[सम्जय] कर्णस्य वचनं शरुत्वा केशवः परवीरहा उवाच परहसन वाक्यं समितपूर्वम इदं तदा ॥ 1 ॥
अपि तवां न तपेत कर्ण राज्यलाभॊपपादना मया दत्तां हि पृथिवीं न परशासितुम इच्छसि ॥ 2 ॥
धरुवॊ जयः पाण्डवानाम इतीदं; न संशयः कश चन विद्यते ऽतर जय धवजॊ दृश्यते पाण्डवस्य; समुच्छ्रितॊ वानरराज उग्रः ॥ 3 ॥
दिव्या मायाविहिता भौवनेन; समुच्छ्रिता इन्द्रकेतुप्रकाशा दिव्यानि भूतानि भयावहानि; दृश्यन्ति चैवात्र भयानकानि ॥ 4 ॥
न सज्जते शैलवनस्पतिभ्य; ऊर्ध्वं तिर्यग यॊजनमात्ररूपः शरीमान धवजः कर्ण धनंजयस्य; समुच्छ्रितः पावकतुल्यरूपः ॥ 5 ॥
यदा दरक्ष्यसि संग्रामे शवेताश्वं कृष्णसारथिम ऐन्द्रम अस्त्रं विकुर्वाणम उभे चैवाग्निमारुते ॥ 6 ॥
गाण्डीवस्य च निर्घॊषं विस्फूर्जितम इवाशनेः न तदा भविता तरेता न कृतं दवापरं न च ॥ 7 ॥
यदा दरक्ष्यसि संग्रामे कुन्तीपुत्रं युधिष्ठिरम जपहॊमसमायुक्तं सवां रक्षन्तं महाचमूम ॥ 8 ॥
आदित्यम इव दुर्धर्षं तपन्तं शत्रुवाहिनीम न तदा भविता तरेता न कृतं दवापरं न च ॥ 9 ॥
यदा दरक्ष्यसि संग्रामे भीमसेनं महाबलम दुःशासनस्य रुधिरं पीत्वा नृत्यन्तम आहवे ॥ 10 ॥
परभिन्नम इव मातङ्गं परतिद्विरदघातिनम न तदा भविता तरेता न कृतं दवापरं न च ॥ 11 ॥
यदा दरक्ष्यसि संग्रामे माद्रीपुत्रौ महारथौ वाहिनीं धार्तराष्ट्राणां कषॊभयन्तौ गजाव इव ॥ 12 ॥
विगाढे शस्त्रसंपाते परवीर रथा रुजौ न तदा भविता तरेता न कृतं दवापरं न च ॥ 13 ॥
यदा दरक्ष्यसि संग्रामे दरॊणं शांतनवं कृपम सुयॊधनं च राजानं सैन्धवं च जयद्रथम ॥ 14 ॥
युद्धायापततस तूर्णं वारितान सव्यसाचिना न तदा भविता तरेता न कृतं दवापरं न च ॥ 15 ॥
बरूयाः कर्ण इतॊ गत्वा दरॊणं शांतनवं कृपम सौम्यॊ ऽयं वर्तते मासः सुप्राप यवसेन्धनः ॥ 16 ॥
पक्वौषधि वनस्फीतः फलवान अल्पमक्षिकः निष्पङ्कॊ रसवत तॊयॊ नात्युष्ण शिशिरः सुखः ॥ 17 ॥
सप्तमाच चापि दिवसाद अमावास्या भविष्यति संग्रामं यॊजयेत तत्र तां हय आहुः शक्र देवताम ॥ 18 ॥
तथा राज्ञॊ वदेः सर्वान ये युद्धायाभ्युपागताः यद वॊ मनीषितं तद वै सर्वं संपादयामि वः ॥ 19 ॥
राजानॊ राजपुत्राश च दुर्यॊधन वशानुगाः पराप्य शस्त्रेण निधनं पराप्स्यन्ति गतिम उत्तमाम ॥ 20 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 140
Reach this point to mark the section finished.
Continue to अध्याय 141