धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 134

  1. [म] नैव राज्ञा दरः कार्यॊ जातु कस्यां चिद आपदि अथ चेद अपि दीर्णः सयान नैव वर्तेत दीर्णवत ॥ 1 ॥

  2. दीर्णं हि दृष्ट्वा राजानं सर्वम एवानुदीर्यते राष्ट्रं बलम अमात्याश च पृथक कुर्वन्ति ते मतिम ॥ 2 ॥

  3. शत्रून एके परपद्यन्ते परजहत्य अपरे पुनः अन्व एके परजिहीर्षन्ति ये पुरस्ताद विमानिताः ॥ 3 ॥

  4. य एवात्यन्त सुहृदस त एनं पर्युपासते अशक्तयः सवस्ति कामा बद्धवत्सा इडा इव शॊचन्तम अनुशॊचन्ति परतीतान इव बान्धवान ॥ 4 ॥

  5. अपि ते पूजिताः पूर्वम अपि ते सुहृदॊ मताः ये राष्ट्रम अभिमन्यन्ते राज्ञॊ वयसनम ईयुषः मा दीदरस तवं सुहृदॊ मा तवां दीर्णं परहासिषुः ॥ 5 ॥

  6. परभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव उल्लपन्त्या समाश्वासं बलवान इव दुर्बलम ॥ 6 ॥

  7. यद्य एतत संविजानासि यदि सम्यग बरवीम्य अहम कृत्वासौम्यम इवात्मानं जयायॊत्तिष्ठ संजय ॥ 7 ॥

  8. अस्ति नः कॊशनिचयॊ महान अविदितस तव तम अहं वेद नान्यस तम उपसंपादयामि ते ॥ 8 ॥

  9. सन्ति नैकशता भूयः सुहृदस तव संजय सुखदुःखसहा वीर शतार्हा अनिवर्तिनः ॥ 9 ॥

  10. तादृशा हि सहाया वै पुरुषस्य बुभूषतः ईषद उज्जिहतः किं चित सचिवाः शत्रुकर्शनाः ॥ 10 ॥

  11. कस्य तव ईदृशकं वाक्यं शरुत्वापि सवल्प चेतसः तमॊ न वयपहन्येत सुचित्रार्थ पदाक्षरम ॥ 11 ॥

  12. उदके धूर इयं धार्या सर्तव्यं परवणे मया यस्य मे भवती नेत्री भविष्यद भूतदर्शिनी ॥ 12 ॥

  13. अहं हि वचनं तवत्तः शुश्रूषुर अपरापरम किं चित किं चित परतिवदंस तूष्णीम आसं मुहुर मुहुः ॥ 13 ॥

  14. अतृप्यन्न अमृतस्येव कृच्छ्राल लब्धस्य बान्धवात उद्यच्छाम्य एष शत्रूणां नियमाय जयाय च ॥ 14 ॥

  15. सदश्व इव स कषिप्तः परणुन्नॊ वाक्यसायकैः तच चकार तथा सर्वं यथावद अनुशासनम ॥ 15 ॥

  16. इदम उद्धर्षणं भीमं तेजॊवर्धनम उत्तमम राजानं शरावयेन मन्त्री सीदन्तं शत्रुपीडितम ॥ 16 ॥

  17. जयॊ नामेतिहासॊ ऽयं शरॊतव्यॊ विजिगीषुणा महीं विजयते कषिप्रं शरुत्वा शत्रूंश च मर्दति ॥ 17 ॥

  18. इदं पुंसवनं चैव वीराजननम एव च अभीक्ष्णं गर्भिणी शरुत्वा धरुवं वीरं परजायते ॥ 18 ॥

  19. विद्या शूरं तपः शूरं दमशूरं तपस्विनम बराह्म्या शरिया दीप्यमानं साधुवादेन संमतम ॥ 19 ॥

  20. अर्चिष्मन्तं बलॊपेतं महाभागं महारथम धृष्टवन्तम अनाधृष्यं जेतारम अपराजितम ॥ 20 ॥

  21. नियन्तारम असाधूनां गॊप्तारं हर्म चारिणाम तदर्थं कषत्रिया सूते वीरं सत्यपराक्रमम ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 135

Previous: अध्याय 133