[व] ततः परहस्य दाशार्हः करॊधपर्याकुलेक्षणः दुर्यॊधनम इदं वाक्यम अब्रवीत कुरुसंसदि ॥ 1 ॥
लप्स्यसे वीरशयनं कामम एतद अवाप्स्यसि सथिरॊ भव सहामात्यॊ विमर्दॊ भविता महान ॥ 2 ॥
यच च वं मन्यसे मूढ न मे कश चिद वयतिक्रमः पाण्डवेष्व इति तत सर्वं निबॊधत नराधिपाः ॥ 3 ॥
शरिया संतप्यमानेन पाण्डवानां महात्मनाम तवया दुर्मन्त्रितं दयूतं सौबलेन च भारत ॥ 4 ॥
कथं च जञातयस तात शरेयांसः साधु संमताः तथान्याय्यम उपस्थातुं जिह्मेनाजिह्म चारिणः ॥ 5 ॥
अक्षद्यूतं महाप्राज्ञ सताम अरति नाशनम असतां तत्र जायन्ते भेदाश च वयसनानि च ॥ 6 ॥
तद इदं वयसनं घॊरं तवया दयूतमुखं कृतम असमीक्ष्य सद आचारैः सार्धं पापानुबन्धनैः ॥ 7 ॥
कश चान्यॊ जञातिभार्यां वै विप्रकर्तुं तथार्हति आनीय च सभां वक्तुं यथॊक्ता दरौपदी तवया ॥ 8 ॥
कुलीना शीलसंपन्ना पराणेभ्यॊ ऽपि गरीयसी महिषी पाण्डुपुत्राणां तथा विनिकृता तवया ॥ 9 ॥
जानन्ति कुरवः सर्वे यथॊक्ताः कुरुसंसदि दुःशासनेन कौन्तेयाः परव्रजन्तः परंतपाः ॥ 10 ॥
सम्यग्वृत्तेष्व अलुब्धेषु सततं धर्मचारिषु सवेषु बन्धुषु कः साधुश चरेद एवम असांप्रतम ॥ 11 ॥
नृशंसानाम अनार्याणां परुषाणां च भाषणम कर्ण दुःशासनाभ्यां च तवया च बहुशः कृतम ॥ 12 ॥
सह मात्रा परदग्धुं तान बालकान वारणावते आस्थितः परमं यत्नं न समृद्धं च तत तव ॥ 13 ॥
ऊषुश च सुचिरं कालं परच्छन्नाः पाण्डवास तदा मात्रा सहैक चक्रायां बराह्मणस्य निवेशने ॥ 14 ॥
विषेण सर्पबन्धैर्श च यतिताः पाण्डवास तवयाः सर्वॊपायैर विनाशाय न समृद्धं च तत तव ॥ 15 ॥
एवं बुद्धिः पाण्डवेषु मिथ्यावृत्थिः सदा भवान कथं ते नापराधॊ ऽसति पाण्डवेषु महात्मसु ॥ 16 ॥
कृत्वा बहून्य अकार्याणि पाण्डवेषु नृशंसवत मिथ्यावृत्तिर अनार्यः सन्न अद्य विप्रतिपद्यसे ॥ 17 ॥
माता पितृभ्यां भीष्मेण दरॊणेन विदुरेण च शाम्येति मुहुर उक्तॊ ऽसि न च शाम्यसि पार्थिव ॥ 18 ॥
शमे हि सुमहान अर्थस तव पार्थस्य चॊभयॊः न च रॊचयसे राजन किम अन्यद बुद्धिलाभवात ॥ 19 ॥
न शर्म पराप्स्यसे राजन्न उत्क्रम्य सुहृदां वचः अधर्म्यम अयशस्यं च करियते पार्थिव तवया ॥ 20 ॥
एवं बरुवति दाशार्हे दुर्यॊधनम अमर्षणम दुःशासन इदं वाक्यम अब्रवीत कुरुसंसदि ॥ 21 ॥
न चेत संधास्यसे राजन सवेन कामेन पाण्डवैः बद्ध्वा किल तवां दास्यन्ति कुन्तीपुत्राय कौरवाः ॥ 22 ॥
वैकर्तनं तवां च मां च तरीन एतान मनुजर्षभ पाण्डवेभ्यः परदास्यन्ति भीष्मॊ दरॊणः पिता च ते ॥ 23 ॥
भरातुर एतद वचः शरुत्वा धार्तराष्ट्रः सुयॊधनः करुद्धः परातिष्ठतॊत्थाय महानाग इव शवसन ॥ 24 ॥
विदुरं धृतराष्ट्रं च महाराजं च बाह्लिकम कृपं च सॊमदत्तं च भीष्मं दरॊणं जनार्दनम ॥ 25 ॥
