[क] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम विदुरायाश च संवादं पुत्रस्य च परंतप ॥ 1 ॥
अत्र शरेयश च भूयश च यथा सा वक्तुम अर्हति यशस्विनी मनुमती कुले जाता विभावरी ॥ 2 ॥
कषत्रधर्मरता धन्या विदुरा दीर्घदर्शिनी विश्रुता राजसंसत्सु शरुतवाक्या बहुश्रुता ॥ 3 ॥
विदुरा नाम वै सत्या जगर्हे पुत्रम औरसम निर्जितं सिन्धुराजेन शयानं दीनचेतसम अनन्दनम अधर्मज्ञं दविषतां हर्षवर्धनम ॥ 4 ॥
न मया तवं न पित्रासि जातः कवाभ्यागतॊ हय असि निर्मन्युर उपशाखीयः पुरुषः कलीब साधनः ॥ 5 ॥
यावज जीवं निराशॊ ऽसि कल्याणाय धुरं वह मात्मानम अवमन्यस्व मैनम अल्पेन बीभरः मनः कृत्वा सुकल्याणं मा भैस तवं परतिसंस्तभ ॥ 6 ॥
उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः अमित्रान नन्दयन सर्वान निर्मानॊ बन्धुशॊकदः ॥ 7 ॥
सुपूरा वै कुनदिका सुपूरॊ मूषिकाञ्जलिः सुसंतॊषः कापुरुषः सवल्पकेनापि तुष्यति ॥ 8 ॥
अप्य अरेर आरुजन दंष्ट्राम आश्वा इव निधनं वरज अपि वा संशयं पराप्य जीविते ऽपि पराक्रम ॥ 9 ॥
अप्य अरेः शयेनवच छिद्रं पश्येस तवं विपरिक्रमन विनदन वाथ वा तूष्णीं वयॊम्नि वापरिशङ्कितः ॥ 10 ॥
तवम एवं परेतवच छेषे कस्माद वज्रहतॊ यथा उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः ॥ 11 ॥
मास्तं गमस तवं कृपणॊ विश्रूयस्व सवकर्मणा मा मध्ये मा जघन्ये तवं माधॊ भूस तिष्ठ चॊर्जितः ॥ 12 ॥
अलातं तिन्दुकस्येव मुहूर्तम अपि विज्वल मा तुषाग्निर इवानर्चिः काकरङ्खा जिजीविषुः मुहूर्तं जवलितं शरेयॊ न तु धूमायितं चिरम ॥ 13 ॥
मा ह सम कस्य चिद गेहे जनी राज्ञः खरी मृदुः कृत्वा मानुष्यकं कर्म सृत्वाजिं यावद उत्तमम धर्मस्यानृण्यम आप्नॊति न चात्मानं विगर्हते ॥ 14 ॥
अलब्ध्वा यदि वा लब्ध्वा नानुशॊचन्ति पण्डिताः आनन्तर्यं चारभते न पराणानां धनायते ॥ 15 ॥
उद्भावयस्व वीर्यं वा तां वा गच्छ धरुवां गतिम धर्मं पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि ॥ 16 ॥
इष्टापूर्तं हि ते कलीब कीर्तिश च सकला हता विच्छिन्नं भॊगमूलं ते किंनिमित्तं हि जीवसि ॥ 17 ॥
शत्रुर निमज्जता गराह्यॊ जङ्घायां परपतिष्यता विपरिच्छिन्न मूलॊ ऽपि न विषीदेत कथं चन उद्यम्य दुरम उत्कर्षेद आजानेय कृतं समरन ॥ 18 ॥
कुरु सत्त्वं च मानं च विद्धि पौरुषम आत्मनः उद्भावय कुलं मग्नं तवत्कृते सवयम एव हि ॥ 19 ॥
यस्य वृत्तं न जल्पन्ति मानवा महद अद्भुतम राशिवर्धन मात्रं स नैव सत्री न पुनः पुमान ॥ 20 ॥
