङ्मुखस्यॊर्ध्व बाहॊः सा पर्यतिष्ठत पृष्ठतः जप्यावसानं कार्यार्थं परतीक्षन्ती तपस्विनी ॥ 28 ॥

  29. अतिष्ठत सूर्यतापार्ता कर्णस्यॊत्तर वाससि कौरव्य पत्नी वार्ष्णेयी पद्ममालेव शुष्यती ॥ 29 ॥

  30. आ पृष्ठतापाज जप्त्वा स परिवृत्य यतव्रतः दृष्ट्वा कुन्तीम उपातिष्ठद अभिवाद्य कृताञ्जलिः यथान्यायं महातेजा मानी धर्मभृतां वरः ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 143

Previous: अध्याय 141