धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 141

  1. [स] केशवस्य तु तद वाक्यं कर्णः शरुत्वा हितं शुभम अब्रवीद अभिसंपूज्य कृष्णं मधु निषूदनम जानन मां हिं महाबाहॊ संमॊहयितुम इच्छसि ॥ 1 ॥

  2. यॊ ऽयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः निमित्तं तत्र शकुनिर अहं दुःशासनस तथा दुर्यॊधनश च नृपतिर धृतराष्ट्र सुतॊ ऽभवत ॥ 2 ॥

  3. असंशयम इदं कृष्ण महद युद्धम उपस्थितम पाण्डवानां कुरूणां च घॊरं रुधिरकर्दमम ॥ 3 ॥

  4. राजानॊ राजपुत्राश च दुर्यॊधन वशानुगाः रणे शस्त्राग्निना दग्धाः पराप्स्यन्ति यमसादनम ॥ 4 ॥

  5. सवप्ना हि बहवॊ घॊरा दृश्यन्ते मधुसूदन निमित्तानि च घॊराणि तथॊत्पाताः सुदारुणाः ॥ 5 ॥

  6. पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे शंसन्त इव वार्ष्णेय विविधा लॊमहर्षणाः ॥ 6 ॥

  7. पराजापत्यं हि नक्षत्रं गरहस तीक्ष्णॊ महाद्युतिः शनैश्चरः पीडयति पीडयन पराणिनॊ ऽधिकम ॥ 7 ॥

  8. कृत्वा चाङ्गारकॊ वक्रं जयेष्ठायां मधुसूदन अनुराधां परार्थयते मैत्रं संशमयन्न इव ॥ 8 ॥

  9. नूनं मह भयं कृष्ण कुरूणां समुपस्थितम विशेषेण हि वार्ष्णेय चित्रां पीडयते गरहः ॥ 9 ॥

  10. सॊमस्य लक्ष्म वयावृत्तं राहुर अर्कम उपेष्यति दिवश चॊल्काः पतन्त्य एताः सनिर्घाताः सकम्पनाः ॥ 10 ॥

  11. निष्टनन्ति च मातङ्गा मुञ्चन्त्य अस्रूणि वाजिनः पानीयं यवसं चापि नाभिनन्दन्ति माधव ॥ 11 ॥

  12. परादुर्भूतेषु चैतेषु भयम आहुर उपस्थितम निमित्तेषु महाबाहॊ दारुणं पराणिनाशनम ॥ 12 ॥

  13. अल्पे भुक्ते पुरीषं च परभूतम इह दृश्यते वाजिनां वारणानां च मनुष्याणां च केशव ॥ 13 ॥

  14. धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन पराभवस्य तल लिङ्गम इति पराहुर मनीषिणः ॥ 14 ॥

  15. परहृष्टं वाहनं कृष्ण पाण्डवानां परचक्षते परदक्षिणा मृगाश चैव तत तेषां जयलक्षणम ॥ 15 ॥

  16. अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव वाचश चाप्य अशरीरिण्यस तत्पराभव लक्षणम ॥ 16 ॥

  17. मयूराः पुष्पशकुना हंसाः सारसचातकाः जीवं जीवक संघाश चाप्य अनुगच्छन्ति पाण्डवान ॥ 17 ॥

  18. गृध्राः काका बडाः शयेना यातुधानाः शला वृकाः मक्षिकाणां च संघाता अनुगच्छन्ति कौरवान ॥ 18 ॥

  19. धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निस्वनः अनाहताः पाण्डवानां नदन्ति पटहाः किल ॥ 19 ॥

  20. उदपानाश च नर्दन्ति यथा गॊवृषभास तथा धार्तराष्ट्रस्य सैन्येषु तत्पराभव लक्षणम ॥ 20 ॥

  21. मांसशॊणितवर्षं च वृष्टं देवेन माधव तथा गन्धर्वनगरं भानुमन्तम उपस्थितम सप्राकारं सपरिखं सवप्रं चारुतॊरणम ॥ 21 ॥

  22. कृष्णश च परिघस तत्र भानुम आवृत्य तिष्ठति उदयास्तमये संध्ये वेदयानॊ महद भयम एका सृग वाशते घॊरं तत्पराभव लक्षणम ॥ 22 ॥

  23. कृष्ण गरीवाश च शकुना कम्बमाना भयानकाः संध्याम अभिमुखा यान्ति तत्पराभव लक्षणम ॥ 23 ॥

  24. बराह्मणान परथमं दवेष्टि गुरूंश च मधुसूदन भृत्यान भक्तिमतश चापि तत्पराभव लक्षणम ॥ 24 ॥

