धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 127

  1. [व] कृष्णस्य वचनं शरुत्वा धृतराष्ट्रॊ जनेश्वरः विदुरं सर्वधर्मज्ञं तवरमाणॊ ऽभयभाषत ॥ 1 ॥

  2. गच्छ तात महाप्राज्ञां गान्धारीं दीर्घदर्शिनीम आनयेह तया सार्धम अनुनेष्यामि दुर्मतिम ॥ 2 ॥

  3. यदि सापि दुरात्मानं शमयेद दुष्टचेतसम अपि कृष्णाय सुहृदस तिष्ठेम वचने वयम ॥ 3 ॥

  4. अपि लॊभाभिभूतस्य पन्थानम अनुदर्शयेत दुर्बुद्धेर दुःसहायस्य समर्थं बरुवती वचः ॥ 4 ॥

  5. अपि नॊ वयसनं घॊरं दुर्यॊधनकृतं महत शमयेच चिररात्राय यॊगक्षेमवद अव्ययम ॥ 5 ॥

  6. राज्ञस तु वचनं शरुत्वा विदुरॊ दीर्घदर्शिनीम आनयाम आस गान्धारीं धृतराष्ट्रस्य शासनात ॥ 6 ॥

  7. एष गान्धारि पुत्रस ते दुरात्मा शासनातिगः ऐश्वर्यलॊभाद ऐश्वर्यं जीवितं च परहास्यति ॥ 7 ॥

  8. अशिष्टवद अमर्यादः पापैः सह दुरात्मभिः सभाया निर्गतॊ मूढॊ वयतिक्रम्य सुहृद वचः ॥ 8 ॥

  9. सा भर्तुर वचनं शरुत्वा राजपुत्री यशस्विनी अन्विच्छन्ती महच छरेयॊ गान्धारी वाक्यम अब्रवीत ॥ 9 ॥

  10. आनयेह सुतं कषिप्रं राज्यकामुकम आतुरम न हि राज्यम अशिष्टेन शक्यं धर्मार्थलॊपिना ॥ 10 ॥

  11. तवं हय एवात्र भृशं गर्ह्यॊ धृतराष्ट्र सुतप्रियः यॊ जानपापताम अस्य तत परज्ञाम अनुवर्तसे ॥ 11 ॥

  12. स एष काममन्युभ्यां परलब्धॊ मॊहम आस्थितः अशक्यॊ ऽदय तवया राजन विनिवर्तयितुं बलात ॥ 12 ॥

  13. राज्यप्रदाने मूढस्य बालिशस्य दुरात्मनः दुःसहायस्य लुब्धस्य धृतराष्ट्रॊ ऽशरुते फलम ॥ 13 ॥

  14. कथं हि सवजने भेदम उपेक्षेत महामतिः भिन्नं हि सवजनेन तवां परसहिष्यन्ति शत्रवः ॥ 14 ॥

  15. या हि शक्या महाराज साम्ना दानेन वा पुनः निस्तर्तुम आपदः सवेषु दण्डं कस तत्र पातयेत ॥ 15 ॥

  16. शासनाद धृतराष्ट्रस्य दुर्यॊधनम अमर्षणम मातुश च वचनात कषत्ता सभां परावेशयत पुनः ॥ 16 ॥

  17. स मातुर वचनाकाङ्क्षी परविवेश सभां पुनः अभिताम्रेक्षणः करॊधान निःश्वसन्न इव पन्नगः ॥ 17 ॥

  18. तं परविष्टम अभिप्रेक्ष्य पुत्रम उत्पथम आस्थितम विगर्हमाणा गान्धारी समर्थं वाक्यम अब्रवीत ॥ 18 ॥

  19. दुर्यॊधन निबॊधेदं वचनं मम पुत्रक हितं ते सानुबन्धस्य तथायत्यां सुखॊदयम ॥ 19 ॥

  20. भीष्मस्य तु पितुश चैव मम चापचितिः कृता भवेद दरॊण मुखानां च सुहृदां शाम्यता तवया ॥ 20 ॥

  21. न हि राज्यं महाप्राज्ञ सवेन कामेन शक्यते अवाप्तुं रक्षितुं वापि भॊक्तुं वा भरतर्षभ ॥ 21 ॥

  22. न हय अवश्येन्द्रियॊ राज्यम अश्नीयाद दीर्घम अन्तरम विजितात्मा तु मेधावी स राज्यम अभिपालयेत ॥ 22 ॥

  23. कामक्रॊधौ हि पुरुषम अर्थ्येभ्यॊ वयपकर्षतः तौ तु शत्रू विनिर्जित्य राजा विजयते महीम ॥ 23 ॥

  24. लॊकेश्वर परभुत्वं हि महद एतद दुरात्मभिः राज्यं नामेप्सितं सथानं न शक्यम अभिरक्षितुम ॥ 24 ॥

  25. इन्द्रियाणि महत परेप्सुर नियच्छेद अर्थधर्मयॊः इन्द्रियैर नियतैर बुद्धिर वर्धते ऽगनिर इवेन्धनैः ॥ 25 ॥

  26. अविध्येयानि हीमानि वयापादयितुम अप्य अलम अविधेया इवादान्ता हयाः पथि कुसारथिम ॥ 26 ॥

