[पुत्र] कृष्णायसस्येव च ते संहत्य हृदयं कृतम मम मातस तव अकरुणे वैरप्रज्ञे हय अमर्षणे ॥ 1 ॥
अहॊ कषत्रसमाचारॊ यत्र माम अपरं यथा ईदृशं वचनं बरूयाद भवती पुत्रम एकजम ॥ 2 ॥
किं नु ते माम अपश्यन्त्याः पृथिव्या अपि सर्वया किम आभरणकृत्यं ते किं भॊगैर जीवितेन वा ॥ 3 ॥
सर्वारम्भा हि विदुषां तात धर्मार्थकारणात तान एवाभिसमीक्ष्याहं संजय तवाम अचूचुदम ॥ 4 ॥
स समीक्ष्य करमॊपेतॊ मुख्यः कालॊ ऽयम आगतः अस्मिंश चेद आगते काले कार्यं न परतिपद्यसे असंभावित रूपस तवं सुनृशंसं करिष्यसि ॥ 5 ॥
तं तवाम अयशसा सपृष्टं न बरूयां यदि संजय खरी वात्सल्यम आहुस तन निः सामर्थ्यम अहेतुकम ॥ 6 ॥
सद्भिर विगर्हितं मार्गं तयज मूर्ख निषेवितम अविद्या वै महत्य अस्ति याम इमां संश्रिताः परजाः ॥ 7 ॥
तव सयाद यदि सद्वृत्तं तेन मे तवं परियॊ भवेः धर्मार्थगुणयुक्तेन नेतरेण कथं चन दैवमानुषयुक्तेन सद्भिर आचरितेन च ॥ 8 ॥
यॊ हय एवम अविनीतेन रमते पुत्र नप्तृणा अनुत्थानवता चापि मॊघं तस्य परजा फलम ॥ 9 ॥
अकुर्वन्तॊ हि कर्माणि कुर्वन्तॊ निन्दितानि च सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः ॥ 10 ॥
युद्धाय कषत्रियः सृष्टः संजयेह जयाय च करूराय कर्मणे नित्यं परजानां परिपालने जयन वा वध्यमानॊ वा पराप्नॊतीन्द्र सलॊकताम ॥ 11 ॥
न शक्र भवने पुण्ये दिवि तद्विद्यते सुखम यद अमित्रान वशे कृत्वा कषत्रियः सुखम अश्नुते ॥ 12 ॥
मन्युना दह्यमानेन पुरुषेण मनस्विना निकृतेनेह बहुशः शत्रून परतिजिगीषया ॥ 13 ॥
आत्मानं वा परित्यज्य शत्रून वा विनिपात्य वै अतॊ ऽनयेन परकारेण शान्तिर अस्य कुतॊ भवेत ॥ 14 ॥
इह पराज्ञ्डॊ हि पुरुषः सवल्पम अप्रियम इच्छति यस्य सवल्पं परियं लॊके धरुवं तस्याल्पम अप्रियम ॥ 15 ॥
परियाभावाच च पुरुषॊ नैव पराप्नॊति शॊभनम धरुवं चाभावम अभ्येति गत्वा गङ्गेव सागरम ॥ 16 ॥
[पुत्र] नेयं मतिस तवया वाच्या मातः पुत्रे विशेषतः कारुण्यम एवात्र पश्य भूत्वेह जड मूकवत ॥ 17 ॥
अतॊ मे भूयसी नन्दिर यद एवम अनुपश्यसि चॊद्यं मां चॊदयस्य एतद भृशं वै चॊदयामि ते ॥ 18 ॥
अथ तवां पूजयिष्यामि हत्वा वै सर्वसैन्धवान अहं पश्यामि विजयं कृत्स्नं भाविनम एव ते ॥ 19 ॥
अकॊशस्यासहायस्य कुतः सविद विजयॊ मम इत्य अवस्थां विदित्वेमाम आत्मनात्मनि दारुणाम राज्याद भावॊ निवृत्तॊ मे तरिदिवाद इव दुष्कृतेः ॥ 20 ॥
ईदृशं भवती कं चिद उपायम अनुपश्यति तन मे परिणत परज्ञे सम्यक परब्रूहि पृच्छते करिष्यामि हि तत सर्वं यथावद अनुशासनम ॥ 21 ॥
पुत्रात्मा नावमन्तव्यः पूर्वाभिर असमृद्धिभिः अभूत्वा हि भवन्त्य अर्था भूत्वा नश्यन्ति चापरे ॥ 22 ॥
अमर्षेणैव चाप्य अर्था नारब्धव्याः सुबालिशैः सर्वेषां कर्मणां तात फले नित्यम अनित्यता ॥ 23 ॥
अनित्यम इति जानन्तॊ न भवन्ति भवन्ति च अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते ॥ 24 ॥
ऐकगुण्यम अनीहायाम अभावः कर्मणां फलम अथ दवैगुण्यम ईहायां फलं भवति वा न वा ॥ 25 ॥
यस्य पराग एव विदिता सर्वार्थानाम अनित्यता नुदेद वृद्धिसमृद्धी स परतिकूले नृपात्मज ॥ 26 ॥
उत्थातव्यं जागृतव्यं यॊक्तव्यं भूतिकर्मसु भविष्यतीत्य एव मनः कृत्वा सततम अव्यथैः मङ्गलानि पुरस्कृत्य बराह्मणैश चेश्वरैः सह ॥ 27 ॥
पराज्ञस्य नृपतेर आशु वृद्धिर भवति पुत्रक अभिवर्तति लक्ष्मीस तं पराचीम इव दिवाकरः ॥ 28 ॥
निदर्शनान्य उपायांश च बहून्य उद्धर्षणानि च अनुदर्शित रूपॊ ऽसि पश्यामि कुरु पौरुषम पुरुषार्थम अभिप्रेतं समाहर्तुम इहार्हसि ॥ 29 ॥
करुद्धाँल लुब्धान परिक्षीणान अवक्षिप्तान विमानितान सपर्धिनश चैव ये के चित तान युक्त उपधारय ॥ 30 ॥
एतेन तवं परकारेण महतॊ भेत्स्यसे गणान महावेग इवॊद्धूतॊ मातरिश्वा बलाहकान ॥ 31 ॥
तेषाम अग्रप्रदायी सयाः कल्यॊत्थायी परियंवदः ते तवां परियं करिष्यन्ति पुरॊ धास्यन्ति च धरुवम ॥ 32 ॥
यदैव शत्रुर जानीयात सपत्नं तयक्तजीवितम तदैवास्माद उद्विजते सर्पाद वेश्म गताद इव ॥ 33 ॥
तं विदित्वा पराक्रान्तं वशे न कुरुते यदि निर्वादैर निर्वदेद एनम अन्ततस तद भविष्यति ॥ 34 ॥
निर्वादाद आस्पदं लब्ध्वा धनवृद्धिर भविष्यति धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च ॥ 35 ॥
सफलितार्थं पुनस तात संत्यजन्त्य अपि बान्धवाः अप्य अस्मिन्न आश्रयन्ते च जुगुप्सन्ति च तादृशम ॥ 36 ॥
शत्रुं कृत्वा यः सहायं विश्वासम उपगच्छति अतः संभाव्यम एवैतद यद राज्यं पराप्नुयाद इति ॥ 37 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 133
Reach this point to mark the section finished.
Continue to अध्याय 134