धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 123

  1. [व] ततः शांतनवॊ भीष्मॊ दुर्यॊधनम अमर्षणम केशवस्य वचः शरुत्वा परॊवाच भरतर्षभ ॥ 1 ॥

  2. कृष्णेन वाक्यम उक्तॊ ऽसि सुहृदां शमम इच्छता अनुपश्यस्व तत तात मा मन्युवशम अन्वगाः ॥ 2 ॥

  3. अकृत्वा वचनं तात केशवस्य महात्मनः शरेयॊ न जातु न सुखं न कल्याणम अवाप्स्यसि ॥ 3 ॥

  4. धर्म्यम अर्थं महाबाहुर आह तवां तात केशवः तम अर्थम अभिपद्यस्व मा राजन नीनशः परजाः ॥ 4 ॥

  5. इमां शरियं परज्वलितां भारतीं सर्वराजसु जीवतॊ धृतराष्ट्रस्य दौरात्म्याद भरंशयिष्यसि ॥ 5 ॥

  6. आत्मानं च सहामात्यं सपुत्रपशुबान्धवम सह मित्रम असद बुद्ध्या जीविताद भरंशयिष्यसि ॥ 6 ॥

  7. अतिक्रामन केशवस्य तथ्यं वचनम अर्थवत पितुश च भतर शरेष्ठ विदुरस्य च धीमतः ॥ 7 ॥

  8. मा कुलघ्नॊ ऽनतपुरुषॊ दुर्मतिः कापथं गमः पितरं मातरं चैव वृद्धौ शॊकाय मा ददः ॥ 8 ॥

  9. अथ दरॊणॊ ऽबरवीत तत्र दुर्यॊधनम इदं वचः अमर्षवशम आपन्नॊ निःश्वसन्तं पुनः पुनः ॥ 9 ॥

  10. धर्मार्थयुक्तं वचनम आह तवां तात केशवः तथा भीष्मः शांतनवस तज जुषस्व नराधिप ॥ 10 ॥

  11. पराज्ञौ मेधाविनौ दान्ताव अर्थकामौ बहुश्रुतौ आहतुस तवां हितं वाक्यं तद आदत्स्व परंतप ॥ 11 ॥

  12. अनुतिष्ठ महाप्राज्ञ कृष्ण भीष्मौ यद ऊचतुः मा वचॊ लघु बुद्धीनां समास्थास तवं परंतप ॥ 12 ॥

  13. ये तवां परॊत्साहयन्त्य एते नैते कृत्याय कर्हि चित वैरं परेषां गरीवायां परतिमॊक्ष्यन्ति संयुगे ॥ 13 ॥

  14. मा कुरूञ जीघनः सर्वान पुत्रान भरातॄंस तथैव च वासुदेवार्जुनौ यत्र विद्ध्य अजेयं बलं हि तत ॥ 14 ॥

  15. एतच चैव मतं सत्यं सुहृदॊः कृष्ण भीष्मयॊः यदि नादास्यसे तात पश्चात तप्स्यसि भारत ॥ 15 ॥

  16. यथॊक्तं जामदग्न्येन भूयान एव ततॊ ऽरजुनः कृष्णॊ हि देवकीपुत्रॊ देवैर अपि दुरुत्सहः ॥ 16 ॥

  17. किं ते सुखप्रियेणेह परॊक्तेन भरतर्षभ एतत ते सर्वम आख्यातं यथेच्छसि तथा कुरु न हि तवाम उत्सहे वक्तुं भूयॊ भरतसत्तम ॥ 17 ॥

  18. तस्मिन वाक्यान्तरे वाक्यं कषत्तापि विदुरॊ ऽबरवीत दुर्यॊधनम अभिप्रेक्ष्य धार्तराष्ट्रम अमर्षणम ॥ 18 ॥

  19. दुर्यॊधन न शॊचामि तवाम अहं भरतर्षभ इमौ तु वृद्धौ शॊचामि गान्धारीं पितरं च ते ॥ 19 ॥

  20. याव अनाथौ चरिष्येते तवया नाथेन दुर्हृदा हतमित्रौ हतामात्यौ लूनपक्षाव इव दविजौ ॥ 20 ॥

  21. भिक्षुकौ विचरिष्येते शॊचन्तौ पृथिवीम इमाम कुलघ्नम ईदृशं पापं जनयित्वा कुपूरुषम ॥ 21 ॥

  22. अथ दुर्यॊधनं राजा धृतराष्ट्रॊ ऽभयभाषत आसीनं भरातृभिः सार्धं राजभिः परिवारितम ॥ 22 ॥

  23. दुर्यॊधन निबॊधेदं शौरिणॊक्तं महात्मना आदत्स्व शिवम अत्यन्तं यॊगक्षेमवद अव्ययम ॥ 23 ॥

  24. अनेन हि सहायेन कृष्णेनाक्लिष्ट कर्मणा इष्टान सर्वान अभिप्रायान पराप्स्यामः सर्वराजसु ॥ 24 ॥

  25. सुसंहितः केशवेन गच्छ तात युधिष्ठिरम चर सवस्त्ययनं कृत्ष्णं भारतानाम अनामयम ॥ 25 ॥

  26. वासुदेवेन तीर्थेन तात गच्छस्व संगमम कालप्राप्तम इदं मन्ये मा तवं दुर्यॊधनातिगाः ॥ 26 ॥

  27. शमं चेद याचमानं तवं परत्याख्यास्यसि केशवम तवदर्थम अभिजल्पन्तं न तवास्त्य अपराभवः ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 124

Previous: अध्याय 122