धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 128

  1. [व] तत तु वाक्यम अनादृत्य सॊ ऽरथवन मातृभाषितम पुनः परतस्थे संरम्भत सकाशम अकृतात्मनाम ॥ 1 ॥

  2. ततः सभाया निर्गम्य मन्त्रयाम आस कौरवः सौबलेन मताक्षेण राज्ञा शकुनिना सह ॥ 2 ॥

  3. दुर्यॊधनस्य कर्णस्य शकुनेः सौबलस्य च दुःशासनचतुर्थानाम इदम आसीद विचेष्टितम ॥ 3 ॥

  4. पुरायम अस्मान गृह्णाति कषिप्रकारी जनार्दनः सहितॊ धृतराष्ट्रेण राज्ञा शांतनवेन च ॥ 4 ॥

  5. वयम एव हृषीकेशं निगृह्णीम बलाद इव परसह्य पुरुषव्याघ्रम इन्द्रॊ वैरॊचनिं यथा ॥ 5 ॥

  6. शरुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवॊरगाः ॥ 6 ॥

  7. अयं हय एषां महाबाहुः सर्वेषां शर्म वर्म च अस्मिन गृहीते वरदे ऋषभे सर्वसात्वताम निरुद्यमा भविष्यन्ति पाण्डवाः सॊमकैः सह ॥ 7 ॥

  8. तस्माद वयम इहैवैनं केशवं कषिप्रकारिणम करॊशतॊ धृतराष्ट्रस्य बद्ध्वा यॊत्स्यामहे रिपून ॥ 8 ॥

  9. तेषां पापम अभिप्रायं पापानां दुष्टचेतसाम इङ्गितज्ञः कविः कषिप्रम अन्वबुध्यत सात्यकिः ॥ 9 ॥

  10. तदर्थम अभिनिष्क्रम्य हार्दिक्येन सहास्थितः अब्रवीत कृतवर्माणं कषिप्रं यॊजय वाहिनीम ॥ 10 ॥

  11. वयूढानीकः सभा दवारम उपतिष्ठस्व दंशितः यावद आख्याम्य अहं चैतत कृष्णायाक्लिष्ट कर्मणे ॥ 11 ॥

  12. स परविश्य सभां वीरः सिंहॊ गिरिगुहाम इव आचष्ट तम अभिप्रायं केशवाय महात्मने ॥ 12 ॥

  13. धृतराष्ट्रं ततश चैव विदुरं चान्वभाषत तेषाम एतम अभिप्रायम आचचक्षे समयन्न इव ॥ 13 ॥

  14. धर्माद अपेतम अर्थाच च कर्म साधु विगर्हितम मन्दाः कर्तुम इहेच्छन्ति न चावाप्यं कथं चन ॥ 14 ॥

  15. पुरा विकुर्वते मूढाः पापात्मानः समागताः धर्षिताः काममन्युभ्यां करॊधलॊभ वशानुगाः ॥ 15 ॥

  16. इमं हि पुण्डरीकाक्षं जिघृक्षन्त्य अल्पचेतसः पटेनानिगं परज्वलितं यथा बाला यथा जडाः ॥ 16 ॥

  17. सात्यकेस तद वचः शरुत्वा विदुरॊ दीर्घदर्शिवान धृतराष्ट्रं महाबाहुम अब्रवीत कुरुसंसदि ॥ 17 ॥

  18. राजन परीतकालास ते पुत्राः सर्वे परंतप अयशस्यम अशक्यं च कर्म कर्तुं समुद्यताः ॥ 18 ॥

  19. इमं हि पुण्डरीकाक्षम अभिभूय परसह्य च निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम ॥ 19 ॥

  20. इमं पुरुषशार्दूलम अप्रधृष्यं दुरासदम आसाद्य न भविष्यन्ति पतंगा इव पावकम ॥ 20 ॥

  21. अयम इच्छन हि तान सर्वान यतमानाञ जनार्दनः सिंहॊ मृगान इव करुद्धॊ गमयेद यमसादनम ॥ 21 ॥

  22. न तव अयं निन्तिदं कर्म कुर्यात कृष्णः कथं चन न च धर्माद अपक्रामेद अच्युतः पुरुषॊत्तमः ॥ 22 ॥

  23. विदुरेणैवम उक्ते तु केशवॊ वाक्यम अब्रवीत धृतराष्ट्रम अभिप्रेक्ष्य सुहृदां शृण्वतां मिथः ॥ 23 ॥

  24. राजन्न एते यदि करुद्धा मां निगृह्णीयुर ओजसा एते वा माम अहं वैनान अनुजानीहि पार्थिव ॥ 24 ॥

  25. एतान हि सर्वान संरब्धान नियन्तुम अहम उत्सहे न तव अहं निन्दितं कर्म कुर्यां पापं कथं चन ॥ 25 ॥

  26. पाण्डवार्थे हि लुभ्यन्तः सवार्थाद धास्यन्ति ते सुताः एते चेद एवम इच्छन्ति कृतकार्यॊ युधिष्ठिरः ॥ 26 ॥

