[कर्ण] असंशयं सौहृदान मे परणयाच चात्थ केशव सख्येन चैव वार्ष्णेय शरेयस्कामतया एव च ॥ 1 ॥
सर्वं चैवाभिजानामि पाण्डॊः पुत्रॊ ऽसमि धर्मतः निग्रहाद धर्मशास्त्राणां यथा तवं कृष्ण मन्यसे ॥ 2 ॥
कन्या गर्भं समाधत्त भास्करान मां जनार्दन आदित्यवचनाच चैव जातं मां सा वयसर्जयत ॥ 3 ॥
सॊ ऽसमि कृष्ण तथा जातः पाण्डॊः पुत्रॊ ऽसमि धर्मतः कुन्त्या तव अहम अपाकीर्णॊ यथा न कुशलं तथा ॥ 4 ॥
सूतॊ हि माम अधिरथॊ देष्ट्वैव अनयद गृहान राधायाश चैव मां परादात सौहार्दान मधुसूदन ॥ 5 ॥
मत सनेहाच चैव राधायाः सद्यः कषीरम अवातरत सा मे मूत्रं पुरीषं च परतिजग्राह माधव ॥ 6 ॥
तस्याः पिण्ड वयपनयं कुर्याद अस्मद्विधः कथम धर्मविद धर्मशास्त्राणां शरवणे सततं रथ ॥ 7 ॥
तथा माम अभिजानाति सूतश चाधिरथः सुतम पितरं चाभिजानामि तम अहं सौहृदात सदा ॥ 8 ॥
स हि मे जातकर्मादि कारयाम आस माधव शास्त्रदृष्टेन विधिना पुत्र परीत्या जनार्दन ॥ 9 ॥
नाम मे वसुषेणेति कारयाम आस वै दविजैः भार्याश चॊढा मम पराप्ते यौवने तेन केशव ॥ 10 ॥
तासु पुत्राश च पौत्राश च मम जाता जनार्दन तासु मे हृदयं कृष्ण संजातं कामबन्धनम ॥ 11 ॥
न पृथिव्या सकलया न सुवर्णस्य राशिभिः हर्षाद भयाद वा गॊविन्द अनृतं वक्तुम उत्सहे ॥ 12 ॥
धृतराष्ट्र कुले कृष्ण दुर्यॊधन समाश्रयात मया तरयॊदश समा भुक्तं राज्यम अकण्टकम ॥ 13 ॥
इष्टं च बहुभिर यज्ञैः सह सूतैर मयासकृत आवाहाश च विवाहाश च सह सूतैः कृता मया ॥ 14 ॥
मां च कृष्ण समाश्रित्य कृतः शस्त्रसमुद्यमः दुर्यॊधनेन वार्ष्णेय विग्रहश चापि पाण्डवैः ॥ 15 ॥
तस्माद रणे दवैरथे मां परत्युद्यातारम अच्युत वृतवान परमं हृष्टः परतीपं सव्यसाचिनः ॥ 16 ॥
वधाद बन्धाद भयाद वापि लॊभाद वापि जनार्दन अनृतं नॊत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः ॥ 17 ॥
यदि हय अद्य न गच्छेयं दवैरथं सव्यसाचिना अकीर्तिः सयाद धृषीकेश मम पार्थस्य चॊभयॊः ॥ 18 ॥
असंशयं हितार्थाय बरूयास तवं मधुसूदन सर्वं च पाण्डवाः कुर्युस तव वशित्वान न संशयः ॥ 19 ॥
मन्त्रस्य नियमं कुर्यास तवम अत्र पुरुषॊत्तम एतद अत्र हितं मन्ये सर्वयादवनन्दन ॥ 20 ॥
यदि जानाति मां राजा धर्मात्मा संशितव्रतः कुन्त्याः परथमजं पुत्रं न स राज्यं गरहीष्यति ॥ 21 ॥
पराप्य चापि महद राज्यं तद अहं मधुसूदन सफीतं दुर्यॊधनायैव संप्रदद्याम अरिंदम ॥ 22 ॥
स एव राजा धर्मात्मा शाश्वतॊ ऽसतु युधिष्ठिरः नेता यस्य हृषीकेशॊ यॊधा यस्य धनंजयः ॥ 23 ॥
पृथिवी तस्य राष्ट्रं च यस्य भीमॊ महारथः नकुलः सहदेवश च दरौपदेयाश च माधव ॥ 24 ॥
उत्तमौजा युधामन्युः सत्यधर्मा च सॊमकिः चैद्यश च चेकितानश च शिखण्डी चापराजितः ॥ 25 ॥
इन्द्र गॊपक वर्णाश च केकया भरातरस तथा इन्द्रायुधसवर्णश च कुन्तिभॊजॊ महारथः ॥ 26 ॥
मातुलॊ भीमसेनस्य सेनजिच च महारथः शङ्खः पुत्रॊ विराटस्य निधिस तवं च जनार्दन ॥ 27 ॥
महान अयं कृष्ण कृतः कषत्रस्य समुदानयह राज्यं पराप्तम इदं दीप्तं परथितं सर्वराजसु ॥ 28 ॥
धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञॊ भविष्यति अस्य यज्ञस्य वेत्ता तवं भविष्यसि जनार्दन आध्वर्यवं च ते कृष्ण करताव अस्मिन भविष्यति ॥ 29 ॥
