धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 122

  1. [धृ] भगवन्न एवम एवैतद यथा वदसि नारद इच्छामि चाहम अप्य एवं न तव ईशॊ भगवन्न अहम ॥ 1 ॥

  2. एवम उक्त्वा ततः कृष्णम अभ्यभाषत भारत सवर्ग्यं लॊक्यं च माम आत्थ धर्म्यं नयाय्यं च केशव ॥ 2 ॥

  3. न तव अहं सववशस तात करियमाणं न मे परियम अङ्गदुर्यॊधनं कृष्ण मन्दं शास्त्रातिगं मम ॥ 3 ॥

  4. अनुनेतुं महाबाहॊ यतस्व पुरुषॊत्तम सुहृत कार्यं तु सुमहत कृतं ते सयाज जनार्दन ॥ 4 ॥

  5. ततॊ ऽभयावृत्य वार्ष्णेयॊ दुर्यॊधनम अमर्षणम अब्रवीन मधुरां वाचं सर्वधर्मार्थतत्त्ववित ॥ 5 ॥

  6. दुर्यॊधन निबॊधेदं मद्वाक्यं कुरुसत्तम समर्थं ते विशेषेण सानुबन्धस्य भारत ॥ 6 ॥

  7. महाप्राज्ञ कुले जातः साध्व एतत कर्तुम अर्हसि शरुतवृत्तॊपसंपन्नः सर्वैः समुदितॊ गुणैः ॥ 7 ॥

  8. दौष्कुलेया दुरात्मानॊ नृषंशा निरपत्रपाः त एतद ईदृशं कुर्युर यथा तवं तात मन्यसे ॥ 8 ॥

  9. धर्मार्थयुक्ता लॊके ऽसमिन परवृत्तिर लक्ष्यते सताम असतां विपरीता तु लक्ष्यते भरतर्षभ ॥ 9 ॥

  10. विपरीता तव इयं वृत्तिर असकृल लक्ष्यते तवयि अधर्मश चानुबन्धॊ ऽतर घॊरः पराणहरॊ महान ॥ 10 ॥

  11. अनेकशस तवन्निमित्तम अयशस्यं च भारत तम अनर्थं परिहरन्न आत्मश्रेयः करिष्यसि ॥ 11 ॥

  12. भरातॄणाम अथ भृत्यानां मित्राणां च परंतप अधर्म्याद अयशस्याच च कर्मणस तवं परमॊक्ष्यसे ॥ 12 ॥

  13. पराज्ञैः शूरैर महॊत्साहैर आत्मवद्भिर बहुश्रुतैः संधत्स्व पुरुषव्याघ्र पाण्डवैर भरतर्षभ ॥ 13 ॥

  14. तद धितं च परियं चैव धृतराष्ट्रस्य धीमतः पितामहस्य दरॊणस्य विदुरस्य महामतेः ॥ 14 ॥

  15. कृपस्य सॊमदत्तस्य बाह्लीकस्य च धीमतः अश्वत्थाम्नॊ विकर्णस्य संजयस्य विशां पते ॥ 15 ॥

  16. जञातीनां चैव भूयिष्ठं मित्राणां च परंतप शमे शर्म भवेत तात सर्वस्य जगतस तथा ॥ 16 ॥

  17. हरीमान असि कुले जातः शरुतवान अनृशंसवान तिष्ठ तात पितुः शास्त्रे मातुश च भरतर्षभ ॥ 17 ॥

  18. एतच छरेयॊ हि मन्यन्ते पिता यच छास्ति भारत उत्तमापद गतः सर्वः पितुः समरति शासनम ॥ 18 ॥

  19. रॊचते ते पितुस तात पाण्डवैः सह संगमः सामात्यस्य कुरुश्रेष्ठ तत तुभ्यं तात रॊचताम ॥ 19 ॥

  20. शरुत्वा यः सुहृदां शास्त्रं मर्त्यॊ न परतिपद्यते विपाकान्ते दहत्य एनं किं पाकम इव भक्षितम ॥ 20 ॥