  25. पूर्वा दिग लॊहिताकारा शस्त्रवर्णा च दक्षिणा आमपात्रप्रतीकाशा पश्चिमा मधुसूदन ॥ 25 ॥

  26. परदीप्ताश च दिशः सर्वा धार्तराष्ट्रस्य माधव महद भयं वेदयन्ति तस्मिन्न उत्पातलक्षणे ॥ 26 ॥

  27. सहस्रपादं परासादं सवप्नान्ते सम युधिष्ठिरः अधिरॊहन मया दृष्टः सह भरातृभिर अच्युत ॥ 27 ॥

  28. शवेतॊष्णीषाश च दृश्यन्ते सर्वे ते शुक्लवाससः आसनानि च शुभ्राणि सर्वेषाम उपलक्षये ॥ 28 ॥

  29. तव चापि मया कृष्ण सवप्नान्ते रुधिराविला आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन ॥ 29 ॥

  30. अस्थि संचयम आरूढश चामितौजा युधिष्ठिरः सुवर्णपात्र्यां संहृष्टॊ भुक्तवान घृतपायसम ॥ 30 ॥

  31. युधिष्ठिरॊ मया दृष्टॊ गरसमानॊ वसुंधराम तवया दत्ताम इमां वयक्तं भॊक्ष्यते स वसुंधराम ॥ 31 ॥

  32. उच्चं पर्वतम आरूढॊ भीमकर्मा वृकॊदरः गदापाणिर नरव्याघ्रॊ वीक्षन्न इव महीम इमाम ॥ 32 ॥

  33. कषपयिष्यति नः सर्वान स सुव्यक्तं महारणे विदितं मे हृषीकेश यतॊ धर्मस ततॊ जयः ॥ 33 ॥

  34. पाण्डुरं गमम आरूढॊ गाण्डीवी सधनंजयः तवया सार्धं हृषीकेश शरिया परमया जवलन ॥ 34 ॥

  35. यूयं सर्वान वधिष्यध्वं तत्र मे नास्ति संशयः पार्थिवान समरे कृष्ण दुर्यॊधन पुरॊगमान ॥ 35 ॥

  36. नकुलः सहदेवश च सात्यकिश च महारथः शुद्धकेयूर कण्ठत्राः शुक्लमाल्याम्बरावृताः ॥ 36 ॥

  37. अधिरूढा नरव्याघ्रा नरवाहनम उत्तमम तरय एते महामात्राः पाण्डुरच छत्रवाससः ॥ 37 ॥

  38. शवेतॊष्णीषाश च दृश्यन्ते तरय एव जनार्दन धार्तराष्ट्रस्य सैन्येषु तान्विजानीहि केशव ॥ 38 ॥

  39. अश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः रक्तॊष्णीषाश च दृश्यन्ते सर्वे माधव पार्थिवाः ॥ 39 ॥

  40. उष्ट्रयुक्तं समारूढौ भीष्मद्रॊणौ जनार्दन मया सार्धं महाबाहॊ धार्तराष्ट्रेण चाभिभॊ ॥ 40 ॥

  41. अगस्त्यशास्तां च दिशं परयाताः सम जनार्दन अचिरेणैव कालेन पराप्स्यामॊ यमसादनम ॥ 41 ॥

  42. अहं चान्ये च राजानॊ यच च तत कषत्रमण्डलम गाण्डीवाग्निं परवेक्ष्याम इति मे नास्ति संशयः ॥ 42 ॥

  43. उपस्थित विनाशेयं नूनम अद्य वसुंधरा तथा हि मे वचः कर्ण नॊपैति हृदयं तव ॥ 43 ॥

  44. सर्वेषां तात भूतानां विनाशे समुपस्थिते अनयॊ नयसंकाशॊ हृदयान नापसर्पति ॥ 44 ॥

  45. अपि तवा कृष्ण पश्याम जीवन्तॊ ऽसमान महारणात समुत्तीर्णा महाबाहॊ वीर कषयविनाशनात ॥ 45 ॥

  46. अथ वा संगमः कृष्ण सवर्गे नॊ भविता धरुवम तत्रेदानीं समेष्यामः पुनः सार्धं तवयानघ ॥ 46 ॥

  47. इत्य उक्त्वा माधवं कर्णः परिष्वज्य च पीडितम विसर्जितः केशवेन रथॊपस्थाद अवातरत ॥ 47 ॥

  48. ततः सवरथम आस्थाय जाम्बूनदविभूषितम सहास्माभिर निववृते राध्येयॊ दीनमानसः ॥ 48 ॥

  49. ततः शीघ्रतरं परायात केशवः सह सात्यकिः पुनर उच्चारयन वाणीं याहि याहीति सारथिम ॥ 49 ॥

Reach this point to mark the section finished.

Continue to अध्याय 142

Previous: अध्याय 140