धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 124

  1. [व] धृतराष्ट्रवचः शरुत्वा भीष्मद्रॊणौ समर्थ्य तौ दुर्यॊधनम इदं वाक्यम ऊचतुः शासनातिगम ॥ 1 ॥

  2. यावत कृष्णाव असंनद्धौ यावत तिष्ठति गाण्डिवम यावद धौम्यॊ न सेनाग्नौ जुह्यॊतीह दविषद बलम ॥ 2 ॥

  3. यावन न परेक्षते करुद्धः सेनां तव युधिष्ठिरः हरीनिषेधॊ महेष्वासस तावच छाम्यतु वैशसम ॥ 3 ॥

  4. यावन न दृष्यते पार्थः सवेष्व अनीकेष्व अवस्थितः भीमसेनॊ महैष्वासस तावच छाम्यतु वैशसम ॥ 4 ॥

  5. यावन न चरते मार्गान पृतनाम अभिहर्षयन यावन न शातयत्य आजौ शिरांसि गतयॊद्निनाम ॥ 5 ॥

  6. गदया वीर घातिन्या फलानीव वनस्पतेः कालेन परिपक्वानि तावच छाम्यतु वैशसम ॥ 6 ॥

  7. नकुलः सहदेवश च धृष्टद्युम्नश च पार्षतः विराटश च शिखण्डी च शैशुपालिश च दंशिताः ॥ 7 ॥

  8. यावन न परविशन्त्य एते नक्रा इव महार्णवम कृतास्त्राः कषिप्रम अस्यन्तस तावच छाम्यतु वैशसम ॥ 8 ॥

  9. यावन न सुकुमारेषु शरीरेषु महीक्षिताम गार्ध्रपत्राः पतन्त्य उग्रास तावच छाम्यतु वैशसम ॥ 9 ॥

  10. चन्दनागरुदिग्धेषु हारनिष्कधरेषु च नॊरःसु यावद यॊधानां महेष्वासैर महेषवः ॥ 10 ॥

  11. कृतास्त्रैः कषिप्रम अस्यद्भिर दूरपातिभिर आयसाः अभिलक्ष्यैर निपात्यन्ते तावच छाम्यतु वैशसम ॥ 11 ॥

  12. अभिवादयमानं तवां शिरसा राजकुञ्जरः पाणिभ्यां परतिगृह्णातु धर्मराजॊ युधिष्ठिरः ॥ 12 ॥

  13. धवजाङ्कुश पताकाङ्कं दक्षिणं ते सुदक्षिणः सकन्धे निक्षिपतां बाहुं शान्तये भरतर्षभ ॥ 13 ॥

  14. रत्नौषधि समेतेन रत्नाङ्गुलि तलेन च उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु ॥ 14 ॥

  15. शालस्कन्धॊ महाबाहुस तवां सवजानॊ वृकॊदरः साम्नाभिवदतां चापि शान्तये भरतर्षभ ॥ 15 ॥

  16. अर्जुनेन यमाभ्यां च तरिभिस तैर अभिवादितः मूर्ध्नि तान समुपाघ्राय परेम्णाभिवद पार्थिव ॥ 16 ॥

  17. दृष्ट्वा तवां पाण्डवैर वीरैर भरातृभिः सह संगतम यावद आनन्दजाश्रूणि परमुञ्चन्तु नराधिपाः ॥ 17 ॥

  18. घुष्यतां राजधानीषु सर्वसंपन महीक्षिताम पृथिवी भरातृभावेन भुज्यतां विज्वरॊ भव ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 125

Previous: अध्याय 123