धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 129

  1. [व] विदुरेणैवम उक्ते तु केशवः शत्रुपूगहा दुर्यॊधनं धार्तराष्ट्रम अभ्यभाषत वीर्यवान ॥ 1 ॥

  2. एकॊ ऽहम इति यन मॊहान मन्यसे मां सुयॊधन परिभूय च दुर्बुद्धे गरहीतुं मां चिकीर्षसि ॥ 2 ॥

  3. इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः इहादित्याश च रुद्राश च वसवश च महर्षिभिः ॥ 3 ॥

  4. एवम उक्त्वा जहासॊच्चैः केशवः परवीरहा तस्य संस्मयतः शौरेर विद्युद्रूपा महात्मनः अङ्गुष्ठ मात्रास तरिदशा मुमुचुः पावकार्चिषः ॥ 4 ॥

  5. तस्य बरह्मा ललाटस्थॊ रुद्रॊ वक्षसि चाभवत लॊकपाला भुजेष्व आसन्न अग्निर आस्याद अजायत ॥ 5 ॥

  6. आदित्याश चैव साध्याश च वसवॊ ऽथाश्विनाव अपि मरुतश च सहेन्द्रेण विश्वे देवास तथैव च बभूवुश चैव रूपाणि यक्षगन्धर्वरक्षसाम ॥ 6 ॥

  7. परादुरास्तां तथा दॊर्भ्यां संकर्षण धनंजयौ दक्षिणे ऽथार्जुनॊ धन्वी हली रामश च सव्यतः ॥ 7 ॥

  8. भीमॊ युधिष्ठिरश चैव माद्रीपुत्रौ च पृष्ठतः अन्धका वृष्णयश चैव परद्युम्न परमुखास ततः ॥ 8 ॥

  9. अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः शङ्खचक्रगदाशक्तिर शार्ङ्गलाङ्गलनन्दकाः ॥ 9 ॥

  10. अदृश्यन्तॊद्यतान्य एव सर्वप्रहरणानि च नाना बाहुषु कृष्णस्य दीप्यमानानि सर्वशः ॥ 10 ॥

  11. नेत्राभ्यां नस ततश चैव शरॊत्राभ्यां च समन्ततः परादुरासन महारौद्राः सधूमाः पावकार्चिषः रॊमकूपेषु च तथा सूर्यस्येव मरीचयः ॥ 11 ॥

  12. तं दृष्ट्वा घॊरम आत्मानं केशवस्य महात्मनः नयमीलयन्त नेत्राणि राजानस तरस्तचेतसः ॥ 12 ॥

  13. ऋते दरॊणं च भीष्मं च विदुरं च महामतिम संजयं च महाभागम ऋषींश चैव तपॊधनान परादात तेषां स भगवान दिव्यं चक्षुर जनार्दनः ॥ 13 ॥

  14. तद दृष्ट्वा महद आश्चर्यं माधवस्य सभा तले देवदुन्दुभयॊ नेदुः पुष्पवर्षं पपात च ॥ 14 ॥

  15. चचाल च महीकृत्स्ना सागरश चापि चुक्षुभे विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ ॥ 15 ॥

  16. ततः स पुरुषव्याघ्रः संजहार वपुः सवकम तां दिव्याम अद्भुतां चित्राम ऋद्धिमत्ताम अरिंदमः ॥ 16 ॥

  17. ततः सात्यकिम आदाय पाणौ हार्दिक्यम एव च ऋषिभिस तैर अनुज्ञातॊ निर्ययौ मधुसूदनः ॥ 17 ॥

  18. ऋषयॊ ऽनतर्हिता जग्मुस ततस ते नारदादयः तस्मिन कॊलाहले वृत्ते तद अद्भुतम अभूत तदा ॥ 18 ॥

  19. तं परस्थितम अभिप्रेक्ष्य कौरवाः सह राजभिः अनुजग्मुर नरव्याघ्रं देवा इव शतक्रतुम ॥ 19 ॥

  20. अचिन्तयन्न अमेयात्मा सर्वं तद राजमण्डलम निश्चक्राम ततः शौरिः सधूम इव पावकः ॥ 20 ॥

  21. ततॊ रथेन शुभ्रेण महता किङ्किणीकिना हेमजालविचित्रेण लघुना मेघनादिना ॥ 21 ॥

  22. सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना सैन्यसुग्रीव युक्तेन परत्यदृश्यत दारुकः ॥ 22 ॥

  23. तथैव रथम आस्थाय कृतवर्मा महारथः वृष्णीनां संमतॊ वीरॊ हार्दिक्यः परत्यदृश्यत ॥ 23 ॥

  24. उपस्थित रथं शौरिं परयास्यन्तम अरिंदमम धृतराष्ट्रॊ महाराजः पुनर एवाभ्यभाषत ॥ 24 ॥

  25. यावद बलं मे पुत्रेषु पश्यस्य एतज जनार्दन परत्यक्षं ते न ते किं चित परॊक्षं शत्रुकर्शन ॥ 25 ॥

  26. कुरूणां शमम इच्छन्तं यतमानं च केशव विदित्वैताम अवस्थां मे नातिशङ्कितुम अर्हसि ॥ 26 ॥

  27. न मे पापॊ ऽसत्य अभिप्रायः पाण्डवान परति केशव जञातम एव हि ते वाक्यं यन मयॊक्तः सुयॊधनः ॥ 27 ॥

  28. जानन्ति कुरवः सर्वे राजानश चैव पार्थिवाः शमे परयतमानं मां सर्वयत्नेन माधव ॥ 28 ॥

  29. ततॊ ऽबरवीन महाबाहुर धृतराष्ट्रं जनेश्वरम दरॊणं पितामहं भीष्मं कषत्तारं बाह्लिकं कृपम ॥ 29 ॥

  30. परत्यक्षम एतद भवतां यद्वृत्तं कुरुसंसदि यथा चाशिष्टवन मन्दॊ रॊषाद असकृद उत्थितः ॥ 30 ॥

  31. वदत्य अनीशम आत्मानं धृतराष्ट्रॊ महीपतिः आपृच्छे भवतः सर्वान गमिष्यामि युधिष्ठिरम ॥ 31 ॥

  32. आमन्त्र्य परस्थितं शौरिं रथस्थं पुरुषर्षभम अनुजग्मुर महेष्वासाः परवीरा भरतर्षभाः ॥ 32 ॥

  33. भीष्मॊ दरॊणः कृपः कषत्ता धृतराष्ट्रॊ ऽथ बाह्लिकः अश्वत्थामा विकर्णश च युयुत्सुश च महारथः ॥ 33 ॥

  34. ततॊ रथेन शुभ्रेण महता किङ्किणीकिना कुरूणां पश्यतां परायात पृथां दरष्टुं पितृष्वसाम ॥ 34 ॥

Reach this point to mark the section finished.

Continue to अध्याय 130

Previous: अध्याय 128