धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 121

  1. [न] सद्भिर आरॊपितः सवर्गं पार्थिवैर भूरिदक्षिणैः अभ्यनुज्ञाय दौहित्रान ययातिर दिवम आस्थितः ॥ 1 ॥

  2. अभिवृष्टश च वर्षेण नानापुष्पसुगन्धिना परिष्वक्तश च पुण्येन वायुना पुण्यगन्धिना ॥ 2 ॥

  3. अचलं सथानम आरुह्य दौहित्र फलनिर्जितम कर्मभिः सवैर उपचितॊ जज्वाल परया शरिया ॥ 3 ॥

  4. उपगीतॊपनृत्तश च गन्धर्वाप्सरसां गणैः परीत्या परतिगृहीतश च सवर्गे दुन्दुभिनिस्वनैः ॥ 4 ॥

  5. अभिष्टुतश च विविधैर देवराजर्षिचारणैः अर्चितश चॊत्तमार्घेण दैवतैर अभिनन्दितः ॥ 5 ॥

  6. पराप्तः सवर्गफलं चैव तम उवाच पितामहः निर्वृतं शान्तमनसं वचॊभिस तर्पयन्न इव ॥ 6 ॥

  7. चतुष पादस तवया धर्मश चितॊ लॊक्येन कर्मणा अक्षयस तव लॊकॊ ऽयं कीर्तिश चैवाक्षया दिवि पुनस तवाद्य राजर्षे सुकृतेनेह कर्मणा ॥ 7 ॥

  8. आवृतं तमसा चेतः सर्वेषां सवर्गवासिनाम येन तवां नाभिजानन्ति ततॊ ऽजञात्वासि पातितः ॥ 8 ॥

  9. परीत्यैव चासि दौहित्रैस तारितस तवम इहागतः सथानं च परतिपन्नॊ ऽसि कर्मणा सवेन निर्जितम अचलं शाश्वतं पुण्यम उत्तमं धरुवम अव्ययम ॥ 9 ॥

  10. भगवन संशयॊ मे ऽसति कश चित तं छेत्तुम अर्हसि न हय अन्यम अहम अर्हामि परष्टुं लॊकपितामह ॥ 10 ॥

  11. बहुवर्षसहस्रान्तं परजापालनवर्धितम अनेकक्रतुदानौघैर अर्जितं मे महत फलम ॥ 11 ॥

  12. कथं तद अल्पकालेन कषीणं येनास्मि पातितः भगवन वेत्थ लॊकांश च शाश्वतान मम निर्जितान ॥ 12 ॥

  13. बहुवर्षसहस्रान्तं परजापालनवर्धितम अनेकक्रतुदानौघैर यत तवयॊपार्जितं फलम ॥ 13 ॥

  14. तद अनेनैव दॊषेण कषीणं येनासि पातितः अभिमानेन राजेन्द्र धिक्कृतः सवर्गवासिभिः ॥ 14 ॥

  15. नायं मानेन राजर्षे न बलेन न हिंसया न शाठ्येन न मायाभिर लॊकॊ भवति शाश्वतः ॥ 15 ॥

  16. नावमान्यास तवया राजन्न अवरॊत्कृष्टमध्यमाः न हि मानप्रदग्धानां कश चिद अस्ति समः कव चित ॥ 16 ॥

  17. पतनारॊहणम इदं कथयिष्यन्ति ये नराः विषमाण्य अपि ते पराप्तास तरिष्यन्ति न संशयः ॥ 17 ॥

  18. एष दॊषॊ ऽभिमानेन पुरा पराप्तॊ ययातिना निर्बन्धतश चातिमात्रं गालवेन महीपते ॥ 18 ॥

  19. शरॊतव्यं हितकामानां सुहृदां भूतिम इच्छताम न कर्तव्यॊ हि निर्बन्धॊ निर्बन्धॊ हि कषयॊदयः ॥ 19 ॥

  20. तस्मात तवम अपि गान्धारे मानं करॊधं च वर्जय संधत्स्व पाण्डवैर वीर संरम्भं तयज पार्थिव ॥ 20 ॥

  21. ददाति यत पार्थिव यत करॊति; यद वा तपस तप्यति यज जुहॊति न तस्य नाशॊ ऽसति न चापकर्षॊ; नान्यस तद अश्नाति स एव कर्ता ॥ 21 ॥

  22. इदं महाख्यानम अनुत्तमं मतं; बहुश्रुतानां गतरॊषरागिणाम समीक्ष्य लॊके बहुधा परधाविता; तरिवर्गदृष्टिः पृथिवीम उपाश्नुते ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 122

Previous: अध्याय 120