[क] अर्जुनं केशव बरूयास तवयि जाते सम सूतके उपॊपविष्टा नारीभिर आश्रमे परिवारिता ॥ 1 ॥
अथान्तरिक्षे वाग आसीद दिव्यरूपा मनॊरमा सहस्राक्षसमः कुन्ति भविष्यत्य एष ते सुतः ॥ 2 ॥
एष जेष्यति संग्रामे कुरून सर्वान समागतान भीमसेनद्वितीयश च लॊकम उद्वर्तयिष्यति ॥ 3 ॥
पुत्रस ते पृथिवीं जेता यशश चास्य दिवस्पृशम हत्वा कुरून गरामजन्ये वासुदेवसहायवान ॥ 4 ॥
पित्र्यम अंशं परनष्टं च पुनर अप्य उद्धरिष्यति भरातृभिः सहितः शरीमांस तरीन मेधान आहरिष्यति ॥ 5 ॥
तं सत्यसंधं बीभत्सुं सव्यसाचिनम अच्युत यथाहम एवं जानामि बलवन्तं दुरासदम तथा तद अस्तु दाशार्ह यथा वाग अभ्यभाषत ॥ 6 ॥
धर्मश चेद अस्ति वार्ष्णेय तथा सत्यं भविष्यति तवं चापि तत तथा कृष्ण सर्वं संपादयिष्यसि ॥ 7 ॥
नाहं तद अभ्यसूयामि यथा वाग अभ्यभाषत नमॊ धर्माय महते धर्मॊ धारयति परजाः ॥ 8 ॥
एतद धनंजयॊ वाच्यॊ नित्यॊद्युक्तॊ वृकॊदरः यदर्थं कषत्रिया सूते तस्य कालॊ ऽयम आगतः न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः ॥ 9 ॥
विदिता ते सदा बुद्धिर भीमस्य न स शाम्यति यावदन्तं न कुरुते शत्रूणां शत्रुकर्शणः ॥ 10 ॥
सर्वधर्मविशेषज्ञां सनुषां पाण्डॊर महात्मनः बरूया माधव कल्याणीं कृष्णां कृष्ण यशस्विनीम ॥ 11 ॥
युक्तम एतन महाभागे कुले जाते यशस्विनि यन मे पुत्रेषु सर्वेषु यथावत तवम अवर्तिथाः ॥ 12 ॥
माद्रीपुत्रौ च वक्तव्यौ कषत्रधर्मरताव उभौ विक्रमेणार्जितान भॊगान वृणीतं जीविताद अपि ॥ 13 ॥
विक्रमाधिगता हय अर्थाः कषत्रधर्मेण जीवतः मनॊ मनुष्यस्य सदा परीणन्ति पुरुषॊत्तम ॥ 14 ॥
यच च वः परेक्षमाणानां सर्वधर्मॊपचायिनी पाञ्चाली परुषाण्य उक्ता कॊ नुतत कषन्तुम अर्हति ॥ 15 ॥
न राज्यहरणं दुःखं दयूते चापि पराजयः परव्राजनं सुतानां वा न मे तद्दुःखकारणम ॥ 16 ॥
यत तु सा बृहती शयामा सभायां रुदती तदा अश्रौषीत परुषा वाचस तन मे दुःखतरं मतम ॥ 17 ॥
सत्री धर्मिणी वरारॊहा कषत्रधर्मरता सदा नाध्यगच्छत तदा नाथं कृष्णा नाथवती सती ॥ 18 ॥
तं वै बरूहि महाबाहॊ सर्वशस्त्रभृतां वरम अर्जुनं पुरुषव्याघ्रं दरौपद्याः पदवीं चर ॥ 19 ॥
विदितौ हि तवात्यन्तं करुद्धाव इव यमान्तकौ भीमार्जुनौ नयेतां हि देवान अपि परां गतिम ॥ 20 ॥
तयॊश चैतद अवज्ञानं यत सा कृष्णा सभा गता दुःशासनश च यद भीमं कटुकान्य अभ्यभाषत पश्यतां कुरुवीराणां तच च संस्मारयेः पुनः ॥ 21 ॥
पाण्डवान कुशलं पृच्छेः सपुत्रान कृष्णया सह मां च कुशलिनीं बरूयास तेषु भूयॊ जनार्दन अरिष्टं गच्छ पन्थानं पुत्रान मे परिपालय ॥ 22 ॥
अभिवाद्याथ तां कृष्णः कृत्वा चाभिप्रदक्षिणम निश्चक्राम महाबाहुः सिंहखेल गतिस ततः ॥ 23 ॥
ततॊ विसर्जयाम आस भीष्मादीन कुरुपुंगवान आरॊप्य च रथे कर्णं परायात सात्यकिना सह ॥ 24 ॥
ततः परयाते दाशार्हे कुरवः संगता मिथः जजल्पुर महद आश्चर्यं केशवे परमाद्भुतम ॥ 25 ॥
परमूढा पृथिवी सर्वा मृत्युपाशसिता कृता दुर्यॊधनस्य बालिश्यान नैतद अस्तीति चाब्रुवन ॥ 26 ॥
ततॊ निर्याय नगरात परययौ पुरुषॊत्तमः मन्त्रयाम आस च तदा कर्णेन सुचिरं सह ॥ 27 ॥
विसर्जयित्वा राधेयं सर्वयादवनन्दनः ततॊ जवेन महता तूर्णम अश्वान अचॊदयत ॥ 28 ॥
ते पिबन्त इवाकाशं दारुकेण परचॊदिताः हया जग्मुर महावेगा मनॊमारुतरंहसः ॥ 29 ॥
ते वयतीत्य तम अध्वानं कषिप्रं शयेना इवाशुगाः उच्चैः सूर्यम उपप्लव्यं शार्ङ्गधन्वानम आवहन ॥ 30 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 135
Reach this point to mark the section finished.
Continue to अध्याय 136