  27. अविजित्य य आत्मानम अमात्यान विजिगीषते अजितात्माजितामात्यः सॊ ऽवशः परिहीयते ॥ 27 ॥

  28. आत्मानम एव परथमं देशरूपेण यॊ जयेत ततॊ ऽमात्यान अमित्रांश च न मॊघं विजिगीषते ॥ 28 ॥

  29. वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु परीक्ष्य कारिणं धीरम अत्यन्तं शरीर निषेवते ॥ 29 ॥

  30. कषुद्राक्षेणेव जालेन झषाव अपिहिताव उभौ कामक्रॊधौ शरीरस्थौ परज्ञानं तौ विलुम्पतः ॥ 30 ॥

  31. याभ्यां हि देवाः सवर्यातुः सवर्गस्यापिदधुर मुखम बिभ्यतॊ ऽनुपरागस्य कामक्रॊधौ सम वर्धितौ ॥ 31 ॥

  32. कामं करॊधं च लॊभं च दम्भं दर्पं च भूमिपः सम्यग विजेतुं यॊ वेद स समीम अभिजायते ॥ 32 ॥

  33. सततं निग्रहे युक्त इन्द्रियाणां भवेन नृपः ईप्सन्न अर्थं च धर्मं च दविषतां च पराभवम ॥ 33 ॥

  34. कामाभिभूतः करॊधाद वा यॊ मिथ्या परतिपद्यते सवेषु चान्येषु वा तस्य न सहाया भवन्त्य उत ॥ 34 ॥

  35. एकीभूतैर महाप्राज्ञैः शूरैर अरिनिबर्हणैः पाण्डवैः पृथिवीं तात भॊक्ष्यसे सहितः सुखी ॥ 35 ॥

  36. यथा भीष्मः शांतनवॊ दरॊणश चापि महारथः आहतुस तात तः सत्यम अजेयौ कृष्ण पाण्डवौ ॥ 36 ॥

  37. परपद्यस्व महाबाहुं कृष्णम अक्लिष्टकारिणम परसन्नॊ हि सुखाय सयाद उभयॊर एव केशवः ॥ 37 ॥

  38. सुहेदाम अर्थकामानां यॊ न तिष्ठति शासने पराज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः ॥ 38 ॥

  39. न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम न चापि विजयॊ नित्यं मा युद्धे चेत आधिथाः ॥ 39 ॥

  40. भीष्मेण हि महाप्राज्ञ पित्रा ते बाह्लिकेन च दत्तॊ ऽंशः पाण्डुपुत्राणां भेदाद भीतैर अरिंदम ॥ 40 ॥

  41. तस्य चैतत परदानस्य फलम अद्यानुपश्यसि यद्भुङ्क्षे पृथिवीं सर्वां शूरैर निहतकण्टकाम ॥ 41 ॥

  42. परयच्छ पाण्डुपुत्राणाम्यथॊचितम अरिंदम यदीच्छसि सहामात्यॊ भॊक्तुम अर्धं महीक्षिताम ॥ 42 ॥

  43. अलम अर्धं पृथिव्यास ते सहामात्यस्य जीवनम सुहृदां वचने तिष्ठन यशः पराप्स्यसि भारत ॥ 43 ॥

  44. शरीमद्भिर आत्मवद्भिर हि बुद्धिमद्भिर जितेन्द्रियैः पाण्डवैर विग्रहस तात भरंशयेन महतः सुखात ॥ 44 ॥

  45. निगृह्य सुहृदां मन्युं शाधि राज्यं यथॊचितम सवम अंशं पाण्डुपुत्रेभ्यः परदाय भरतर्षभ ॥ 45 ॥

  46. अलम अह्ना निकारॊ ऽयं तरयॊदश समाः कृतः शमयैनं महाप्राज्ञ कामक्रॊधसमेधितम ॥ 46 ॥

  47. न चैष शक्तः पार्थानां यस तवदर्थम अभीप्सति सूतपुत्रॊ दृढक्रॊधॊ भराता दुःशासनश च ते ॥ 47 ॥

  48. भीष्मे दरॊणे कृपे कर्णे भीमसेने धनंजये धृष्टद्युम्ने च संक्रुद्धे न सयुः सर्वाः परजा धरुवम ॥ 48 ॥

  49. अमर्षवशम आपन्नॊ मा कुरूंस तात जीघनः सर्वा हि पृथिवी सपृष्टा तवत पाण्डव कृते वधम ॥ 49 ॥

  50. यच च तवं मन्यसे मूढ भीष्मद्रॊणकृपादयः यॊत्स्यन्ते सर्वशक्त्येति नैतद अद्यॊपपद्यते ॥ 50 ॥

  51. समं हि राज्यं परीतिश च सथानं च विजितात्मनाम पाण्डवेष्व अथ युष्मासु धर्मस तव अभ्यधिकस ततः ॥ 51 ॥

  52. राजपिण्ड भयाद एते यदि हास्यन्ति जीवितम न हि शक्ष्यन्ति राजानं युधिष्ठिरम उदीक्षितुम ॥ 52 ॥

  53. न लॊभाद अर्थसंपत्तिर नराणाम इह दृश्यते तद अलं तात लॊभेन परशाम्य भरतर्षभ ॥ 53 ॥

Reach this point to mark the section finished.

Continue to अध्याय 128

Previous: अध्याय 126