  21. यस तु निःश्रेयसं वाक्यं मॊहान न परतिपद्यते स दीर्घसूत्रॊ हीनार्थः पश्चात तापेन युज्यते ॥ 21 ॥

  22. यस तु निःश्रेयसं शरुत्वा पराप्तम एवाभिपद्यते आत्मनॊ मतम उत्सृज्य स लॊके सुखम एधते ॥ 22 ॥

  23. यॊ ऽरथकामस्य वचनं परातिकूल्यान न मृष्यते शृणॊति परतिकूलानि दविषतां वशम एति सः ॥ 23 ॥

  24. सतां मतम अतिक्रम्य यॊ ऽसतां वर्तते मते शॊचन्ते वयसने तस्य सुहृदॊ नचिराद इव ॥ 24 ॥

  25. मुख्यान अमात्यान उत्सृज्य यॊ निहीनान निषेवते स घॊराम आपदं पराप्य नॊत्तारम अधिगच्छति ॥ 25 ॥

  26. यॊ ऽसत सेवी वृथाचारॊ न शरॊता सुहृदां सदा परान वृणीते सवान दवेष्टि तं गौः शपति भारत ॥ 26 ॥

  27. स तवं विरुध्य तैर वीरैर अन्येभ्यस तराणम इच्छसि अशिष्टेभ्यॊ ऽसमर्थेभ्यॊ मूढेभ्यॊ भरतर्षभ ॥ 27 ॥

  28. कॊ हि शक्रं समाञ जञातीन अतिक्रम्य महारथान अन्येभ्यस तराणम आशंसेत तवदन्यॊ भुवि मानवः ॥ 28 ॥

  29. जन्मप्रभृति कौन्तेया नित्यं विनिकृतास तवया न च ते जातु कुप्यन्ति धर्मात्मानॊ हि पाण्डवाः ॥ 29 ॥

  30. मिथ्या परचरितास तात जन्मप्रभृति पाण्डवाः तवयि सम्यङ महाबाहॊ परतिपन्ना यशस्विनः ॥ 30 ॥

  31. तवयापि परतिपत्तव्यं तथैव भरतर्षभ सवेषु बन्धुषु मुख्येषु मा मन्युवशम अन्वगाः ॥ 31 ॥

  32. तरिवर्गयुक्ता पराज्ञानाम आरम्भा भरतर्षभ धर्मार्थाव अनुरुध्यन्ते तरिवर्गासंभवे नराः ॥ 32 ॥

  33. पृथक तु विनिविष्टानां धर्मं धीरॊ ऽनुरुध्यते मध्यमॊ ऽरथं कलिं बालः कामम एवानुरुध्यते ॥ 33 ॥

  34. इन्द्रियैः परसृतॊ लॊभाद धर्मं विप्रजहाति यः कामार्थाव अनुपायेन लिप्समानॊ विनश्यति ॥ 34 ॥

  35. कामार्थौ लिप्समानस तु धर्मम एवादितश चरेत न हि धर्माद अपैत्य अर्थः कामॊ वापि कदा चन ॥ 35 ॥

  36. उपायं धर्मम एवाहुस तरिवर्गस्य विशां पते लिप्समानॊ हि तेनाशु कक्षे ऽगनिर इव वर्धते ॥ 36 ॥

  37. स तवं तातानुपायेन लिप्ससे भरतर्षभ आधिराज्यं महद दीप्तं परथितं सर्वराजसु ॥ 37 ॥

  38. आत्मानं तक्षति हय एष वनं परशुना यथा यः सम्यग वर्तमानेषु मिथ्या राजन परवर्तते ॥ 38 ॥

  39. न तस्य हि मतिं छिन्द्याद यस्य नेच्छेत पराभवम अविच्छिन्नस्य धीरस्य कल्याणे धीयते मतिः ॥ 39 ॥

  40. तयक्तात्मानं न बाधेत तरिषु लॊकेषु भारत अप्य अन्यं पराकृतं किं चित किम उ तान पाण्डवर्षभान ॥ 40 ॥

