धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 136

  1. [व] कुन्त्यास तु वचनं शरुत्वा भीष्मद्रॊणौ महारथौ दुर्यॊधनम इदं वाक्यम ऊचतुः शासनातिगम ॥ 1 ॥

  2. शरुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ वाक्यम अर्थवद अव्यग्रम उक्तं धर्म्यम अनुत्तमम ॥ 2 ॥

  3. तत करिष्यन्ति कौन्तेया वासुदेवस्य संमतम न हि ते जातु शाम्येरन्न ऋते राज्येन कौरव ॥ 3 ॥

  4. कलेशिता हि तवया पार्था धर्मपाशसितास तदा सभायां दरौपदी चैव तैश च तन मर्षितं तव ॥ 4 ॥

  5. कृतास्त्रं हय अर्जुनं पराप्य भीमं च कृतनिश्रमम गाण्डीवं चेषुधी चैव रथं च धवजम एव च सहायं वासुदेवं च न कषंस्यति युधिष्ठिरः ॥ 5 ॥

  6. परत्यक्षं ते महाबाहॊ यथा पार्थेन धीमता विराटनगरे पूर्वं सर्वे सम युधि निर्जिताः ॥ 6 ॥

  7. दानवान घॊरकर्माणॊ निवातकवचान युधि रौद्रम अस्त्रं समाधाय दग्धवान अस्त्रवह्निना ॥ 7 ॥

  8. कर्णप्रभृतयश चेमे तवं चापि कवची रथी मॊक्षिता घॊषयात्रायां पर्याप्तं तन्निदर्शनम ॥ 8 ॥

  9. परशाम्य भरतश्रेष्ठ भरातृभिः सह पाण्डवैः रक्षेमां पृथिवीं सर्वां मृत्यॊर दंष्ट्रान्तरं गताम ॥ 9 ॥

  10. जयेष्ठॊ भराता धर्मशीलॊ वत्सलः शलक्ष्णवाक शुचिः तं गच्छ पुरुषव्याघ्रं वयपनीयेह किल्बिषम ॥ 10 ॥

  11. दृष्टश चेत तवं पाण्डवेन वयपनीतशरासनः परसन्नभ्रुकुटिः शरीमान कृता शान्तिः कुलस्य नः ॥ 11 ॥

  12. तम अभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम अभिवादय राजानं यथापूर्वम अरिंदम ॥ 12 ॥

  13. अभिवादयमानं तवां पाणिभ्यां भीम पूर्वजः परतिगृह्णातु सौहार्दात कुन्तीपुत्रॊ युधिष्ठिरः ॥ 13 ॥

  14. सिंहस्कन्धॊरु बाहुस तवां वृत्तायतमहाभुजः परिष्वजतु बाहुभ्यां भीमः परहरतां वरः ॥ 14 ॥

  15. सिंहग्रीवॊ गुडाकेशस ततस तवां पुष्करेक्षणः अभिवादयतां पार्थः कुन्तीपुत्रॊ धनंजयः ॥ 15 ॥

  16. आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि तौ च तवां गुरुवत परेम्णा पूजया परत्युदीयताम ॥ 16 ॥

  17. मुञ्चन्त्व आनन्दजाश्रूणि दाशार्ह परमुखा नृपाः संगच्छ भरातृभिः सार्धं मानं संत्यज्य पार्थिव ॥ 17 ॥

  18. परशाधि पृथिवीं कृत्स्नां ततस तं भरातृभिः सह समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम ॥ 18 ॥

  19. अलं युद्धेन राजेन्द्र सुहृदां शृणु कारणम धरुवं विनाशॊ युद्धे हि कषत्रियाणां परदृश्यते ॥ 19 ॥

  20. जयॊतींषि परतिकूलानि दारुणा मृगपक्षिणः उत्पाता विविधा वीर दृश्यन्ते कषत्रनाशनाः ॥ 20 ॥

  21. विशेषत इहास्माकं निमित्तानि विनाशने उल्काभिर हि परदीप्ताभिर वध्यते पृतना तव ॥ 21 ॥

  22. वाहनान्य अप्रहृष्टानि रुदन्तीव विशां पते गृध्रास ते पर्युपासन्ते सैन्यानि च समन्ततः ॥ 22 ॥

  23. नगरं न यथापूर्वं तथा राजनिवेशनम शिवाश चाशिव निर्घॊषा दीप्तां सेवन्ति वै दिशम ॥ 23 ॥

  24. कुरु वाक्यं पितुर मातुर अस्माकं च हितैषिणाम तवय्य आयत्तॊ महाबाहॊ शमॊ वयायाम एव च ॥ 24 ॥

  25. न चेत करिष्यसि वचः सुहृदाम अरिकर्शन तप्स्यसे वाहिनीं दृष्ट्वा पार्थ बाणप्रपीडिताम ॥ 25 ॥

  26. भीमस्य च महानादं नदतः शुष्मिणॊ रणे शरुत्वा समर्तासि मे वाक्यं गाण्डीवस्य च निस्वनम यद्य एतद अपसव्यं ते भविष्यति वचॊ मम ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 137

Previous: अध्याय 135