[व] शरुत्वा दुर्यॊधनॊ वाक्यम अप्रियं कुरुसंसदि परत्युवाच महाबाहुं वासुदेवं यशस्विनम ॥ 1 ॥
परसमीक्ष्य भवान एतद वक्तुम अर्हति केशव माम एव हि विशेषेण विभाष्य परिगर्हसे ॥ 2 ॥
भक्तिवादेन पार्थानाम अकस्मान मधुसूदन भवान गर्हयते नित्यं किं समीक्ष्य बलाबलम ॥ 3 ॥
भवान कषत्ता च राजा च आचार्यॊ वा पितामहः माम एव परिगर्हन्ते नान्यं कं चन पार्थिवम ॥ 4 ॥
न चाहं लक्षये कं चिद वयभिचारम इहात्मनः अथ सर्वे भवन्तॊ मां विद्विषन्ति सराजकाः ॥ 5 ॥
न चाहं कं चिद अत्यर्थम अपराधम अरिंदम विचिन्तयन परपश्यामि सुसूक्ष्मम अपि केशव ॥ 6 ॥
परियाभ्युपगते दयूते पाण्डवा मधुसूदन जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम ॥ 7 ॥
यत पुनर दरविणं किं चित तत्राजीयन्त पाण्डवाः तेभ्य एवाभ्यनुज्ञातं तत तदा मधुसूदन ॥ 8 ॥
अपराधॊ न चास्माकं यत ते हय अक्षपराजिताः अजेया जयतां शरेष्ठ पार्थाः परव्राजिता वनम ॥ 9 ॥
केन चाप्य अपवादेन विरुध्यन्ते ऽरिभिः सह अशक्ताः पाण्डवाः कृष्ण परहृष्टाः परत्यमित्रवत ॥ 10 ॥
किम अस्माभिः कृतं तेषां कस्मिन वा पुनर आगसि धार्तराष्ट्राञ जिघांसन्ति पाण्डवाः सृञ्जयैः सह ॥ 11 ॥
न चापि वयम उग्रेण कर्मणा वचनेन वा वित्रस्ताः परणमामेह भयाद अपि शतक्रतॊः ॥ 12 ॥
न च तं कृष्ण पश्यामि कषत्रधर्मम अनुष्ठितम उत्सहेत युधा जेतुं यॊ नः शत्रुनिबर्हण ॥ 13 ॥
न हि भीष्म कृप दरॊणाः सगणा मधुसूदन देवैर अपि युधा जेतुं शक्याः किम उत पाण्डवैः ॥ 14 ॥
सवधर्मम अनुतिष्ठन्तॊ यदि माधव संयुगे शस्त्रेण निधनं काले पराप्स्यामः सवर्गम एव तत ॥ 15 ॥
मुख्यश चैवैष नॊ धर्मः कषत्रियाणां जनार्दन यच छयीमहि संग्रामे शरतल्पगता वयम ॥ 16 ॥
ते वयं वीरशयनं पराप्स्यामॊ यदि संयुगे अप्रणम्यैव शत्रूणां न नस तप्स्यति माधव ॥ 17 ॥
कश च जातु कुले जातः कषत्रधर्मेण वर्तयन भयाद वृत्तिं समीक्ष्यैवं परणमेद इह कस्य चित ॥ 18 ॥
उद्यच्छेद एव न नमेद उद्यमॊ हय एव पौरुषम अप्य अपर्वणि भज्येत न नमेद इह कस्य चित ॥ 19 ॥
इति मातङ्गवचनं परीप्सन्ति हितेप्सवः धर्माय चैव परणमेद बराह्मणेभ्यश च मद्विधः ॥ 20 ॥
अचिन्तयन कं चिद अन्यं यावज जीवं तथाचरेत एष धर्मः कषत्रियाणां मतम एतच च मे सदा ॥ 21 ॥
राज्यांशश चाभ्यनुज्ञातॊ यॊ मे पित्रा पुराभवत न स लभ्यः पुनर्जातु मयि जीवति केशव ॥ 22 ॥
यावच च राजा धरियते धृतराष्ट्रॊ जनार्दन नयस्तशस्त्रा वयं ते वाप्य उपजीवाम माधव ॥ 23 ॥
यद्य अदेयं पुरा दत्तं राज्यं परवतॊ मम अज्ञानाद वा भयाद वापि मयि बाले जनार्दन ॥ 24 ॥
न तद अद्य पुनर लभ्यं पाण्डवै वृष्णिनन्दन धरियमाणे महाबाहॊ मयि संप्रति केशव ॥ 25 ॥
यावद धि सूच्यास तीक्ष्णाया विध्येद अग्रेण माधव तावद अप्य अपरित्याज्यं भूमेर नः पाण्डवान परति ॥ 26 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 125
Reach this point to mark the section finished.
Continue to अध्याय 126