  41. अमर्षवशम आपन्नॊ न किं चिद बुध्यते नरः छिद्यते हय आततं सर्वं परमाणं पश्य भारत ॥ 41 ॥

  42. शरेयस ते दुर्जनात तात पाण्डवैः सह संगमः तैर हि संप्रीयमाणस तवं सर्वान कामान अवाप्स्यसि ॥ 42 ॥

  43. पाण्डवैर निर्जितां भूमिं भुञ्जानॊ राजसत्तम पाण्डवान पृष्ठतः कृत्वा तराणम आशंससे ऽनयथ ॥ 43 ॥

  44. दुःशासने दुर्विषहे कर्णे चापि ससौबले एतेष्व ऐश्वर्यम आधाय भूतिम इच्छसि भारत ॥ 44 ॥

  45. न चैते तव पर्याप्ता जञाने धर्मार्धयॊस तथा विक्रमे चाप्य अपर्याप्ताः पाण्डवान परति भारत ॥ 45 ॥

  46. न हीमे सर्वराजानः पर्याप्ताः सहितास तवया करुद्धस्य भीमसेनस्य परेक्षितुं मुखम आहवे ॥ 46 ॥

  47. इदं संनिहितं तात समग्रं पार्थिवं बलम अयं भीष्मस तथा दरॊणः कर्णश चायं तथा कृपः ॥ 47 ॥

  48. भूरिश्रवाः सौमदत्तिर अश्वत्थामा जयद्रथः अशक्ताः सर्व एवैते परतियॊद्धुं धनंजयम ॥ 48 ॥

  49. अजेयॊ हय अर्जुनः करुद्धः सर्वैर अपि सुरासुरैः मानुषैर अपि गन्धर्वैर मा युद्धे चेत आधिथाः ॥ 49 ॥

  50. दृश्यतां वा पुमान कश चित समग्रे पार्थिवे बले यॊ ऽरजुनं समरे पराप्य सवस्तिमान आव्रजेद गृहान ॥ 50 ॥

  51. किं ते जनक्षयेणेह कृतेन भरतर्षभ यस्मिञ जिते जितं ते सयात पुमान एकः स दृश्यताम ॥ 51 ॥

  52. यः स देवान सगन्धर्वान सयक्षासुरपन्नगान अजयत खाण्डव परस्थे कस तं युध्येत मानवः ॥ 52 ॥

  53. तथा विराटनगरे शरूयते महद अद्भुतम एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम ॥ 53 ॥

  54. तम अजेयम अनाधृष्यं विजेतुं जिष्णुम अच्युतम आशंससीह समरे वीरम अर्जुनम ऊर्जितम ॥ 54 ॥

  55. मद्द्वितीयं पुनः पार्थं कः परार्थयितुम अर्हति युद्धे परतीपम आयान्तम अपि साक्षात पुरंदरः ॥ 55 ॥

  56. बाहुभ्याम उद्धरेद भूमिं दहेत करुद्ध इमाः परजाः पातयेत तरिदिवाद देवान यॊ ऽरजुनं समरे जयेत ॥ 56 ॥

  57. पश्य पुत्रांस तथा भरातॄञ जञातीन संबन्धिनस तथा तवत्कृते न विनश्येयुर एते भरतसत्तम ॥ 57 ॥

  58. अस्तु शेषं कौरवाणां मा पराभूद इदं कुलम कुलघ्न इति नॊच्येथा नष्टकीर्तिर नराधिप ॥ 58 ॥

  59. तवाम एव सथापयिष्यन्ति यौवराज्ये महारथाः महाराज्ये च पितरं धृतराष्ट्रं जनेश्वरम ॥ 59 ॥

  60. मा तात शरियम आयान्तीम अवमंस्थाः समुद्यताम अर्धं परदाय पार्थेभ्यॊ महतीं शरियम आप्स्यसि ॥ 60 ॥

  61. पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः संप्रीयमाणॊ मित्रैश च चिरं भद्राण्य अवाप्स्यसि ॥ 61 ॥

Reach this point to mark the section finished.

Continue to अध्याय 123

Previous: अध्याय 121