हॊता चैवात्र बीभत्सुः संनद्धः स कपिध्वजः गाण्डीवं सरुक तथाज्यं च वीर्यं पुंसां भविष्यति ॥ 30 ॥
ऐन्द्रं पाशुपतं बराह्मं सथूणाकर्णं च माधव मन्त्रास तत्र भविष्यन्ति परयुक्ताः सव्यसाचिना ॥ 31 ॥
अनुयातश च पितरम अधिकॊ वा पराक्रमे गराव सतॊत्रं स सौभद्रः सम्यक तत्र करिष्यति ॥ 32 ॥
उद्गातात्र पुनर भीमः परस्तॊता सुमहाबलः विनदन स नरव्याघ्रॊ नागानीकान्तकृद रणे ॥ 33 ॥
स चैव तत्र धर्मात्मा शश्वद राजा युधिष्ठिरः जपैर हॊमैश च संयुक्तॊ बरह्मत्वं कारयिष्यति ॥ 34 ॥
शङ्खशब्दाः समुरजा भेर्यश च मधुसूदन उत्कृष्टसिंहनादाश च सुब्रह्मण्यॊ भविष्यति ॥ 35 ॥
नकुलः सहदेवश च माद्रीपुत्रौ यशस्विनौ शामित्रं तौ महावीर्यौ सम्यक तत्र करिष्यतः ॥ 36 ॥
कल्माषदण्डा गॊविन्द विमला रथशक्तयः यूपाः समुपकल्पन्ताम अस्मिन यज्ञे जनार्दन ॥ 37 ॥
कर्णिनालीकनाराचा वत्सदन्तॊपबृंहणाः तॊमराः सॊमकलशाः पवित्राणि धनूंषि च ॥ 38 ॥
असयॊ ऽतर कपालानि पुरॊडाशाः शिरांसि च हविस तु रुधिरं कृष्ण अस्मिन यज्ञे भविष्यति ॥ 39 ॥
इध्माः परिधयश चैव शक्त्यॊ ऽथ विमला गदाः सदस्या दरॊणशिष्याश च कृपस्य च शरद्वतः ॥ 40 ॥
इषवॊ ऽतर परिस्तॊमा मुक्ता गाण्डीवधन्वना महारथप्रयुक्ताश च दरॊण दरौणिप्रचॊदिताः ॥ 41 ॥
परातिप्रस्थानिकं कर्म सात्यकिः स करिष्यति दीक्षितॊ धार्तराष्ट्रॊ ऽतर पत्नी चास्य महाचमूः ॥ 42 ॥
घटॊत्चकॊ ऽतर शामित्रं करिष्यति महाबलः अतिरात्रे महाबाहॊ वितते यज्ञकर्मणि ॥ 43 ॥
दक्षिणा तव अस्य यज्ञस्य धृष्टद्युम्नः परतापवान वैताने कर्मणि तते जातॊ यः कृष्ण पावकात ॥ 44 ॥
यद अब्रुवम अहं कृष्ण कटुकानि सम पाण्डवान परियार्थं धार्तराष्ट्रस्य तेन तप्ये ऽदय कर्मणा ॥ 45 ॥
यदा दरक्ष्यसि मां कृष्ण निहतं सव्यसाचिना पुनश चितिस तदा चास्य यज्ञस्याथ भविष्यति ॥ 46 ॥
दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः आनर्दं नर्दतः सम्यक तदा सुत्यं भविष्यति ॥ 47 ॥
यदा दरॊणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः तदा यज्ञावसानं तद भविष्यति जनार्दन ॥ 48 ॥
दुर्यॊधनं यदा हन्ता भीमसेनॊ महाबलः तदा समाप्स्यते यज्ञॊ धार्तराष्ट्रस्य माधव ॥ 49 ॥
सनुषाश च परस्नुषाश चैव धृतराष्ट्रस्य संगताः हतेश्वरा हतसुता हतनाथाश च केशव ॥ 50 ॥
गान्धार्या सह रॊदन्त्यः शवगृध्रकुरराकुले स यज्ञे ऽसमिन्न अवभृथॊ भविष्यति जनार्दन ॥ 51 ॥
विद्या वृद्धा वयॊवृद्धाः कषत्रियाः कषत्रियर्षभ वृथा मृत्युं न कुर्वीरंस तवत्कृते मधुसूदन ॥ 52 ॥
शस्त्रेण निधनं गच्छेत समृद्धं कषत्रमण्डलम कुरुक्षेत्रे पुण्यतमे तरैलॊक्यस्यापि केशवन ॥ 53 ॥
तद अत्र पुण्डरीकाक्ष विधत्स्व यद अभीप्सितम यथा कार्त्स्न्येन वार्ष्णेय कषत्रं सवर्गम अवाप्नुयात ॥ 54 ॥
यावत सथास्यन्ति गिरयः सरितश च जनार्दन तावत कीर्तिभवः शब्दः शाश्वतॊ ऽयं भविष्यति ॥ 55 ॥
बराह्मणाः कथयिष्यन्ति महाभारतम आहवम समागमेषु वार्ष्णेय कषत्रियाणां यशॊधरम ॥ 56 ॥
समुपानय कौन्तेयं युद्धाय मम केशव मन्त्रसंवरणं कुर्वन नित्यम एव परंतप ॥ 57 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 139
Reach this point to mark the section finished.
Continue to अध्याय 140