दाने तपसि शौर्ये च यस्य न परथितं यशः विद्यायाम अर्थलाभे वा मातुर उच्चार एव सः ॥ 21 ॥
शरुतेन तपसा वापि शरिया वा विक्रमेण वा जनान यॊ ऽभिभवत्य अन्यान कर्णमा हि स वै पुमान ॥ 22 ॥
न तव एव जाल्मीं कापालीं वृत्तिम एषितुम अर्हसि नृशंस्याम अयशस्यां च दुःखां कापुरुषॊचिताम ॥ 23 ॥
यम एनम अभिनन्देयुर अमित्राः पुरुषं कृशम लॊकस्य समवज्ञातं निहीताशन वाससम ॥ 24 ॥
अहॊ लाभकरं दीनम अल्पजीवनम अल्पकम नेदृशं बन्धुम आसाद्य बान्धवः सुखम एधते ॥ 25 ॥
अवृत्त्यैव विपत्स्यामॊ वयं राष्ट्रात परवासिताः सर्वकामरसैर हीनाः सथानभ्रष्टा अकिंचनाः ॥ 26 ॥
अवर्ण कारिणं सत्सु कुलवंशस्य नाशनम कलिं पुत्र परवादेन संजय तवाम अजीजनम ॥ 27 ॥
निरमर्षं निरुत्साहं निर्वीर्यम अरिनन्दनम मा सम सीमन्तिनी का चिज जनयेत पुत्रम ईदृशम ॥ 28 ॥
मा धूमाय जवलात्यन्तम आक्रम्य जहि शात्रवान जवल मूर्धन्य अमित्राणां मुहूर्तम अपि वा कषणम ॥ 29 ॥
एतावान एव पुरुषॊ यद अमर्षी यद अक्षमी कषमावान निरमर्शश च नैव सत्री न पुनः पुमान ॥ 30 ॥
संतॊषॊ वै शरियं हन्ति तथानुक्रॊश एव च अनुत्थान भये चॊभे निरीहॊ नाश्नुते महत ॥ 31 ॥
एभ्यॊ निकृतिपापेभ्यः परमुञ्चात्मानम आत्मना आयसं हृदयं कृत्वा मृगयस्व पुनः सवकम ॥ 32 ॥
पुरं विषहते यस्मात तस्मात पुरुष उच्यते तम आहुर वयर्थनामानं सत्रीवद य इह जीवति ॥ 33 ॥
शूरस्यॊर्जित सत्त्वस्य सिंहविक्रान्त गामिनः दिष्ट भावं गतस्यापि विघसे मॊदते परजा ॥ 34 ॥
य आत्मनः परिय सुखे हित्वा मृगयते शरियम अमात्यानाम अथॊ हर्षम आदधात्य अचिरेण सः ॥ 35 ॥
किं नु ते माम अपश्यन्त्याः पृथिव्या अपि सर्वया किम आभरणकृत्यं ते किं भॊगैर जीवितेन वा ॥ 36 ॥
किम अद्यकानां ये लॊका दविषन्तस तान अवाप्नुयुः ये तव आदृतात्मनां लॊकाः सुहृदस तान वरजन्तु नः ॥ 37 ॥
भृत्यैर विहीयमानानां परपिण्डॊपजीविनाम कृपणानाम असत्त्वानां मा वृत्तिम अनुवर्तिथाः ॥ 38 ॥
अनु तवां तात जीवन्तु बराह्मणाः सुहृदस तथा पर्जन्यम इव भूतानि देवा इव शतक्रतुम ॥ 39 ॥
यम आजीवन्ति पुरुषं सर्वभूतानि संजय पक्वं दरुमम इवासाद्य तस्य जीवितम अर्थवत ॥ 40 ॥
यस्य शूरस्य विक्रान्तैर एधन्ते बान्धवाः सुखम तरिदशा इव शक्रस्य साधु तस्येह जीवितम ॥ 41 ॥
सवबाहुबलम आश्रित्य यॊ ऽभयुज्जीवति मानवः स लॊके लभते कीर्तिं परत्र च शुभां गतिम ॥ 42 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 131
Reach this point to mark the section finished.
Continue to अध्याय 132