सर्वान एतान अनादृत्य दुर्मतिर निरपत्रपः अशिष्टवद अमर्यादॊ मानी मान्यावमानिता ॥ 26 ॥
तं परस्थितम अभिप्रेक्ष्य भरातरॊ मनुजर्षभम अनुजग्मुः सहामात्या राजानश चापि सर्वशः ॥ 27 ॥
सभायाम उत्थितं करुद्धं परस्थितं भरातृभिः सह दुर्यॊधनम अभिप्रेष्क्य भीष्मः शांतनवॊ ऽबरवीत ॥ 28 ॥
धर्मार्थाव अभिसंत्यज्य संरम्भं यॊ ऽनुमन्यते हसन्ति वयसने तस्य दुर्हृदॊ नचिराद इव ॥ 29 ॥
दूरात्मा राजपुत्रायं धार्तराष्ट्रॊ नुपायवित मिथ्याभिमानी राज्यस्य करॊधलॊभ वशानुगः ॥ 30 ॥
कालपक्वम इदं मन्ये सर्वक्षत्रं जनार्दन सर्वे हय अनुसृता मॊहात पार्थिवाः सह मन्त्रिभिः ॥ 31 ॥
भीष्मस्याथवचः शरुत्वा दाशार्हः पुष्करेक्षणः भीष्मद्रॊणमुखान सर्वान अभ्यभाषत वीर्यवान ॥ 32 ॥
सर्वेषां कुरुवृद्धानां महान अयम अतिक्रमः परसह्य मन्दम ऐश्वर्ये न नियच्छत यन नृपम ॥ 33 ॥
तत्र कार्यम अहं मन्ये पराप्तकालम अरिंदमाः करियमाणे भवेच छरेयस तत सर्वं शृणुतानघाः ॥ 34 ॥
परत्यक्षम एतद भवतां यद वक्ष्यामि हितं वचः भवताम आनुकूल्येन यदि रॊचेत भारताः ॥ 35 ॥
भॊजराजस्य वृद्धस्य दुराचारॊ हय अनात्मवान जीवतः पितुर ऐश्वर्यं हृत्वा मन्युवशं गतः ॥ 36 ॥
उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः जञातीनां हितकामेन मया शस्तॊ महामृधे ॥ 37 ॥
आहुकः पुनर अस्माभिर जञातिभिश चापि सत्कृतः उग्रसेनः कृतॊ राजा भॊजराजन्यवर्धनः ॥ 38 ॥
कंसम एकं परित्यज्य कुलार्थे सर्वयादवाः संभूय सुखम एधन्ते भारतान्धकवृष्णयः ॥ 39 ॥
अपि चाप्य अवदद राजन परमेष्ठी परजापतिः वयूढे देवासुरे युद्धे ऽभयुद्यतेष्व आयुधेषु च ॥ 40 ॥
दवैधी भूतेषु लॊकेषु विनश्यत्सु च भारत अब्रवीत सृष्टिमान देवॊ भगवाँल लॊकभावनः ॥ 41 ॥
पराभविष्यन्त्य असुरा दैतेया दानवैः सह आदित्या वसवॊ रुद्रा भविष्यन्ति दिवौकसः ॥ 42 ॥
देवासुरमनुष्याश च गन्धर्वॊरगराक्षसाः अस्मिन युद्धे सुसंयत्ता हनिष्यन्ति परस्परम ॥ 43 ॥
इति मत्वाब्रवीद धर्मं परमेष्ठी परजापतिः वरुणाय परयच्छैतान बद्ध्वा दैतेय दानवान ॥ 44 ॥
एवम उक्तस ततॊ धर्मॊ नियॊगात परमेष्ठिनः वरुणाय ददौ सर्वान बद्ध्वा दैत्येय दानवान ॥ 45 ॥
तान बद्ध्वा धर्मपाशैश च सवैश च पाशैर जलेश्वरः वरुणः सागरे यत्तॊ नित्यं रक्षति दानवान ॥ 46 ॥
तथा दुर्यॊधनं कर्णं शकुनिं चापि सौबलम बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः परयच्छत ॥ 47 ॥
तयजेत कुलार्थे पुरुषं गरामस्यार्थे कुलं तयजेत गरामं जनपदस्यार्थे आत्मार्थे पृथिवीं तयजेत ॥ 48 ॥
राजन दुर्यॊधनं बद्ध्वा ततः संशाम्य पाण्डवैः तवत्कृते न विनश्येयुः कषत्रियाः कषत्रियर्षभ ॥ 49 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 126
Reach this point to mark the section finished.
Continue to अध्याय 127