  27. अद्यैव हय अहम एतांश च ये चैतान अनु भारत निगृह्य राजन पार्थेभ्यॊ दद्यां किं दुष्कृतं भवेत ॥ 27 ॥

  28. इदं तु न परवर्तेयं निन्दितं कर्म भारत संनिधौ ते महाराज करॊधजं पापबुद्धिजम ॥ 28 ॥

  29. एष दुर्यॊधनॊ राजन यथेच्छति तथास्तु तत अहं तु सर्वान समयान अनुजानामि भारत ॥ 29 ॥

  30. एतच छरुत्वा तु विदुरं धृतराष्ट्रॊ ऽभयभाषत कषिप्रम आनय तं पापं राज्यलुब्धं सुयॊधनम ॥ 30 ॥

  31. सह मित्रं सहामात्यं ससॊदर्यं सहानुगम शक्नुयां यदि पन्थानम अवतारयितुं पुनः ॥ 31 ॥

  32. ततॊ दुर्यॊधनं कषत्ता पुनः परावेशयत सभाम अकामं भरातृभिः सार्धं राजभिः परिवारितम ॥ 32 ॥

  33. अथ दुर्यॊधनं राजा धृतराष्ट्रॊ ऽभयभाषत कर्ण दुःशासनाभ्यां च राजभिश चाभिसंवृतम ॥ 33 ॥

  34. नृशंसपापभूयिष्ठ कषुद्रकर्म सहायवान पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि ॥ 34 ॥

  35. अशक्यम अयशस्यं च सद्भिश चापि विगर्हितम यथा तवादृशकॊ मूढॊ वयवस्येत कुलपांसनः ॥ 35 ॥

  36. तवम इमं पुण्डरीकाक्षम अप्रधृष्यं दुरासदम पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि ॥ 36 ॥

  37. यॊ न शक्यॊ बलात कर्तुं देवैर अपि सवासवैः तं तवं परार्थयसे मन्दबालश चन्द्रमसं यथा ॥ 37 ॥

  38. देवैर मनुष्यैर गन्धर्वैर असुरैर उरगैश च यः न सॊढुं समरे शक्यस तं न बुध्यसि केशवम ॥ 38 ॥

  39. दुर्ग्रहः पाणिना वायुर दुःस्पर्शः पाणिना शशी दुर्धरा पृथिवी मूर्ध्ना दुर्ग्रहः केशवॊ बलात ॥ 39 ॥

  40. इत्य उक्ते धृतराष्ट्रेण कषत्तापि विदुरॊ ऽबरवीत दुर्यॊधनम अभिप्रेक्ष्य धार्तराष्ट्रम अमर्षणम ॥ 40 ॥

  41. सौभद्वारे वानरेन्द्रॊ दविविदॊ नाम नामतः शिला वर्षेण महता छादयाम आस केशवम ॥ 41 ॥

  42. गरहीतुकामॊ विक्रम्य सर्वयत्नेन माधवम गरहीतुं नाशकत तत्र तं तवं परार्थयसे बलात ॥ 42 ॥

  43. निर्मॊचने षट सहस्राः पाशैर बद्ध्वा महासुराः गरहीतुं नाशकंश चैनं तं तवं परार्थयसे बलात ॥ 43 ॥

  44. पराग्ज्यॊतिष गतं शौरिं नरकः सह दानवैः गरहीतुं नाशकत तत्र तं तवं परार्थयसे बलात ॥ 44 ॥

  45. अनेन हि हता बाल्ये पूतना शिशुना तथा गॊवर्धनॊ धारितश च गवार्थे भरतर्षभ ॥ 45 ॥

  46. अरिष्टॊ धेनुकश चैव चाणूरश च महाबलः अश्वराजश च निहतः कंसश चारिष्टम आचरन ॥ 46 ॥

  47. जरासंधश च वक्रश च शिशुपालश च वीर्यवान बाणश च निहतः संख्ये राजान च निषूदिताः ॥ 47 ॥

  48. वरुणॊ निर्जितॊ राजा पावकश चामितौजसा पारिजातं च हरता जितः साक्षाच छची पतिः ॥ 48 ॥

  49. एकार्णवे शयानेन हतौ तौ मधुकैटभौ जन्मान्तरम उपागम्य हयग्रीवस तथा हतः ॥ 49 ॥

  50. अयं कर्ता न करियते कारणं चापि पौरुषे यद यद इच्छेद अयं शौरिस तत तत कुर्याद अयत्नतः ॥ 50 ॥

  51. तं न बुध्यसि गॊविन्दं घॊरविक्रमम अच्युतम आशीविषम इव करुद्धं तेजॊराशिम अनिर्जितम ॥ 51 ॥

  52. परधर्षयन महाबाहुं कृष्णम अक्लिष्टकारिणम पतंगॊ ऽगनिम इवासाद्य सामात्यॊ न भविष्यसि ॥ 52 ॥

Reach this point to mark the section finished.

Continue to अध्याय 129

Previous: अध्याय 127