[धृ] राजपुत्रैः परिवृतस तथामात्यैश च संजय उपारॊप्य रथे कर्णं निर्यातॊ मधुसूदनः ॥ 1 ॥
किम अब्रवीद रथॊपस्थे राधेयं परवीरहा कानि सान्त्वानि गॊविन्दः सूतपुत्रे परयुक्तवान ॥ 2 ॥
ओघमेघस्वनः काले यत कृष्णः कर्णम अब्रवीत मृदु वा यदि वा तीक्ष्णं तन ममाचक्ष्व संजय ॥ 3 ॥
आनुपूर्व्येण वाक्यानि शलक्ष्णानि च मृदूनि च परियाणि धर्मयुक्तानि सत्यानि च हितानि च ॥ 4 ॥
हृदयग्रहणीयानि राधेयं मधुसूदनः यान्य अब्रवीद अमेयात्मा तानि मे शृणु भारत ॥ 5 ॥
उपासितास ते राधेय बराह्मणा वेदपारगाः तत्त्वार्थं परिपृष्टाश च नियतेनानसूयया ॥ 6 ॥
तवम एव कर्ण जानासि वेदवादान सनातनान तवं हय एव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः ॥ 7 ॥
कानीनश च सहॊढश च कन्यायां यश च जायते वॊढारं पितरं तस्य पराहुः शास्त्रविदॊ जनाः ॥ 8 ॥
सॊ ऽसि कर्ण तथा जातः पाण्डॊः पुत्रॊ ऽसि धर्मतः निग्रहाद धर्मशास्त्राणाम एहि राजा भविष्यसि ॥ 9 ॥
पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णयः दवौ पक्षाव अभिजानीहि तवम एतौ पुरुषर्षभ ॥ 10 ॥
मया सार्धम इतॊ यातम अद्य तवां तात पाण्डवाः अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात ॥ 11 ॥
पादौ तव गरहीष्यन्ति भरातरः पञ्च पाण्डवाः दरौपदेयास तथा पञ्च सौभद्रश चापराजितः ॥ 12 ॥
राजानॊ राजपुत्राश च पाण्डवार्थे समागताः पादौ तव गरहीष्यन्ति सर्वे चान्धकवृष्णयः ॥ 13 ॥
हिरण्मयांश च ते कुम्भान राजतान पार्थिवांस तथा ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः ॥ 14 ॥
राजन्या राजकन्याश चाप्य आनयन्त्व अभिषेचनम षष्ठे च तवां तथा काले दरौपद्य उपगमिष्यति ॥ 15 ॥
अद्य तवाम अभिषिञ्चन्तु चातुर्वैद्या दविजातयः पुरॊहितः पाण्डवानां वयाघ्रचर्मण्य अवस्थितम ॥ 16 ॥
तथैव भरातरः पञ्च पाण्डवाः पुरुषर्षभाः दरौपदेयास तथा पञ्च पाञ्चालाश चेदयस तथा ॥ 17 ॥
अहं च तवाभिषेक्ष्यामि राजानं पृथिवीपतिम युवराजॊ ऽसतु ते राजा कुन्तीपुत्रॊ युधिष्ठिरः ॥ 18 ॥
गृहीत्वा वयसनं शवेतं धर्मात्मा संशितव्रतः उपान्वारॊहतु रथं कुन्तीपुत्रॊ युधिष्ठिरः ॥ 19 ॥
छत्रं च ते महच छवेतं भीमसेनॊ महाबलः अभिषिक्तस्य कौनेय कौन्तेयॊ धारयिष्यति ॥ 20 ॥
किङ्किणीशतनिर्घॊषं वैयाघ्रपरिवारणम रथं शवेतहयैर युक्तम अर्जुनॊ वाहयिष्यति ॥ 21 ॥
अभिमन्युश च ते नित्यं परत्यासन्नॊ भविष्यति नकुलः सहदेवश च दरौपदेयाश च पञ्च ये ॥ 22 ॥
पाञ्चालास तवानुयास्यन्ति शिखण्डी च महारथः अहं च तवानुयास्यामि सर्वे चान्धकवृष्णयः दाशार्हाः परिवारास ते दाशार्णाश च विशां पते ॥ 23 ॥
भुङ्क्ष्व राज्यं महाबाहॊ भरातृभिः सह पाण्डवैः जपैर हॊमैश च संयुक्तॊ मङ्गलैश च पृथग्विधैः ॥ 24 ॥
पुरॊगमाश च ते सन्तु दरविडाः सह कुन्तलैः आन्ध्रास तालचराश चैव चूचुपा वेणुपास तथा ॥ 25 ॥
सतुवन्तु तवाद्य बहुशः सतुतिभिः सूतमागधाः विजयं वसुषेणस्य घॊषयन्तु च पाण्डवाः ॥ 26 ॥
स तवं परिवृतः पार्थैर नक्षत्रैर इव चन्द्रमाः परशाधि राज्यं कौन्तेय कुन्तीं च परतिनन्दय ॥ 27 ॥
मित्राणि ते परहृष्यन्तु वयथन्तु रिपवस तथा सौभ्रात्रं चैव ते ऽदयास्तु भरातृभिः सह पाण्डवैः ॥ 28 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 138
Reach this point to mark the section finished.
Continue to अध्याय 139